53007: पञ्चम्यास्तसिल् ====================== **Padacheda:** पञ्चम्याः | S | 5 | 1 | तसिल् | S | 1 | 1 | Sutrartha --------- **सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् पञ्चम्यन्तात् 'तसिल्' प्रत्ययः भवति ।** अनेन सूत्रेण 'तसिल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, लकारश्च इत्संज्ञकः अस्ति । द्वयोः अपि प्रक्रियायाः प्रारम्भे लोपः भवति, अतः 'तस्' इत्येव प्रयोगे दृश्यते । **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** (5.3.2) इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'तसिल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः - 1) कस्मात् इत्येव = कस्मात् + तसिल् ['कस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → किम् + तस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → कु + तस् [**किमः कः** (7.2.103) इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे **कु तिहोः** (7.2.104) इति 'कु' आदेशः ] → कुतः [**ससजुषो रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] 2) अमुष्मात् इत्येव = अमुष्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → अदस् + तस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → अदस् + तरुँ [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्] → अमु + तरुँ [**अदसोऽसेर्दादु दो मः** (8.2.80) इति 'अदस्' इत्यस्य अमु' आदेशः ।] → अमुतः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] 3) यस्मात् इत्येव = यस्मात् + तसिल् ['यस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → यद् + तस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → य + तस् [**त्यदादीनामः** (7.2.102) इति दकारस्य अकारादेशः । **अतो गुणे** (6.1.97) इति पररूप-एकादेशः ] → यतः [**ससजुषो रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] 4) अस्मात् इत्येव = अस्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → इदम् + तस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → इ + तस् [**इदम इश्** (5.3.3) इति 'इदम्' इत्यस्य 'इ' आदेशः ।] → इतः [**ससजुषो रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] एवमेव 'बहुतः', 'सर्वतः', 'विश्वतः', 'उभयतः', 'ततः', 'अन्यतः', 'पूर्वतः', 'एकतः' - आदयः शब्दाः सिद्ध्यन्ति । एते सर्वे **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञां अपि स्वीकुर्वन्ति । विशेषः - 1. अनेन सूत्रेण पञ्चमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि 'पञ्चमीसमर्थात्' इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्षते । 2. तसिल्-प्रत्यये परे **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - बह्व्याः इत्येव = बह्वी + तसिल् → बहु + तसिल् [पुंवद्वावः] → बहुतः । Vasu English Summary -------------------- The affix तसिल् (तस्) comes after the word किम् , a सर्वनाम and बहु when ending in Ablative -5th case. Vasu English Translation ------------------------ The affix तसिल् (तस्) comes after the word किम् , a सर्वनाम and बहु when ending in Ablative -5th case. As किम् + तसिल् = कु + तस् (7.2.104) = कुतः, यतः, ततः, बहुतः ॥ Bhashya ------- पञ्ञ्चम्यास्तसिल् (2165) Kashika ------- पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यस्तसिल् प्रत्ययो भवति। कुतः। यतः। ततः। बहुतः॥ Siddhanta Kaumudi ----------------- पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥ Laghu Siddhanta Kaumudi ----------------------- पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥ Balamanorama ------------ **पञ्चम्यास्तसिल्** - तदेव तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् आदेशान्विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते — पञ्चम्यास्तसिल् । किमादिभ्य इति किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति ।समर्थाना॑मित्यतो वाग्रहणस्याऽनुवृत्तेरिति भावः । Padamanjari ----------- तसिल्प्रत्ययो भवतीति। यदि पुनः'पञ्चम्याः' 'सप्तम्याः' इति षष्ठ।लश्रयेण पञ्चम्यादीनां तसिलादय आदेशा विज्ञायेरन्, सुब्लुक्स्वरगुणदीर्घत्वैत्वौत्वस्मायादिविधिप्रतिषेधः। सुब्लुक् - ठव्ययात्यप्ऽ, ततस्त्यः, तत्रत्यः,'सुपो धातुप्रातिपदिकयोः' इति तसित्रलोर्लुक् प्राप्नोति। स्वरः - तदा, यदा, ठनुदातौ सुप्पितौऽ इत्यनुदातत्वं प्राप्नोति। गुणः - कुतः,'घेङिति' इति गुणः प्राप्नोति। दीर्घत्वम् - तर्हि, ठतो दीर्गो यञिऽ,'सुपि च' इति दीर्घत्वं प्राप्नोति। एत्वम् - तर्हि, ठतो दीर्घो यञिऽ'सुपि च' इति दीर्घत्वं प्राप्नोति। एत्वम् - तेषु, तत्र,'बहुवचने झल्येत्' प्राप्नोति। औत्वम्-कस्मिन्, कुत्र, ठौत्ऽ ठच्च घेःऽ इत्यौत्वं प्राप्नोति। स्मायादितस्मात्, तस्मिन्, तत्र,'ङसिड्योः स्मात्स्मिनौ' इति स्मात्स्मिनौ प्राप्नुतः। तस्मात्'पञ्चम्याः सप्तम्या इति पञ्चमी, तसिलादयश्च प्रत्ययाः' इति युक्तम्। अत एव ठितराभ्यःऽ इति पञ्चमीनिर्द्देशः; इतरथा ठितरासाम्ऽ इति वक्तव्यं स्यात्। यदि तर्हि तसिलादयः प्रत्ययाः, नादेशाः,'तसेश्च' इति तस्यतेर्धातोरपि दोषः;'प्रतियोगे पञ्चम्यास्तसिः' , ठपादाने चाहीयरुहोःऽ इत्यत्रअप्यदेशत्वात्पञ्चम्यादेशस्य तसेस्तसिलादेशविदानात् ? प्रत्ययपक्षेऽपि न दोषः; तसेरितीकारो विवक्षितः, तेन धातोर्न भविष्यति ॥ Nyaas ----- `तसिल प्रत्ययो भवति` इति। आदेशा एवामी तसिलादयः पञ्चम्यादीनां स्थाने कस्मात्र क्रियन्ते, एवं हि विभक्तितसंज्ञा न कर्तव्या भवति? अशक्या एत आदेशाः कर्तुम्; आदेशत्वे ह्रेषामव्यायात्? त्यपि (4.2.103) - ततस्त्यः, यतस्त्य इत्यत्र **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति लुक्। लभन्ते हि स्थानिवद्भावेन सुबादेशाः सुबाश्रयं कार्यम्। तत इति, **अनुदात्तौ सुप्पितौ** (3.1.4) इत्यनुदात्तः। कुत इति, `धेङिति` (7.3.111) इति गुणः। एतर्हीति, `सुपि च` (7.3.102) इति दीर्घः। तत्रेति, `बहुवचनेझल्येत्? (7.3.103) इत्येत्वम्। कुत्रेति, **अच्च घेः** (7.3.119) इत्यौत्त्वम्। ततः, तत्रेति, **ङसिङ्योः स्मात्स्मिनौ** (7.1.15) इति स्मात्स्मिनौ। तस्मान्नादेशा अमी क्रियन्ते। यद्येवम्, `तसु उपक्षये` (धा। पा। 1212) इत्यस्मात्? तस्यन्नित्यत्र धातुरूपस्य पञ्चम्याः परस्य `तसेश्च` (5.3.8) इति तसिलादेशः प्राप्नोति? नैष दोषः; स्वार्थिकविज्ञानान्न भविष्यति। स्वार्थिका ह्रेते तसिलादयः, तन्मध्ये तसिलादेशो विधीयमानस्तथा विज्ञायते यथा स्वार्थे क्रियामाणः, स्वार्थिकत्वं नातिक्रामति। `अपादाने चाहीयरूहोः` (5.4.45) इत्यनेन विहितस्तस्य स्व#आर्थिकस्य साथाने भवंस्तसिलपि स्वार्थिक एव भवति। धातुस्तु प्रातिपदिकादर्थान्तरे वर्तत इति तदादेशो भवंस्तसिल्? स्वार्थिको न भवति॥ Prakriyasarvasvam ----------------- पञ्चम्यन्तात् किमादेः स्वार्थे तसिल् स्यात् । पञ्चम्याः प्रातिपदिकान्तर्गतत्वात् 'सुपो धातु' (२-४-७१) इति लुक् । किम् तम् ॥ Sutra Prayogas -------------- * **मत्तः** (रघुवंशम्): `पञ्चम्यास्तसिल्` इति तसिल्-प्रत्ययः। * **भवत्तः** (रघुवंशम्): `पञ्चम्यास्तसिल्` इति तसिल्प्रत्ययः। * **नभस्तः** (रघुवंशम्): `पञ्चम्यास्तसिल्` इति तसिल्प्रत्ययः। * **सरित्तो** (रघुवंशम्): `पञ्चम्यास्तसिल्` इति तसिल्प्रत्ययः। * **मनस्तः** (रघुवंशम्): `पञ्चम्यास्तसिल्` इति तसिल्-प्रत्ययः। * **ततो** (कुमारसम्भवम्): `पञ्चम्यास्तसिल्` इति तसिल्प्रत्ययः। * **शिरस्तः** (कुमारसम्भवम्): `पञ्चम्यास्तसिल्` इति तसिल्प्रत्ययः। * **रोधस्तः** (शिशुपालवधम्): `पञ्चम्यास्तसिल्` इति तसिल्प्रत्ययः। * **वधूकरतः** (शिशुपालवधम्): `पञ्चम्यास्तसिल्` इति तसिल्-प्रत्ययः। * **राजतः** (शिशुपालवधम्): `पञ्चम्यास्तसिल्` इति पञ्चम्यर्थे तसिल्प्रत्ययः। * **मत्तो** (भट्टिकाव्यम्): `पञ्चम्यास्तसिल` इति तसिल्।