53006: सर्वस्य सोऽन्यतरस्यां दि¶
Padacheda: सर्वस्य | S | 6 | 1 |
सः | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
दि | S | 7 | 1 |
Sutrartha¶
प्राग्दिशीये दकारादौ तद्धितप्रत्यये परे ‘सर्व’ इत्यस्य विकल्पेन ‘स’ इति आदेशः भवति ।
‘सर्व’ इति सर्वनामशब्दः । सर्वैकान्यकिंयत्तदः काले दा (5.3.15) इत्यनेन ‘दा’ इति दकारादिः प्राग्दिशीयः विभक्तिसंज्ञकः तद्धितप्रत्ययः अस्मात् शब्दात् विधीयते । अस्मिन् प्रत्यये परे ‘सर्व’ इत्यस्य वर्तमानसूत्रेण विकल्पेन ‘स’ इति आदेशः भवति । सर्व + दा → सर्वदा, सदा । ‘सर्वस्मिन् काले’ इति उभयोः शब्दयोः अर्थः । स्मर्तव्यम् - अस्मिन् सूत्रे ‘दकारादौ प्रत्यये परे’ इति उच्यते । प्राग्दिशीय-प्रकरणे द्वौ दकारादौ प्रत्ययौ पाठ्येते - ‘दानीम्’ तथा ‘दा’ । एताभ्याम् ‘दानीम्’ इति प्रत्ययः ‘सर्व’ शब्दात् नैव विधीयते, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् ‘दा’ प्रत्यये परे एव अस्ति ।
Vasu English Summary¶
The स is substituted for सर्व before a प्राग्दिशीय विभक्ति beginning with द।
Vasu English Translation¶
The स is substituted for सर्व before a प्राग्दिशीय विभक्ति beginning with द। Thus सर्वदा or सदा ॥ When the affix is not Pragdisiya, there is no substitution : as, सर्वे ददाति = सर्वदा ब्राह्मणी ‘a Brahmani who gives all’.
Kashika¶
सर्वस्य स इत्ययमादेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतोऽन्यतरस्याम्। सर्वदा, सदा। प्राग्दिशीय इत्येव — सर्वं ददातीति सर्वदा ब्राह्मणी॥
Siddhanta Kaumudi¶
प्राद्गिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥
Laghu Siddhanta Kaumudi¶
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम्? सर्वत्र देशे॥
Balamanorama¶
सर्वस्य सोऽन्यतरस्यां दि - सर्वस्य सो । ‘दि’ इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — प्राग्दिशीये दकाराविति । सदा इत्युदाहरणम् ।
Tattvabodhini¶
सर्वस्य सोऽन्यतरस्यां दि - आत्मनापञ्चम इति । तृतीयेति योगविभागात्समासः । इह प्रकृत्यादित्वात्प्रथमार्थे तृतीयेत्येके । आत्मना कृतः पञ्चमः इति करोतिक्रियापेक्षा सेत्यन्ये । पूरण इति वक्तव्यम् । बहुव्रीहर्बोध्य इति । एकस्याप्यौपाधिकभेदं परिकल्प्य वर्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः ।
Padamanjari¶
‘दि’ इति दकारदियं सप्तमी, तत्र’यस्मिन् विधिः’ इति तदादेर्ग्रहणं विज्ञायत इत्याह - दकारादौ प्रत्यये परत इति। सर्वदा ब्राह्मणीति। किमर्थं स्त्रीलिङ्गोपन्यासः ? यो हि मन्यते - दीति दाशब्दादियं सप्तमी न तु दकारात्, तत्र क्त्वो ल्यप्,’हलः’ ‘श्नः’ इत्यादिवदातो लोप इति, तं प्रति दाशब्दः प्रत्युदाहृतः। एवमपि लाक्षणिकत्वादत्र दाशब्दस्य न भविष्यति ? एवं विजन्तमेतद् द्रष्टव्यम्, एवं च कृत्वा पुंल्लिङ्गमप्युदाहरणं भवत्येव ॥
Nyaas¶
दीति दकारादियं सप्तमी। तत्र दकारमात्रस्य प्राग्दिशीयस्याभावात्? यस्मिन्विधिस्तदादावल्ग्रहणे (वा। 14) इत्यतो दकारादौ विधिज्र्ञायत इत्याह - प्राग्दिशीये दकारादौ इत्यादि। सर्वदा ब्राआहृआणी इति। आतोऽनुपसर्गे कः (3.2.3) , ततष्टाप्॥ बाल-मनोरमाआत्मनश्च 948, 5.3.6 तत्रात्मनश्चेत्यंशं व्याक्यातु पृथगुपादत्ते - आत्मनश्चेति। चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह - आत्मनस्तृतीयाया अलुगिति। उत्तरपदे परे इति शेषः। पूरण इति वक्तव्यमिति। नाऽत्र पूरणशब्दो गृह्रते, किंतु स्वरितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् प्रत्ययग्रहणे इति तदन्तविधिरित्यभिप्रेत्याह - पूरणप्रत्ययान्ते इति। आत्मनापञ्चम इति आत्मा पञ्चम इत्यर्थः। प्रकृत्यादित्वात्प्रथमार्थे तृतीया। यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः। करणे तृतीया। करोतिक्रियान्तर्भावेण तस्याः तृतीया तत्कृते`ति समासः। पक्षद्वयमपीदं भाष्ये स्थितम्। ननु सङ्खर्षणप्रद्युम्नाऽनिरुद्धास्त्रयो विष्णुव्यूहाः। जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम्। तत्रेदमाहुः पौराणिकाः - `जनार्दनस्त्वात्मचतुर्थ एवे`ति। तत्र तृतीयाया अलुकि `आत्मनाचतुर्थ इति भवितव्यमित्यत आह - जनार्दनास्त्विति। बहुव्रीहिरिति। आत्मा चतुर्थो यस्येति विग्रहे बहुव्रीहिरित्यर्थः। एकस्याप्यौपाधिकभेदं परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः। तदिदं भाष्ये स्पष्टम्। बाल-मनोरमासर्वस्य सोऽन्यतरस्यां दि 1927, 5.3.6 सर्वस्य सो। दि इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम्। `यस्मिन्विधि`रिति तदादिविधिः। तदाह - प्राग्दिशीये दकाराविति। सदा इत्युदाहरणम्।
Prakriyasarvasvam¶
दाप्रत्यये परे सर्वस्य वा सादेशः स्यात् । सदा सर्वदा । एकदा । अन्यदा ॥