53008: तसेश्च¶
Padacheda: तसेः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
सर्वादिगणे विद्यमानेभ्यः ‘सर्व’ इत्यस्मात् आरभ्य ‘एक’ इति यावत् शब्देभ्यः, ‘बहु’ शब्दात् तथा च ‘किम्’ शब्दात् विहितस्य ‘तसि’ प्रत्ययस्य ‘तसिल्’ आदेशः भवति ।
‘तसि’ इति कश्चन तद्धितप्रत्ययः स्वार्थिकप्रकरणे प्रतियोगे पञ्चम्यास्तसिः (5.4.44) तथा अपादाने चाहीयरुहोः (5.4.45) एताभ्याम् सूत्राभ्याम् पञ्चमीविभक्तिभ्यः शब्देभ्यः पाठितः अस्ति । यदि अयम् तसि-प्रत्ययः सर्वादिगणे विद्यमानेभ्यः ‘सर्व’ इत्यस्मात् आरभ्य ‘एक’ इति यावत् शब्देभ्यः, ‘बहु’ शब्दात् तथा च ‘किम्’ शब्दात् विधीयते, तर्हि तस्य वर्तमानसूत्रेण ‘तसिल्’ आदेशः भवति । यथा - कस्मात् + तसि [प्रतियोगे पञ्चम्यास्तसिः (5.4.44) इत्यनेन तसि-प्रत्ययः] → कस्मात् + तसिल् [वर्तमानसूत्रेण ‘तसि’ प्रत्ययस्य ‘तसिल्’ आदेशः] → किम् + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति पञ्चमीप्रत्ययस्य लुक्] → कु + तस् [किमः कः (7.2.103) इत्यनेन विभक्तिसंज्ञके प्रत्यये परे ‘किम्’ इत्यस्य ‘क’ इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः (7.2.104) इति ‘कु’ आदेशः ] → कुतः [ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] एवमेव ‘यतः’, ‘ततः’, ‘सर्वतः’ - आदयः शब्दाः अपि सिद्ध्यन्ति । ज्ञातव्यम् - ‘तसि’-प्रत्ययस्य ‘तसिल्’ इत्यस्य आदेशस्य प्रयोजनद्वयम् - अ) ‘तसिल्’ प्रत्ययः विभक्तिसंज्ञकः अस्ति, अतः अस्मिन् आदेशे कृते विभक्तिविशिष्टाः आदेशाः (यथा - त्यदादीनामः (7.2.102), किमः कः (7.2.103) - आदयः) भवितुमर्हन्ति । ‘तसिल्’ आदेशः न भवेत् चेत् एते आदेशाः अपि न विधीयन्ते, अतः इष्टरूपम् न सिद्ध्येत । आ) ‘तस्’ प्रत्ययस्य आदिस्वरः तकारः आद्युदात्तश्च (3.1.3) इत्यनेन आद्युदात्तः भवति । परन्तु तसिल्-प्रत्यये परे लिति (6.1.193) इत्यनेन प्रत्ययात् पूर्वं विद्यमानः स्वरः उदात्तत्वं प्राप्नोति, न हि प्रत्ययस्य आदिस्वरः । एतम् स्वरभेदम् दर्शयितुमपि ‘तसि’ इत्ययस्य ‘तसिल्’ आदेशः आचार्येण प्रोक्तः अस्ति । स्मर्तव्यम् - तसिल्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - बह्व्याः इत्येव = बह्वी + तस् [प्रतियोगे पञ्चम्यास्तसिः (5.4.44) इत्यनेन तसि-प्रत्ययः] = बह्वी + तसिल् [वर्तमानसूत्रेण ‘तसि’ प्रत्ययस्य ‘तसिल्’ आदेशः] → बहु + तसिल् [पुंवद्वावः] → बहुतः ।
Vasu English Summary¶
The affix तसिल् (तस्) is substituted for तस् – प्रतियोगे पञ्चम्यास्तसिः (5.4.44), अपादाने चाहीयरुहोः (5.4.45) when किम् a सर्वनाम and बहु follow.
Vasu English Translation¶
The affix तसिल् (तस्) is substituted for तस् – प्रतियोगे पञ्चम्यास्तसिः (5.4.44), अपादाने चाहीयरुहोः (5.4.45) when किम् a सर्वनाम and बहु follow. Thus कुतः, यतः, ततः, or बहुत आगतः ॥ This substitution is for the sake of accent; and for giving it the designation of vibhakti.
Bhashya¶
तसेश्च (2166) (तसिलादेशाधिकरणम्) (वार्तिकावतरणभाष्यम्) किमर्थं तसेस्तसिलुच्यते? (5807 प्रयोजनवार्तिकम्॥ 1 ॥) - तसेस्तसिल्वचनं स्वरार्थम् - (भाष्यम्) तसेस्तसिल्वचनं क्रियते। किं प्रयोजनम्? स्वरार्थम्। लिति 6.1.193 प्रत्ययात्पूर्वमुदात्तं भवतीत्येष स्वरो यथा स्यात्॥ (सूत्राक्षेपे समाधानभाष्यम्) ननु चायं तसिल् तसिं बाधिष्यते। न सिद्ध्यति। परत्वात्तसिः प्राप्नोति। तसिलोऽवकाशः - ततो हीयते, ततोऽवरोहति। तसेरवकाशः - ग्रामत आगच्छति, नगरत आगच्छति। इहोभयं प्राप्नोति - तत आगच्छति, यत आगच्छतीति। परत्वात्तसिः प्राप्नोति। तस्मात्सुष्ठूच्यते तसेस्तसिल्वचनं स्वरार्थमिति॥
Kashika¶
प्रतियोगे पञ्चम्यास्तसिः (५.४.४४),**अपादाने चाहीयरुहोः** (५.४.४५) इति वक्ष्यति। तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशो भवति। कुत आगतः। यतः। ततः। बहुत आगतः। तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च॥
Siddhanta Kaumudi¶
किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् ॥
Balamanorama¶
तसेश्च - तसेश्च । परस्य तसेरिति ।प्रतियोगे पञ्चम्यास्तसिः॑अपादाने चाहीयरुहो॑रिति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल्किमर्थमित्यत आह — स्वराथमिति । लित्स्वरार्थमित्यर्थः । विभक्त्यर्थमिति । विभक्तिनिमित्तकत्यदाद्यत्वार्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वाद्विभक्तित्वाऽभावात्त्यदाद्यत्वादिकं न स्यादित्यर्थः ।
Padamanjari¶
तस्य तसेरिति। परत्वात्कृतस्य तसिलोऽवकाशः - कुतोऽवहीयते, कुतोऽवरोहतीति, तसेस्तु ग्रमत आगच्छतीत्यादिः; कुत आगच्छतीत्यादावुभयप्रसङ्गे परत्वातसकिर्भवति, तस्यानेन तसिलादेसः। तसेस्तसिल्वचनं स्वरार्थमिति। लित्करणस्योक्तं प्रयोजनम्। विभक्त्यर्थं चेति। विभक्तिसंज्ञार्थं चेत्यर्थः। अन्यथा परत्वातसौ कृते तस्याप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्यदाद्यत्वं न स्यादिति रूपमेव न सिद्ध्येत् ॥
Nyaas¶
कुत आगत इति। अपादाने चाहीयरुहोः (5.4.45) इति परत्वात्? तसौ कृते तस्यानेन तसिल्। ननु च कृतेऽपि तसिलि तदेव रूपम्, तत्किमर्थमादिश्यते? इत्याह - तसेस्तसिल्ववचनम् इत्यादि॥
Prakriyasarvasvam¶
किं सर्वनामबहुभ्यस्तसेश्च तसिलादेशः स्यात् । तेन विभक्तिकार्यं स्वरभेदश्च । कुतः, ततः । अन्यथाऽस्मिस्तसौ किन्त इत्यादिप्रसङ्गः । कर्मकर्त्रर्थवृत्तेरपगमार्थो जहातिर्हीयेत्युक्तः, तस्य रुहेश्च योगे न । सार्थाद्धीयते हीनो वा । शैलादवरोहति ॥