53011: इदमो हः ============== **Padacheda:** इदमः | S | 5 | 1 | हः | S | 1 | 1 | Sutrartha --------- **'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे 'ह' प्रत्ययः भवति ।** 'इदम्' इति सर्वनामशब्दः । अस्य सप्तमीविभक्त्यन्तात् **सप्तम्यास्त्रल्** (5.3.10) इत्यनेन औत्सर्गिकरूपेण 'त्रल्' प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'ह' प्रत्ययः विधीयते । यथा - अस्मिन् इत्येव = अस्मिन् + ह → इदम् + ह [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → इ + ह [**इदम इश्** (5.3.3) इति इश्-आदेशः] → इह अनेन प्रकारेण 'इह' इति शब्दः सिद्ध्यति । **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा विधीयते । Vasu English Summary -------------------- The affix ह comes after इदम् ending in the Locative -7th case. Vasu English Translation ------------------------ The affix ह comes after इदम् ending in the Locative -7th case. This debars त्रल् ॥ Thus इह (5.3.3) 'here'. Kashika ------- इदमः सप्तम्यन्ताद् हः प्रत्ययो भवति। त्रलोऽपवादः। इह॥ Siddhanta Kaumudi ----------------- त्रलोऽपवादः इशादेशः । इह ॥ Laghu Siddhanta Kaumudi ----------------------- त्रलोऽपवादः। इह॥ Balamanorama ------------ **इदमो हः** - इदमो हः । इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः ।