53003: इदम इश्¶
Padacheda: इदमः | S | 6 | 1 |
इश् | S | 1 | 1 |
Sutrartha¶
‘इदम्’ शब्दस्य प्राग्दिशीय-विभक्तिप्रत्यये परे ‘इश्’ इति आदेशः भवति ।
‘इदम्’ इति सर्वनामशब्दः । किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5.3.2) अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । एतेषु प्रत्ययेषु परेषु इदम्-शब्दस्य ‘इश्’ इति आदेशः भवति । अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन अयम् सर्वादेशरूपेण विधीयते । यथा - 1. इदम् + तसिल् [पञ्चम्यास्तसिल् (5.3.7) इत्यनेन पञ्चमी-विभक्त्याः अर्थे इदम्-सर्वनाम्नः तसिल्-प्रत्ययः] → इदम् + तस् [लकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः ।] → इ + तस् [इदमः इश् (5.3.3) इत्यनेन इदम्-शब्दस्य ‘इ’ इति सर्वादेशः] → इतः 2. इदम् + ह [इदमो हः (5.3.11) इत्यनेन इदम्-शब्दात् ह-प्रत्ययः] → इ + ह [इदमः इश् (5.3.3) इत्यनेन इदम्-शब्दस्य ‘इ’ इति सर्वादेशः] → इह ज्ञातव्यम् - सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितः ‘इ’ इति आदेशः ‘अङ्गकार्यम्’ इति न उच्यते, केवलं ‘प्राकृतिककार्यम्’ इत्येव तस्य अभिधानम् ।
Vasu English Summary¶
For इदम् there is the substitute इश् when a प्राग्दिशीय affix follows.
Vasu English Translation¶
For इदम् there is the substitute इश् when a प्राग्दिशीय affix follows. The word प्राग्दिशः is understood here also. The श् of इश् is indicatory of the substitution of the whole (1.1. 55). Thus इदम् + ह (5.3.11) = इह ॥
Kashika¶
प्राग् दिश इत्येव। इदम इश् इत्ययमादेशो भवति प्राग्दिशीयेषु प्रत्ययेषु परतः। शकारः सर्वादेशार्थः। इह॥
Siddhanta Kaumudi¶
प्राद्गिशीये परे ॥
Laghu Siddhanta Kaumudi¶
प्राग्दिशीये परे । इतः ॥
Balamanorama¶
इदम इश् - इदम इश् । ‘प्रग्दिशीये परे’ इति — शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात्सर्वादेशः । ‘इत’ इत्युदाहरणम् ।
Padamanjari¶
शकारः सर्वादेशार्थ इति। अन्यथा विशेषविहितत्वात्यदाद्यत्वं बाधित्वा ठलोऽन्त्यस्यऽ इति मकारस्येत्वे हलिलोपे च-एतः, एहेत्यनिष्ट्ंअ रूपं स्यात् ॥
Nyaas¶
शकारः सर्वादेशार्थः इति। असकति हि तस्मिन्? अलोऽन्त्यस्य (1.1.52) स्यात्। ततश्चेद्रूपस्य हलि लोपे (7.2.113) कृते, आद्गुणे (6.1.84) चैतः, एहेत्यनिष्टं रूपं स्यात्। ननु चेदमस्त्यदाद्यत्वे (7.2.102) कृतेऽतो गुणे (6.1.94) पररूपत्वे चेद्रूपलोपे चान्त्यस्याप्यादेश इतः, इहेति सिध्यत्येव? सिध्येद्यदि प्राक्? त्यदाद्यत्वं लभ्येत; न तु तल्लभ्यम्, इत्वमेव हि तावदन्तरङ्गं स्यात्। इत्वं हि तसिलादिप्रत्ययंमात्रमपेक्षत इत्यन्तरङ्गम्, त्याद्यत्वमङ्गसंज्ञां परस्य प्रत्ययस्य विभ्कितत्वं चापेक्षत इति बहिरङ्गम्, तस्माच्छाकरः कर्तव्यः॥