53007: पञ्चम्यास्तसिल्

Padacheda: पञ्चम्याः | S | 5 | 1 |

तसिल् | S | 1 | 1 |

Sutrartha

सर्वादिगणे विद्यमानेभ्यः ‘सर्व’ इत्यस्मात् आरभ्य ‘एक’ इति यावत् शब्देभ्यः, ‘बहु’ शब्दात् तथा च ‘किम्’ शब्दात् पञ्चम्यन्तात् ‘तसिल्’ प्रत्ययः भवति ।

अनेन सूत्रेण ‘तसिल्’ इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, लकारश्च इत्संज्ञकः अस्ति । द्वयोः अपि प्रक्रियायाः प्रारम्भे लोपः भवति, अतः ‘तस्’ इत्येव प्रयोगे दृश्यते । किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5.3.2) इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः ‘तसिल्’ प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः - 1) कस्मात् इत्येव = कस्मात् + तसिल् [‘कस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → किम् + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → कु + तस् [किमः कः (7.2.103) इत्यनेन विभक्तिसंज्ञके प्रत्यये परे ‘किम्’ इत्यस्य ‘क’ इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः (7.2.104) इति ‘कु’ आदेशः ] → कुतः [ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] 2) अमुष्मात् इत्येव = अमुष्मात् + तसिल् [‘अस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → अदस् + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → अदस् + तरुँ [ससजुषोः रुँः (8.2.66) इति रुँत्वम्] → अमु + तरुँ [अदसोऽसेर्दादु दो मः (8.2.80) इति ‘अदस्’ इत्यस्य अमु’ आदेशः ।] → अमुतः [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] 3) यस्मात् इत्येव = यस्मात् + तसिल् [‘यस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → यद् + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → य + तस् [त्यदादीनामः (7.2.102) इति दकारस्य अकारादेशः । अतो गुणे (6.1.97) इति पररूप-एकादेशः ] → यतः [ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] 4) अस्मात् इत्येव = अस्मात् + तसिल् [‘अस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्] → इदम् + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → इ + तस् [इदम इश् (5.3.3) इति ‘इदम्’ इत्यस्य ‘इ’ आदेशः ।] → इतः [ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] एवमेव ‘बहुतः’, ‘सर्वतः’, ‘विश्वतः’, ‘उभयतः’, ‘ततः’, ‘अन्यतः’, ‘पूर्वतः’, ‘एकतः’ - आदयः शब्दाः सिद्ध्यन्ति । एते सर्वे तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञां अपि स्वीकुर्वन्ति । विशेषः - 1. अनेन सूत्रेण पञ्चमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि ‘पञ्चमीसमर्थात्’ इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्षते । 2. तसिल्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - बह्व्याः इत्येव = बह्वी + तसिल् → बहु + तसिल् [पुंवद्वावः] → बहुतः ।

Vasu English Summary

The affix तसिल् (तस्) comes after the word किम् , a सर्वनाम and बहु when ending in Ablative -5th case.

Vasu English Translation

The affix तसिल् (तस्) comes after the word किम् , a सर्वनाम and बहु when ending in Ablative -5th case. As किम् + तसिल् = कु + तस् (7.2.104) = कुतः, यतः, ततः, बहुतः ॥

Bhashya

पञ्ञ्चम्यास्तसिल् (2165)

Kashika

पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यस्तसिल् प्रत्ययो भवति। कुतः। यतः। ततः। बहुतः॥

Siddhanta Kaumudi

पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥

Laghu Siddhanta Kaumudi

पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥

Balamanorama

पञ्चम्यास्तसिल् - तदेव तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् आदेशान्विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते — पञ्चम्यास्तसिल् । किमादिभ्य इति किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति ।समर्थाना॑मित्यतो वाग्रहणस्याऽनुवृत्तेरिति भावः ।

Padamanjari

तसिल्प्रत्ययो भवतीति। यदि पुनः’पञ्चम्याः’ ‘सप्तम्याः’ इति षष्ठ।लश्रयेण पञ्चम्यादीनां तसिलादय आदेशा विज्ञायेरन्, सुब्लुक्स्वरगुणदीर्घत्वैत्वौत्वस्मायादिविधिप्रतिषेधः। सुब्लुक् - ठव्ययात्यप्ऽ, ततस्त्यः, तत्रत्यः,’सुपो धातुप्रातिपदिकयोः’ इति तसित्रलोर्लुक् प्राप्नोति। स्वरः - तदा, यदा, ठनुदातौ सुप्पितौऽ इत्यनुदातत्वं प्राप्नोति। गुणः - कुतः,’घेङिति’ इति गुणः प्राप्नोति। दीर्घत्वम् - तर्हि, ठतो दीर्गो यञिऽ,’सुपि च’ इति दीर्घत्वं प्राप्नोति। एत्वम् - तर्हि, ठतो दीर्घो यञिऽ’सुपि च’ इति दीर्घत्वं प्राप्नोति। एत्वम् - तेषु, तत्र,’बहुवचने झल्येत्’ प्राप्नोति। औत्वम्-कस्मिन्, कुत्र, ठौत्ऽ ठच्च घेःऽ इत्यौत्वं प्राप्नोति। स्मायादितस्मात्, तस्मिन्, तत्र,’ङसिड्योः स्मात्स्मिनौ’ इति स्मात्स्मिनौ प्राप्नुतः। तस्मात्’पञ्चम्याः सप्तम्या इति पञ्चमी, तसिलादयश्च प्रत्ययाः’ इति युक्तम्। अत एव ठितराभ्यःऽ इति पञ्चमीनिर्द्देशः; इतरथा ठितरासाम्ऽ इति वक्तव्यं स्यात्। यदि तर्हि तसिलादयः प्रत्ययाः, नादेशाः,’तसेश्च’ इति तस्यतेर्धातोरपि दोषः;’प्रतियोगे पञ्चम्यास्तसिः’ , ठपादाने चाहीयरुहोःऽ इत्यत्रअप्यदेशत्वात्पञ्चम्यादेशस्य तसेस्तसिलादेशविदानात् ? प्रत्ययपक्षेऽपि न दोषः; तसेरितीकारो विवक्षितः, तेन धातोर्न भविष्यति ॥

Nyaas

तसिल प्रत्ययो भवति इति। आदेशा एवामी तसिलादयः पञ्चम्यादीनां स्थाने कस्मात्र क्रियन्ते, एवं हि विभक्तितसंज्ञा न कर्तव्या भवति? अशक्या एत आदेशाः कर्तुम्; आदेशत्वे ह्रेषामव्यायात्? त्यपि (4.2.103) - ततस्त्यः, यतस्त्य इत्यत्र सुपो धातुप्रातिपदिकयोः (2.4.71) इति लुक्। लभन्ते हि स्थानिवद्भावेन सुबादेशाः सुबाश्रयं कार्यम्। तत इति, अनुदात्तौ सुप्पितौ (3.1.4) इत्यनुदात्तः। कुत इति, धेङिति (7.3.111) इति गुणः। एतर्हीति, सुपि च (7.3.102) इति दीर्घः। तत्रेति, बहुवचनेझल्येत्? (7.3.103) इत्येत्वम्। कुत्रेति, **अच्च घेः** (7.3.119) इत्यौत्त्वम्। ततः, तत्रेति, **ङसिङ्योः स्मात्स्मिनौ** (7.1.15) इति स्मात्स्मिनौ। तस्मान्नादेशा अमी क्रियन्ते। यद्येवम्, `तसु उपक्षये (धा। पा। 1212) इत्यस्मात्? तस्यन्नित्यत्र धातुरूपस्य पञ्चम्याः परस्य तसेश्च (5.3.8) इति तसिलादेशः प्राप्नोति? नैष दोषः; स्वार्थिकविज्ञानान्न भविष्यति। स्वार्थिका ह्रेते तसिलादयः, तन्मध्ये तसिलादेशो विधीयमानस्तथा विज्ञायते यथा स्वार्थे क्रियामाणः, स्वार्थिकत्वं नातिक्रामति। अपादाने चाहीयरूहोः (5.4.45) इत्यनेन विहितस्तस्य स्व#आर्थिकस्य साथाने भवंस्तसिलपि स्वार्थिक एव भवति। धातुस्तु प्रातिपदिकादर्थान्तरे वर्तत इति तदादेशो भवंस्तसिल्? स्वार्थिको न भवति॥

Prakriyasarvasvam

पञ्चम्यन्तात् किमादेः स्वार्थे तसिल् स्यात् । पञ्चम्याः प्रातिपदिकान्तर्गतत्वात् ‘सुपो धातु’ (२-४-७१) इति लुक् । किम् तम् ॥

Sutra Prayogas

  • मत्तः (रघुवंशम्): पञ्चम्यास्तसिल् इति तसिल्-प्रत्ययः।

  • भवत्तः (रघुवंशम्): पञ्चम्यास्तसिल् इति तसिल्प्रत्ययः।

  • नभस्तः (रघुवंशम्): पञ्चम्यास्तसिल् इति तसिल्प्रत्ययः।

  • सरित्तो (रघुवंशम्): पञ्चम्यास्तसिल् इति तसिल्प्रत्ययः।

  • मनस्तः (रघुवंशम्): पञ्चम्यास्तसिल् इति तसिल्-प्रत्ययः।

  • ततो (कुमारसम्भवम्): पञ्चम्यास्तसिल् इति तसिल्प्रत्ययः।

  • शिरस्तः (कुमारसम्भवम्): पञ्चम्यास्तसिल् इति तसिल्प्रत्ययः।

  • रोधस्तः (शिशुपालवधम्): पञ्चम्यास्तसिल् इति तसिल्प्रत्ययः।

  • वधूकरतः (शिशुपालवधम्): पञ्चम्यास्तसिल् इति तसिल्-प्रत्ययः।

  • राजतः (शिशुपालवधम्): पञ्चम्यास्तसिल् इति पञ्चम्यर्थे तसिल्प्रत्ययः।

  • मत्तो (भट्टिकाव्यम्): पञ्चम्यास्तसिल इति तसिल्।