53001: प्राग्दिशो विभक्तिः¶
Padacheda: प्राक् | S | 0 | 0 |
दिशः | S | 5 | 1 |
विभक्तिः | S | 1 | 1 |
Sutrartha¶
इतः परम् 5.3.26 इति यावत् ये प्रत्ययाः पाठ्यन्ते, ते विभक्तिसंज्ञकाः सन्ति ।
पञ्चमाध्यायस्य तृतीयपादस्य प्रथमं सूत्रमिदमधिकारसूत्रम् । अस्मात् सूत्रात् ‘विभक्ति’संज्ञायाः अधिकारः प्रारभते । अस्मात् सूत्रात् आरभ्य दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) इत्यस्मात् पूर्वम् यावत् अस्य सूत्रस्य अधिकारः प्रचलति । एतेषु सर्वेषु सूत्रेषु ये केऽपि प्रत्ययाः पाठ्यन्ते, ते सर्वे ‘विभक्ति’संज्ञकाः सन्ति । एतेषाम् सर्वेषां विभक्तिसंज्ञकप्रत्ययानां आवली इयम् - 1. तसिल् - पञ्चम्यास्तसिल् (5.3.7), तसेश्च (5.3.8) 2. त्रल् - सप्तम्यास्त्रल् (5.3.10) 3. ह - इदमो हः (5.3.10) 4. अत् - किमोऽत् (5.3.12) 5. दा - सर्वैकान्यकिंयत्तदः काले दा (5.3.15) 6. र्हिल् - इदमो र्हिल् (5.3.16) 7. धुना - अधुना (5.3.17) 8. दानीम् - दानीं च (5.3.18) 9. द्यस् , उद्, अरि, समसण्, एद्यवि, एद्युस् - सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः (5.3.22) 10. थाल् - प्रकारवचने थाल् (5.3.23) 11. थमु - इदमस्थमुः (5.3.24) 12. था - था हेतौ च च्छन्दसि (5.3.26) एते सर्वे प्रत्ययाः विभक्तिसंज्ञां प्राप्नुवन्ति । किमर्थम् एतेषाम् विभक्तिसंज्ञा क्रियते? अस्य मुख्यानि त्रीणि प्रयोजनानि सन्ति । 1. इत्संज्ञानिषेधः - विभक्तिसंज्ञामनुसृत्य न विभक्तौ तुस्माः (1.3.4) इत्यनेन एतेषु प्रत्ययेषु उपस्थितानामन्तिम-तवर्ग-सकार-मकाराणाम् इत्संज्ञा न भवति । यथा - ‘दानीम्’ इत्यत्र मकारः वस्तुतः हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञकः स्यात्, परन्तु विभक्तिसंज्ञया तस्य प्रतिषेधः भवति । अतएव ‘दानीम्’ प्रत्ययस्य मकारः इत्संज्ञकः नास्ति । 2. विभक्तिविशिष्टमङ्गकार्यम् - सूत्रपाठे केषुचन स्थलेषु विभक्ति-प्रत्ययविशिष्टम् कार्यम् पाठ्यते । एतत् सर्वम् कार्यम् एतेषु प्रत्ययेषु परेषु अपि भवति । यथा - किमः कः (7.2.103) इत्यनेन ‘किम्’ इत्यस्य विभक्तिप्रत्यये परे ‘क’ इति आदेशः भवति । अयमादेशः एतेषु प्रत्ययेषु परेषु अपि भवति । यथा - किम् + दा → कदा । 3. विभक्तिविशिष्टम् स्वरविधानम् - स्वरप्रकरणे कांश्चन विभक्तिप्रत्ययान् अनुसृत्य विशिष्टं स्वरविधानम् कृतमस्ति । एतत् विधानमस्मिन् अधिकारे पाठितानां विभक्तिप्रत्ययानां विषये अपि विद्यते । यथा, ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः (6.1.171) इत्यनेन ‘इदम्’ शब्दात् विहितः विभक्तिप्रत्ययः उदात्तः भवति । यथा, ‘इदम् + तसिल् → इतः’ इत्यत्र तकारोत्तरः अकारः अनेन सूत्रेण उदात्तः जायते । (यदि अत्र ‘तसिल्’ इत्यस्य विभक्तिसंज्ञा न अभिष्यत्, तर्हि लिति (6.1.193) इत्यनेन प्रत्ययात् पूर्वः स्वरः उदात्तः स्यात्, न हि प्रत्ययस्वरः) । अस्य सूत्रस्य विषये केचन महत्त्वपूर्णाः बिन्दवः ज्ञातव्याः - 1. समर्थानाम् प्रथमात् वा (4.1.82) इत्यनेन पाठितः तद्धिताधिकारस्य महत्तमः अधिकारः ( = समर्थाधिकारः) पूर्वस्मिन् सूत्रे अंशतः समाप्यते । अस्मात् सूत्रात् आरभ्य अग्रे ‘समर्थानाम्’ तथा ‘प्रथमात्’ इत्यस्य अधिकारः नास्ति । इत्युक्ते, अस्मात् सूत्रात् आरभ्य अग्रे प्रकृत्यर्थे (= ‘स्वार्थे’) एव प्रत्ययविधानम् भवति, अत्र सूत्रे विद्यमानानाम् शब्दानाम् परस्परसम्बन्धः (= सामर्थ्यम्) न चिन्तनीयः । इतः अग्रे ‘अर्थज्ञापकसूत्राणि’ न सन्ति, केवलम् प्रत्ययज्ञापकसूत्राणि एव विद्यन्ते, इति आशयः । 2. ‘वा’ इत्यस्य अधिकारः तु अत्रापि प्रचलति । अतः एतेषां सर्वेषां प्रत्ययानां प्रयोगः विकल्पेन भवितुमर्हति । 3. विभक्तिसंज्ञकानां तद्धितप्रत्ययानां योजनेन निर्मिताः तद्धितान्ताः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः अपि भवन्ति । एते त्रयः बिन्दवः एकेन उदाहरणेन प्रायः स्पष्टीभवेयुः । सप्तम्यास्त्रल् (5.3.10) इत्यनेन ‘कस्मिन्’ इत्यस्मात् सप्तम्यन्तशब्दात् ‘त्रल्’ इति प्रत्ययः उच्यते । अत्र - (अ) ‘कस्मिन्’ अस्य शब्दस्य यः अर्थः, तस्मिन्नेव अर्थे (= स्वार्थे) अत्र ‘त्रल्’ इति प्रत्ययः विधीयते । अत्र प्रत्यनेन कोऽपि नूतनः अर्थः न दीयते । ‘कस्मिन् + त्रल्’ इति स्थिते अग्रे प्रक्रियां कृत्वा ‘कुत्र’ इति शब्दः सिद्ध्यति । ‘कस्मिन्’ इत्येव ‘कुत्र’ इत्यस्यापि अर्थः । (आ) ‘कस्मिन्’ इत्यस्मात् शब्दात् ‘त्रल्’ प्रत्ययः विकल्पेन एव भवति । इत्युक्ते, प्रत्ययस्य अभावे ‘कस्मिन्’ इति शब्दः अपि भाषायाम् प्रयोक्तुं शक्यते, तथा च प्रत्ययस्य प्रयोगेण निर्मितः ‘कुत्र’ शब्दः अपि साधु एव । (इ) ‘त्रल्’ प्रत्ययनिर्मितः ‘कुत्र’ शब्दः अव्ययसंज्ञकः अस्ति । स्मर्तव्यम् - सूत्रपाठे विद्यमानेन विभक्तिश्च (1.4.104) इत्यनेन सूत्रेण केवलं सुप्-प्रत्ययानां तथा तिङ्-प्रत्ययानामेव विभक्तिसंज्ञा भवति, न हि तद्धितप्रत्ययानाम् । परन्तु केषाञ्चन तद्धितप्रत्ययानामपि विभक्तिसंज्ञा इष्यते । तेषाम् सङ्कलनमस्मिन् अधिकारे कृतमस्ति ।
Vasu English Summary¶
The sūtra taught from this forward up to दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) (exclusive) are called विभक्ति।
Vasu English Translation¶
The sūtra taught from this forward up to दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) (exclusive) are called विभक्ति। The affixes herein taught do not change the sense of the word, i.e. they are स्वार्ध affixes which leave to the word their own denotation. The rule (4.1.82), extends no further than this, hence the words formed by these affixes do not produce epithets connoting the sense of the primitive and denoting something else.
Thus (5.3.7) declares, that after the words किम् in the ablative there is the affix तसिल्, as कुतः, ततः, यतः ॥
The purpose served by designating these affixes as Vibhakti is (a) to debar the elision of final स् and म् of the affixes as इत् (1.3. 4). Thus in the affix दानीम् (5.3.18), म् is not इत्, had it been so, rule (1.1.47) would have applied: (b) to regulate the accent of इदम्, thus इदम् + तसिल् = इतः here by (6.1.171), the affix तसिल् becomes udatta by virtue of its being Vibhakti, othewise the accent would have been regulated by the indicatory ल् (6.1.193); (c) to make applicable to these words the rules of त्यदादि, that is, the rules given in the Sutras (7.2.102), and those that follow. Thus त्यद् + तसिल् = त्यतः, the द being replaced by अ by (7.2.102).
The affixes now to be taught being स्वार्थिकः, the anuvritti of समर्थानाम् and प्रथमाद् of (4.1.82), does not apply to them. The word वा of (4.1.82) however applies here, so that these affixes are optional, thus we may have कुतः or कस्मात्, कुत्र or कस्मिन् ॥
Bhashya¶
प्राग्दिशो विभक्तिः (2159) (विभक्तिसंज्ञाऽधिकरणम्) (वार्तिकावतरणभाष्यम्) विभक्तित्वे किं प्रयोजनम्? (5796 विभक्तिसंज्ञाप्रयोजनबोधकवार्तिकम्॥ 1 ॥) - विभक्तित्वे प्रयोजनमित्प्रतिषेधः - (भाष्यम्) इदानीम्, न विभक्तौ तुस्माः 1.3.4 इतीत्वप्रतिषेधः सिद्धो भवति। यद्येवं किमोत् 5.3.12 क्व प्रेप्सन् दीव्यसे, क्वर्द्धमासाः अत्रापि प्राप्नोति॥ (5797 प्रयोजनवार्तिकम्॥ 2 ॥) - तौ चोक्तम् - (भाष्यम्) किमुक्तम्? विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति॥ (5798 सूत्रप्रयोजनवार्तिकम्॥ 3 ॥) - इदमो विभक्तिस्वरश्च - (भाष्यम्) इदमो विभक्तिस्वरश्च प्रयोजनम्। इदः। इह। इदमस्तृतीयादिर्विभक्तिरुदात्ता भवति इत्येष स्वरः सिद्धो भवति॥ (5799 सूत्रप्रयोजनवार्तिकम्॥ 4 ॥) - त्यदादिविधयश्च - (भाष्यम्) त्यदादिविधयश्च प्रयोजनम्। यतः, यत्र। कुतः, कुत्र। विभक्तौ इति त्यदादिविधयः सिद्धा भवन्ति॥
Kashika¶
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो० (५.३.२७) इति वक्ष्यति। प्रागेतस्माद् दिक्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो विभक्तिसंज्ञास्ते वेदितव्याः। वक्ष्यति — पञ्चम्यास्तसिल् (५.३.७) — ततः। यतः। कुतः। तसिलादीनां विभक्तित्वे प्रयोजनं त्यदादिविधयः, इदमो विभक्तिस्वरश्च। इह। **ऊडिदम्०**(६.१.१७१) इति विभक्त्युदात्तत्वं सिद्धं भवति। अतः परं स्वार्थिकाः प्रत्ययाः, तेषु समर्थाधिकारः प्रथमग्रहणं च प्रतियोग्यपेक्षत्वाद् नोपयुज्यत इति द्वयमपि निवृत्तम्। वावचनं तु वर्तत एव, तेन विकल्पेन तसिलादयो भवन्ति। कुतः, कस्मात्। कुत्र, कस्मिन्निति॥
Siddhanta Kaumudi¶
दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिका प्रत्ययाः । समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥
Laghu Siddhanta Kaumudi¶
दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥
Balamanorama¶
प्राग्दिशो विभक्तिः - अथ पञ्चमाध्यायस्य तृतीयापादे प्राग्दिशीयप्रकरणं निरूप्यते । प्राग्दिशो विभक्तिः । दिक्छब्देन तद्धटितं सूत्रं विवक्षितमित्यभिप्रेत्याह — दिक्छब्देभ्य इत्यत इति । विभक्तिसंज्ञका इति । तत्फलं तु ‘न विभक्तौ तुस्माः’ इति निषेधः, त्यदाद्यत्वम्, इदमऊडिदंपदादी॑ति स्वरश्च । स्वार्थिका इति । स्वीयप्रकृत्यर्थे भवा इत्यर्थः । तसिलादिष्वर्थनिर्देशाऽभावात्, ‘अतिशायने’ इत्यादीनां प्रकृत्यर्थविशेषणत्वाच्चेति भावः । निवृत्तमिति । अत्रोपपत्तिः — ॒समर्थाना॑मित्यत्रोक्ता । अनुवर्तत एवेति । व्याख्यानमेवात्र शरणम् ।
Padamanjari¶
विभक्तिसंज्ञास्ते वेदितव्या इति। विभक्तिरिति शब्दः संज्ञा येषां ते तथोक्ताः। ननु विभक्तिशब्दः पूर्वमेव सुप्तिङं संज्ञात्वेन विनियुक्तः,क संज्ञा च प्रदेशेषु संज्ञिनं प्रत्याययति न स्वरूपम्, अतः सुप्तिङमेव संज्ञात्वं युक्तम्, न विभक्तिशब्दस्य ? सत्यम्; सुप्तिङ्स्तु संज्ञा भवन्तः प्रत्येकम्, समुदिता वा भवेयुः; न तावत्प्रत्येकम्, अनेकसंज्ञाकरणे प्रयोजनाभावात्; नापि समुदिताः, गौरवादनावृतेश्च। आवर्तिन्यो हि संज्ञा भवन्ति, न च समुदाय आवर्तते। अपर आह् -‘ठ्यथा’किनौ लिट् च’ इति लिड्वद्भावो विधीयते, तथात्रापि विभक्तिवद्भावो विधीयते’ ऽ इति। सुप्तिङं तु विधानमत्र नाशङ्कनीयम्; पूर्वमेवविहितत्वात्। त्यदादिविधय इति। त्यदादीनां यानि कार्याणि त्यदादित्वप्रयुक्तानि स्वरूपप्रयुक्तानि वा ते त्यदादिविधयः। उपलक्षणं चैतत्, दानीमो मकारस्य’न विभक्तौ तुस्माः’ इतीत्संज्ञाप्रतिषेधोऽपि प्रयोजनम्। ततः, यत इति।’त्यदादीनामः’ इत्यत्वम्। अत्र सकारस्यानन्त्यत्वादेवेत्संज्ञाभावः। कृत इति।’कुति होः’ इति कुभावः। कदेति किमः कादेशः। क्वेत्यत्र’क्वाति’ कैति क्वभावः इहेति। ठिदमो हः,ऽ ठिदम इश्ऽ। अत्र प्रत्ययस्वरेणैव सद्धिमुदातत्वम्। तस्मादित इत्येवलोदाहरणं विभक्तिस्वरस्य; अन्यथा’लिति’ इति प्रत्ययात्पूर्वमुदातं स्यात्। ननु च’मध्ये’ पवादाःऽ इति न्यायाद् ठनुदातौ सुप्पितौऽ इत्यस्यैव विभक्तिस्वरोऽपवादः, न लित्स्वरस्य, लित्स्वर एव तु विभक्तिस्वर परत्वाद्बाधेत? नैष दोषः; नात्राकृते लित्स्वरे विभक्तिस्वरः प्राप्नोति, किं कारणण् ? ठन्तोदातात्ऽ इति वर्तते, तत्र निमितमेव लित्स्वरो विभक्तिस्वरस्य। यद्यपि ठूडिदम्ऽ इत्यत्र’सावेकाचः’ इत्यतस्तृतीयादिग्रहणमनुवर्तते, तथाप्या पञ्चमाध्यायपरिसमाप्तेर्यावान्प्रत्ययो विभक्तिसंज्ञकः सर्वोऽसौ तृतीयादिरिति तसिलादयोऽपि तृतीयादिग्रहणेन गृह्यन्त एव। अतः परमित्यादि। एतत्’समर्थानां प्रथमाद्वा’ इत्यत्रैव व्याख्यातम्। वावचनं त्वनुवर्तत एवेति। तस्य पृथकस्वरितत्वात्। अथ’सुपः, विभक्तिश्च’ इत्यत्रैव’प्राग्दिशश्च’ इत्युच्येत? नैवं शक्यम्; एवं ह्युच्यमाने न ज्ञायते - कुत आरभ्य प्राग्दिशीया ? इति। बहवश्च दिक्शब्दाः - दिगादिभ्यो यत्ऽक इत्येवमादयः, ततश्चावधिरपि न निश्चितः स्यात्।’किंसर्वनामबहुब्यः’ इत्यादेश्च कार्यस्य विषयनियमार्थं पुनरिह’प्राग्दिशः’ इति वाच्यमेव स्यात्। यदि पुनरिहैव’सुप्तिङै च’ इत्युच्येत? एवमपि’तिङ्स्त्रीणित्रीणि’ इत्यत्र तिङ्ग्रहणम् सुप इति च तत्र वक्त्व्यं पुरुषवचनसंज्ञार्थम्, तत्र नास्ति विशेषः ॥ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ॥ अधिकारोऽयम्, परिभाषा वेति दर्शयति। प्रत्ययो वेदितव्य इति। द्वाभ्याम्, द्वयोरित्यत्र तसिल्त्रलौ न भवतः। प्रकृतिपरिसंख्यानमुप्रकृतिपरिगणनम्। वैयाकरणपाश इति। अस्तात्यादयो ग्रहणवद्भ्यो विधीयन्त इति प्रकृतिपरिसंख्यानस्य तत्रासम्भवाद्व्यवहितोऽपि पाशप् प्रत्युदाहृतः। द्व्यादिपर्युदासादिति। यदि पुनरयं द्व्यादिभ्यः प्राक् किं पठ।लेत, नैवं सक्यम्; एकशेषे हि दोषः स्यात्, त्यदादीनां यद्यत्परं तत्च्चिष्यतेत्वं च कश्च कौ, भवांश्च कश्च कौ। बहुग्रहणे संख्याग्रहणमिति। कथमिह सर्वनामसंज्ञया संज्ञिनो निर्द्दिश्यन्ते ? तैः साहचर्याद् बहुशब्दस्यापि संज्ञिनो ग्रहणम्, यस्य’बहुगणवतुडतिसंक्या’ इति संख्यासंज्ञा विहिता, न च तत्र वैपुल्यवाचिनो ग्रहणमिति अत्रापि तस्य ग्रहणाभावः ॥
Nyaas¶
विभक्तिसंज्ञास्ते वेदिव्याः इति। विभक्तिरित्येष शब्दः संज्ञा येषां ते तथोक्ताः। ननु च विभक्तिशब्दः सुप्तिङां संज्ञा, संज्ञा च प्रदेशवाक्येषूच्चारिता संज्ञिनं प्रत्याययतीति सुप्तिङां विभक्तिसंज्ञाविधानमनर्थकं स्यात्। यथा वृद्धिशब्दः स्वाभिधेये लौकिकेऽर्थे गुणीभूतोऽप्यादैच्? प्रति संज्ञात्वमनुभवति, तथा विभक्तिशब्दोऽपि तसिलादीन्? प्रति संज्ञात्वेन वेदितव्यः। अथ तत्रैव कस्मान्नोच्यते - सुपो विभक्तिश्च प्राग्दिशश्च इति, एवं सति पुनर्विभक्तिग्रहणं कर्तव्यं न भवति? नैवं शक्यम्; एवं हि न्यासे सति कुत आरब्य प्राग्दिशीयाः? इति न ज्ञायते। किञ्च `दिगादिभ्यो यत् (4.3.54) , तेनैकदिक् (4.3.112) इति चानेकं शास्त्रे दिग्ग्रहणमित्यवधिरपि सन्दिह्रेत। किंसर्वनामबहुभ्यः (5.3.2) इत्येवमादेश्च कारह्रस्यावधिदर्शनार्थं पुनरिह प्राग्दिशः इति वाच्यमेव स्यात्। तस्माद्यथान्यासमेव साध। ततः, यतः इति। अष्टन आ विभक्तौ (7.2.84) इत्यनुवर्तमाने त्यदादीनामः (7.2.102) इत्यत्वम्, न विभक्तौ तुस्माः (1.3.4) इति सकारस्येत्संज्ञाप्रतिषेषः, तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यव्ययत्वाद्विभक्त#एर्लुक्। कुतः इति। कि तिहोः (7.2.104) इति किमः कुभावः। त्यदादिविधयः इति। त्यदादयोऽत्र दिभक्तिनिबन्धनाः। ततः इति। त्यदादिविधेरत्वस्योदाहरणम्। इह इति। इदमो विभक्तिस्वरस्य। इदमः सप्तम्यन्तात्? **इदमो हः** (5.3.11) इति हप्रत्ययः, **इदम इश्** (5.3.3) इतीशादेशः। **ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः** (6.1.171) इति इदमः परस्योदातत्वं विभक्तित्वे सति सिद्धं भवति। अत्र तु प्रत्ययस्वरेणैव सिद्धमाद्युदात्तत्वम्। तस्माच्चोदाहरणदिगियं प्रदर्शित। इदं त्वत्रोदाहारणं युक्तम् - `इतः इति। इवमस्तसिल्, पूर्ववदिश्। अतच्र ह्रसति विभक्तित्वे लिति प्रत्ययात्? पूर्वपदाद्युदात्तत्वं [पूर्वमाद्युदात्तत्वं-मुद्रितपाठः (वाराणसी-1967)] स्यात्। तस्मिस्तु ऊडिदम् (6.1.165) इत्यादिनेदमः परस्य तस आद्युदात्तत्वं सिद्धं भवति। ननु च सत्यपि विभक्तित्वे परत्वाल्लित्स्वरेण भवितव्यम्? नैष दोषः; लिति (6.1.187) इत्यत्र हि ऊजिदम् (6.1.165) इत्यादिकं सूत्रमनुवर्त्तिष्यते लित्स्वरबाधनार्थम्। नन्वेवमपि नैव विभक्तेरुदात्तत्वं सिध्यति? तत्र हि सावेकाचस्तृतीयादिर्विभक्तिः (6.1.168) इत्यतस्तृतीयादिग्रहणमनुवर्तते, न च तसिलादयस्तृतीयादिगरहणेन गृह्यन्ते। तृतीयैकवचनमारन्य आ पञ्चमाध्यायपरिसमाप्तेर्यावान्? प्रत्ययो विभक्तिसंज्ञः सर्वोऽसौ तृतीयादिः। अतः परम् इत्यादि। सामर्थ्यं हि नाम सम्बन्धार्थता; सा च प्रतियोगिनमपेक्षत एव यन सहैकार्थीभावो भवति तस्मिन्? प्रतियोगिनि सति, नान्यथा। प्राथम्यमपि प्रतियोग्यपेक्षमेव। द्वितीयं हि प्रतियोगिनमपेभ्य प्रथममित्युच्यते। इत उत्तरं प्रत्ययाः प्रकृत्यर्थ एव भवन्तीति, न तद्विषौ द्वितीयस्य प्रतियोगिनः सम्भवः; तदभावात्? सामर्थ्यप्राथम्ययोरपि नास्त्येव सम्भवः; तयोः प्रतियोग्यपेक्षत्वात्। यतश्चैतदेवम्, ततः सामर्थ्याधिकारः प्रथमग्रहणञ्च नोपयुज्यते इति द्वयमपि निवृत्त्म्। यद्येवम्; वावचनस्यापि निवृत्तिः प्राप्नोति, एकयोगनिर्दिष्टत्वात्? इत्याह - वावचनं तु वर्तत एव इति। तस्य स्वरितत्वादिति भावः। तेन विकल्पेन इत्यादि। तेनोत्तरसूत्रे वाग्रहणानुवृत्तेः फलं दर्शयति॥
Prakriyasarvasvam¶
‘दिक्छब्देभ्यः’ (५-३-२७) इति सूत्रात् प्राच्याः प्रत्ययाः विभक्त्याख्याः ॥