53002: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः¶
Padacheda: किं-सर्वनाम-बहुभ्यः | S | 5 | 3 |
अद्व्यादिभ्यः | S | 5 | 3 |
Sutrartha¶
सर्वादिगणे विद्यमानाः ‘सर्व’ इत्यस्मात् आरभ्य ‘एक’ इति यावत् शब्दाः, ‘बहु’ शब्दः तथा च ‘किम्’ शब्दः प्राग्दिशीय-विभक्तिप्रत्ययान् प्राप्नुवन्ति ।
विभक्तिसंज्ञकप्रत्ययाः केभ्यः प्रातिपदिकेभ्यः विधीयते तत् अनेन सूत्रेण स्पष्टीक्रियते । सूत्रे उपस्थितान् शब्दान् क्रमेण पश्यामः - 1. अद्व्यादिभ्यः सर्वनामेभ्यः - सर्वादीनि सर्वनामानि (1.1.27) अनेन सूत्रेण सर्वनामशब्दानामावली दीयते । इयमेव आवली ‘सर्वादिगणः’ नाम्ना ज्ञायते । इयमावली एतादृशी दृश्यते - ‘सर्व, विश्व, उभ, उभय…., एक, द्वि, युष्मत्, अस्मत्, भवतुँ, किम्’ अस्यामावल्याम् ‘द्वि’ इति यत् सर्वनाम वर्तते, तस्मात् आरभ्य अस्य गणस्य अन्तपर्यन्तम् ये शब्दाः पाठ्यन्ते - ‘द्वि, युष्मत्, अस्मत्, भवतुँ, किम्’ - एतेषाम् सर्वेषां ‘द्व्यादयः’ इत्यनेन अस्मिन् सूत्रे निर्देशः कृतः अस्ति । एतान् द्व्यादीन् विहाय सर्वादिगणस्य अन्ये शब्दाः विभक्तिसंज्ञकानं तद्धितप्रत्ययान् प्राप्तुमर्हन्ति - इति ‘अद्व्यादिभ्यः सर्वनामेभ्यः’ इत्यस्य आशयः । 2. ‘किम्’ - किमयम् सर्वनामशब्दः यद्यपि द्व्यादिगणे विद्यते, तथापि तस्मात् विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति - इति स्पष्टीकर्तुमत्र ‘किम्’ शब्दस्य विशिष्टरूपेण ग्रहणम् कृतमस्ति । 3. ‘बहु’ अस्मात् शब्दात् अपि विभक्तिसंज्ञकप्रत्ययाः भवितुमर्हन्ति । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - ‘किम्’ , ‘बहु’ एताभ्यां शब्दाभ्याम्, तथा च सर्वादिगणे विद्यमानेभ्यः परन्तु द्व्यादिगणे अविद्यमानेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति । यथा - 1. ‘तसिल्’ प्रत्ययः - किम् + तसिल् → कुतः । बहु + तसिल् → बहुतः । सर्व + तसिल् → सर्वतः । 2. ‘था’ प्रत्ययः - यद् + था → यथा । तद् + था → तथा । सर्व + था → सर्वथा । 3. ‘ह’ प्रत्ययः - इदम् + ह → इह । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <! बहुग्रहणे सङ्ख्याग्रहणम्!> । इत्युक्ते, ‘बहु’ शब्दः यत्र ‘सङ्ख्या’ ( = अनेके / many) अस्मिन् अर्थे प्रयुज्यते, तत्रैव विभक्तिसंज्ञकाः तद्धितप्रत्ययाः तस्मात् भवितुमर्हन्ति । अन्येषु अर्थेषु (यथा - विपुलता - too much /huge / large - अस्मिन् अर्थे) यदि अयं शब्दः प्रयुज्यते, तर्हि अस्मात् शब्दात् एते प्रत्ययाः न भवन्ति । यथा - ‘बहुभ्यः जनेभ्यः’ इत्यत्र ‘बहुतः’ इति प्रयोगः भवितुमर्हति, परन्तु ‘बहोः सूपात्’ इत्यत्र ‘बहुतः’ इति प्रयोगः न क्रियते । ज्ञातव्यम् - सर्वे विभक्तिसंज्ञकाः तद्धितप्रत्ययाः अस्मिन् सूत्रे पाठितेभ्यः सर्वेभ्यः शब्देभ्यः न विधीयन्ते । अस्मिन् विषये अग्रे विस्तारेण सूत्राणि पाठितानि सन्ति । अत्र केवलं विभक्तिसंज्ञक-तद्धितप्रत्ययानां ‘सीमारेषा’ (domain) निर्धार्यते । इत्युक्ते, ‘विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवन्ति चेत् एतेभ्यः शब्देभ्यः एव भवन्ति, अन्येभ्यः न’ - इति अस्य आशयः । अतः अस्मिन् सूत्रे अनुक्ताः ये शब्दाः - यथा - वन, वृक्ष, माला - आदयः - तेभ्यः एते प्रत्ययाः न भवन्ति ।
Vasu English Summary¶
These प्राग्दिशीय affixes come after the word किम् and after a stem called सर्वनाम and after बहु but not after द्वि etc.
Vasu English Translation¶
These प्राग्दिशीय affixes come after the word किम् and after a stem called सर्वनाम and after बहु but not after द्वि etc. The words द्वि &c, though सर्वनाम are exempted. Thus कुत्र, कृतः, यतः, यत्र, बहुतः, बहुत्रः ॥
Why do we say अद्व्यादि ‘not dvi &c’. Observe द्वाभ्याम्, द्वयोः ॥ Why do we say किम् &c ? Observe वृक्षात्, वृक्षं &c. The word किम् is a सर्वनाम, but it being included in the dyadi class, would have been exempted from the operation of this rule had it not been separately mentioned.
Vart:- The word बहु here is a Sankhya. Therefore, the affix does not apply here, बहोः सूपात्, बहौ सूपे ॥
Bhashya¶
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (2160) (5800 उपसंख्यानवार्तिकम्॥ 1 ॥) - बहुग्रहणे संख्याग्रहणम् - (भाष्यम्) बहुग्रहणे संख्याग्रहणं कर्तव्यम्। इह मा भूत् - बहौ, बहोः - इति॥ (आक्षेपभाष्यम्) अथ किमर्थं किम उपसंख्यानं क्रियते न सर्वनाम्न इत्येव सिद्धम्? (5801 समाधानवार्तिकम्॥ 2 ॥) - द्व्यादिप्रतिषेधात्किम उपसंख्यानम् - (भाष्यम्) द्व्यादिप्रतिषेधात्किम उपसंख्यानं क्रियते। अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किम उपसंख्यानं क्रियते॥
Kashika¶
प्राग् दिश इत्येव। किमः सर्वनाम्नो बहुशब्दात् च प्राग् दिशः प्रत्यया वेदितव्याः। सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते। कुतः। कुत्र। यतः। यत्र। ततः। तत्र। बहुतः। बहुत्र। अद्व्यादिभ्य इति किम् ? द्वाभ्याम्। द्वयोः। प्रकृतिपरिसंख्यानं किम् ? वृक्षात्। वृक्षे। प्राग् दिश इत्येव — वैयाकरणपाशः। सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासाद्॥ बहुग्रहणे संख्याग्रहणम्॥ इह न भवति — बहोः सूपात्। बहो सूप इति ॥
Siddhanta Kaumudi¶
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥
Laghu Siddhanta Kaumudi¶
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥
Balamanorama¶
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः - किंसर्वनाम । अद्व्यादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाह — प्राग्दिशोऽधिक्रियत इति । विधेयाऽनिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम् । द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्रत्यदादीनां मिथः सहौक्तौ॑ इति किमः शेषत्वाऽर्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह — इदम इशित्यादिना ।
Tattvabodhini¶
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः - किंसर्वनाम । द्व्यादिपर्युदासात्किमः पृथग्ग्रहणम् । द्व्यादिषु किंशब्दपाठे प्रयोजनं तु -त्वं च कश्च कौ ।अहं च कश्च कौ । भवांश्चकश्च कौ इत्यत्र किमः शेषः,त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते॑इत्युक्तत्वात् ।
Nyaas¶
कुत्र इति। सप्तम्यास्त्रल् (5.3.10) , पूर्ववत्? कुभावः। प्रकृतिपरिसंख्यानम् इति। प्रकृतिपरिगणनम्। वैयाकरणपाशः इति। याप्ये पाशप् (5.3.47) । अयं चावधेः परो व्य इत्यन्याभ्योऽपि प्रकृतिभ्यो भवति। सर्वनामत्वादेव सिद्धे इति। सर्वनामत्वं किमः सर्वादिषु पाठात्। किमो ग्रहणम् इत्यादि। किंशब्दोऽयं द्व्यादिषु पठत इति तस्य द्व्यादिभ्यः इति पर्युदासः क्रियते। तस्मात्? सर्वनाम्नोऽपि स्वशब्देनोपादानम्। यद्येवं द्विशब्दात्? पूर्वं किंशब्दः पठितव्यः, एवं हि तस्य पृथग्ग्रहणं न कर्तव्यमेव भवति? सत्यमेतत्; न सूत्रकारस्येह गणपाठ इति नासावुपालम्भमर्हति। अपि च त्यदादीनां यद्यत्परं तत्तच्छिष्यत इति किमः सर्वैरेव त्यदादिभिः सह विवक्षायां शेय इष्यते - त्वञ्च कश्च कौ, भवांश्च कश्च कौ; स चैवं पाठे न सिध्यतीति यथान्यासमेवास्तु। बहुग्रहणे संख्याग्रहणम् इति। कथमिह सर्वनामसंज्ञया सर्वादयः संज्ञिनो निर्दिश्यन्ते? तस्मात्? तैः सह निदेशाद्बहुशब्दस्यापि बहुगणादि (1.1.22) सूत्रेण यस्य संख्यासंज्ञा विहिता तस्यैव संज्ञिता तस्यैव संज्ञिनो ग्रहणं विज्ञायते। बहोः सूपात् इति। अत्र वैपुल्यवाची बहुशब्दः॥
Prakriyasarvasvam¶
<karika>किं शब्दाद् द्वयादिवर्जाच्च सर्वनाम्नो बहोरपि । प्राग्दिशः प्रत्यया ज्ञेया नापरेभ्यो भवन्त्यमी ॥ ३४० ॥</karika>
Sutra Prayogas¶
स-सीतः (भट्टिकाव्यम्): वोपसर्जनस्य इति विकल्पेन सभावः।