53010: सप्तम्यास्त्रल्

Padacheda: सप्तम्याः | S | 5 | 1 |

त्रल् | S | 1 | 1 |

Sutrartha

सर्वादिगणे विद्यमानेभ्यः ‘सर्व’ इत्यस्मात् आरभ्य ‘एक’ इति यावत् शब्देभ्यः, ‘बहु’ शब्दात् तथा च ‘किम्’ शब्दात् सप्तम्यन्तात् स्वार्थे ‘त्रल्’ प्रत्ययः भवति ।

अनेन सूत्रेण ‘त्रल्’ इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः ‘त्र’ इत्येव प्रयोगे दृश्यते । किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5.3.2) इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः ‘त्रल्’ प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः - 1) कस्मिन् इत्येव = कस्मिन् + त्रल् [‘कस्मिन्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → किम् + त्र [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → कु + त्र [किमः कः (7.2.103) इत्यनेन विभक्तिसंज्ञके प्रत्यये परे ‘किम्’ इत्यस्य ‘क’ इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः (7.2.104) इति ‘कु’ आदेशः ] → कुत्र विशेषः - ‘कस्मिन्’ इत्यस्मात् पक्षे किमोऽत् (5.3.12) इत्यनेन ‘अत्’ इत्यपि प्रत्ययः विधीयते, तेन ‘क्व’ इति अपि शब्दः सिद्ध्यति । 2) अमुष्मिन् इत्येव = अमुष्मिन् + त्रल् [‘अस्मिन्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → अदस् + त्र [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → अमु + त्र [अदसोऽसेर्दादु दो मः (8.2.80) इति ‘अदस्’ इत्यस्य अमु’ आदेशः ।] → अमुत्र 3) यस्मिन् इत्येव = यस्मिन् + त्रल् [‘यस्मिन्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → यद् + त्र [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → य + त्र [त्यदादीनामः (7.2.102) इति दकारस्य अकारादेशः । अतो गुणे (6.1.97) इति पररूप-एकादेशः ] → यत्र [ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] 4) एतस्मिन् इत्येव = एतस्मिन् + त्रल् [‘एतस्मिन्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → एतद् + त्रल् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → अन् + त्र [एतदोऽन् (5.3.5) इति एतद्-शब्दस्य अन्-आदेशः] → अत्र [स्वादिष्वसर्वनामस्थाने (1.4.17) इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्रे नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] एवमेव ‘बहुत्र’, ‘सर्वत्र’, ‘एकत्र’, ‘उभयत्र’, ‘पूर्वत्र’, ‘अन्यत्र’, ‘तत्र’, ‘यत्र’ - एते शब्दाः अपि सिद्ध्यन्ति । विशेषः - 1. ‘इदम्’ शब्दस्य विषये वर्तमानसूत्रेण ‘त्रल्’ प्रत्यये प्राप्ते तं बाधित्वा इदमो हः (5.3.11) इत्यनेन ‘ह’ प्रत्ययः विधीयते, येन ‘इह’ इति शब्दः सिद्ध्यति । 2. अनेन सूत्रेण सप्तमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि ‘सप्तमीसमर्थात्’ इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्ष्यते । 4. सर्व, एक, अन्य, किम्, यद्, तथा तद् - एतेषाम् विषये सप्तम्यन्तः शब्दः यदि कालस्य विशेषणरूपेण प्रयुज्यते (यथा - ‘कस्मिन् काले / एकस्मिन् काले - आदयः), तर्हि वर्तमानसूत्रेण विहितम् ‘त्रल्’ प्रत्ययं बाधित्वा सर्वैकान्यकिंयत्तदः काले दा (5.3.15) इत्यनेन ‘दा’ इति प्रत्ययः विधीयते, येन ‘सर्वदा’, ‘एकदा’ - एतादृशाः शब्दाः सिद्ध्यन्ति । 5. त्रल्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - बह्वीषु इत्येव = बह्वी + त्रल् → बहु + त्रल् [पुंवद्वावः] → बहुत्र ।

Vasu English Summary

The affix त्रल् comes after किम् , सर्वनाम and बहु when ending in Locative -7th case.

Vasu English Translation

The affix त्रल् comes after किम् , सर्वनाम and बहु when ending in Locative -7th case. Thus कुत्र (7.2.104) ‘where’, तत्र (7.2.102) ‘there’, बहुत्र ‘in many places’.

Bhashya

सप्तम्यास्त्रल् (2168) (त्रल्त्रसिलोरधिकरणम्) (त्रल्तसिलोः प्रत्ययत्वादेशत्वविचारकभाष्यम्) इदं विचार्यते - ःइमे तसिलादयो विभक्त्यादेशा वा स्युः परे वेति। कथं च आदेशाः स्युः, कथं वा परे? यदि पञ्ञ्चम्याः सप्तम्याः इति षष्ठी, तदा - आदेशाः। अथ पञ्ञ्चमी, ततः - परे। कुतः संदेहः? समानो निर्देशः। कश्चात्र विशेषः? (5804 आदेशपक्षे दोषवार्तिकम्॥ 1 ॥) - तसिलादयो विभक्त्यादेशाश्चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः - (भाष्यम्) तसिलादयो विभक्त्यादेशाश्चेत् सुव्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधीनां प्रतिषेधो वक्तव्यः। सुब्लुक्-ततस्त्यः, यतस्त्यः। तत्रत्यः, यत्रत्यः। सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुब्लुक् प्राप्नोति। सुब्लुक्॥ स्वर - यदा। तदा। अनुदात्तौ सुप्पितौ 3.1.4 इत्येष स्वरः प्राप्नोति। स्वर॥ गुण - कस्मात्, कुतः। घेर्ङिति 7.3.111 इति गुणः प्राप्नोति। गुण॥ दीर्घ - तस्मिन्, तर्हि। अतो दीर्घो यञ्ञि सुपि च 7.3.101,102 इति दीर्घत्वं प्राप्नोति। दीर्घ॥ एत्व - तेषु, तत्र। बहुवचने झल्येत् 7.3.103 इत्येवं प्राप्नोति। एत्व॥ औत्त्व - कस्मिन्, कुत्र। इदुद्भ्यामौत् अच्चघेः 7.3.117,119 इत्यौत्वं प्राप्नोति। औत्त्व। स्मायादिविधिः - तस्मात् - ततः, तस्मिन् - तत्र। ङसिङ्योः स्मात्स्मिनौ 7.1.15 इति स्मायादयः प्राप्नुवन्ति॥ (5805 प्रत्ययत्वपक्षोपपादकवार्तिकम्॥ 2 ॥) - पञ्ञ्चमीनिर्देशात्सिद्धम् - (भाष्यम्) सन्तु परे॥ (प्रत्ययत्वाक्षेपे भाष्यम्) यदि परे समानशब्दानां प्रतिषेधो वक्तव्यः। तस्मात्तस्यति। यस्मात्तस्यति। पञ्ञ्चम्यन्तात्परस्य तसेस्तसिल्भवतीति तसिल् प्राप्नोति॥ (5806 समाधानवार्तिकम्॥ 3 ॥) - अनादेशे स्वार्थविज्ञानात्समानशब्दाप्रतिषेधः - (भाष्यम्) अनादेशे स्वार्थविज्ञानात्समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः। तसिल्कस्मान्न भवति? स्वार्थविज्ञानात्। पञ्ञ्चम्यन्तात्परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम्। न चात्र पञ्ञ्चम्यन्तात्परस्तसिः स्वार्थे वर्तते॥

Kashika

किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति। कुत्र। यत्र। तत्र। बहुत्र॥

Siddhanta Kaumudi

कुत्र । यत्र । तत्र । बहुत्र ॥

Laghu Siddhanta Kaumudi

कुत्र। यत्र। तत्र। बहुत्र॥

Balamanorama

सप्तम्यास्त्रल् - सप्तम्यास्त्रल् । किमादिभ्यः सप्तम्यन्तेभ्योऽद्व्यादिभ्यस्त्रलित्यर्थः ।कुत्रे॑त्यादिरूपाणि ‘कुत’ इत्यादिवत् ।

Tattvabodhini

सप्तम्यास्त्रल् - सप्तम्यास्त्रल् । इह त्रल्तसिलौ स्वतन्त्रौ प्रत्ययौ, न तु सप्तमी पचम्योरादेशौ । तेन कुत्र बहुत्र कुतः बहुत इत्यादौअच्च घेः॑घेर्ङिती॑त्यादिकं नेत्याहुः ।

Prakriyasarvasvam

सप्तम्यन्तात्किमादेः त्रल् स्यात् । प्राग्वत् कुभावादिकमव्ययत्वं च । कुत्र । सर्वत्र । विश्वत्र । तत्र । एतस्मिन्नत्र । अमुत्र । बहुत्र ॥