53002: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ===================================== **Padacheda:** किं-सर्वनाम-बहुभ्यः | S | 5 | 3 | अद्व्यादिभ्यः | S | 5 | 3 | Sutrartha --------- **सर्वादिगणे विद्यमानाः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्दाः, 'बहु' शब्दः तथा च 'किम्' शब्दः प्राग्दिशीय-विभक्तिप्रत्ययान् प्राप्नुवन्ति ।** विभक्तिसंज्ञकप्रत्ययाः केभ्यः प्रातिपदिकेभ्यः विधीयते तत् अनेन सूत्रेण स्पष्टीक्रियते । सूत्रे उपस्थितान् शब्दान् क्रमेण पश्यामः - 1. अद्व्यादिभ्यः सर्वनामेभ्यः - **सर्वादीनि सर्वनामानि** (1.1.27) अनेन सूत्रेण सर्वनामशब्दानामावली दीयते । इयमेव आवली 'सर्वादिगणः' नाम्ना ज्ञायते । इयमावली एतादृशी दृश्यते - 'सर्व, विश्व, उभ, उभय...., एक, द्वि, युष्मत्, अस्मत्, भवतुँ, किम्' अस्यामावल्याम् 'द्वि' इति यत् सर्वनाम वर्तते, तस्मात् आरभ्य अस्य गणस्य अन्तपर्यन्तम् ये शब्दाः पाठ्यन्ते - 'द्वि, युष्मत्, अस्मत्, भवतुँ, किम्' - एतेषाम् सर्वेषां 'द्व्यादयः' इत्यनेन अस्मिन् सूत्रे निर्देशः कृतः अस्ति । एतान् द्व्यादीन् विहाय सर्वादिगणस्य अन्ये शब्दाः विभक्तिसंज्ञकानं तद्धितप्रत्ययान् प्राप्तुमर्हन्ति - इति 'अद्व्यादिभ्यः सर्वनामेभ्यः' इत्यस्य आशयः । 2. 'किम्' - किमयम् सर्वनामशब्दः यद्यपि द्व्यादिगणे विद्यते, तथापि तस्मात् विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति - इति स्पष्टीकर्तुमत्र 'किम्' शब्दस्य विशिष्टरूपेण ग्रहणम् कृतमस्ति । 3. 'बहु' अस्मात् शब्दात् अपि विभक्तिसंज्ञकप्रत्ययाः भवितुमर्हन्ति । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - 'किम्' , 'बहु' एताभ्यां शब्दाभ्याम्, तथा च सर्वादिगणे विद्यमानेभ्यः परन्तु द्व्यादिगणे अविद्यमानेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति । यथा - 1. 'तसिल्' प्रत्ययः - किम् + तसिल् → कुतः । बहु + तसिल् → बहुतः । सर्व + तसिल् → सर्वतः । 2. 'था' प्रत्ययः - यद् + था → यथा । तद् + था → तथा । सर्व + था → सर्वथा । 3. 'ह' प्रत्ययः - इदम् + ह → इह । अत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'बहु' शब्दः यत्र 'सङ्ख्या' ( = अनेके / many) अस्मिन् अर्थे प्रयुज्यते, तत्रैव विभक्तिसंज्ञकाः तद्धितप्रत्ययाः तस्मात् भवितुमर्हन्ति । अन्येषु अर्थेषु (यथा - विपुलता - too much /huge / large - अस्मिन् अर्थे) यदि अयं शब्दः प्रयुज्यते, तर्हि अस्मात् शब्दात् एते प्रत्ययाः न भवन्ति । यथा - 'बहुभ्यः जनेभ्यः' इत्यत्र 'बहुतः' इति प्रयोगः भवितुमर्हति, परन्तु 'बहोः सूपात्' इत्यत्र 'बहुतः' इति प्रयोगः न क्रियते । ज्ञातव्यम् - सर्वे विभक्तिसंज्ञकाः तद्धितप्रत्ययाः अस्मिन् सूत्रे पाठितेभ्यः सर्वेभ्यः शब्देभ्यः न विधीयन्ते । अस्मिन् विषये अग्रे विस्तारेण सूत्राणि पाठितानि सन्ति । अत्र केवलं विभक्तिसंज्ञक-तद्धितप्रत्ययानां 'सीमारेषा' (domain) निर्धार्यते । इत्युक्ते, 'विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवन्ति चेत् एतेभ्यः शब्देभ्यः एव भवन्ति, अन्येभ्यः न' - इति अस्य आशयः । अतः अस्मिन् सूत्रे अनुक्ताः ये शब्दाः - यथा - वन, वृक्ष, माला - आदयः - तेभ्यः एते प्रत्ययाः न भवन्ति । Vasu English Summary -------------------- These प्राग्दिशीय affixes come after the word किम् and after a stem called सर्वनाम and after बहु but not after द्वि etc. Vasu English Translation ------------------------ These प्राग्दिशीय affixes come after the word किम् and after a stem called सर्वनाम and after बहु but not after द्वि etc. The words द्वि &c, though सर्वनाम are exempted. Thus कुत्र, कृतः, यतः, यत्र, बहुतः, बहुत्रः ॥ Why do we say अद्व्यादि 'not *dvi* &c'. Observe द्वाभ्याम्, द्वयोः ॥ Why do we say किम् &c ? Observe वृक्षात्, वृक्षं &c. The word किम् is a सर्वनाम, but it being included in the *dyadi* class, would have been exempted from the operation of this rule had it not been separately mentioned. Vart:- The word बहु here is a *Sankhya*. Therefore, the affix does not apply here, बहोः सूपात्, बहौ सूपे ॥ Bhashya ------- किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (2160) (5800 उपसंख्यानवार्तिकम्॥ 1 ॥) - बहुग्रहणे संख्याग्रहणम् - (भाष्यम्) बहुग्रहणे संख्याग्रहणं कर्तव्यम्। इह मा भूत् - बहौ, बहोः - इति॥ (आक्षेपभाष्यम्) अथ किमर्थं किम उपसंख्यानं क्रियते न सर्वनाम्न इत्येव सिद्धम्? (5801 समाधानवार्तिकम्॥ 2 ॥) - द्व्यादिप्रतिषेधात्किम उपसंख्यानम् - (भाष्यम्) द्व्यादिप्रतिषेधात्किम उपसंख्यानं क्रियते। अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किम उपसंख्यानं क्रियते॥ Kashika ------- प्राग् दिश इत्येव। किमः सर्वनाम्नो बहुशब्दात् च प्राग् दिशः प्रत्यया वेदितव्याः। सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते। कुतः। कुत्र। यतः। यत्र। ततः। तत्र। बहुतः। बहुत्र। अद्व्यादिभ्य इति किम् ? द्वाभ्याम्। द्वयोः। प्रकृतिपरिसंख्यानं किम् ? वृक्षात्। वृक्षे। प्राग् दिश इत्येव — वैयाकरणपाशः। सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासाद्॥ बहुग्रहणे संख्याग्रहणम्॥ इह न भवति — बहोः सूपात्। बहो सूप इति ॥ Siddhanta Kaumudi ----------------- किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥ Laghu Siddhanta Kaumudi ----------------------- किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥ Balamanorama ------------ **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** - किंसर्वनाम । अद्व्यादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाह — प्राग्दिशोऽधिक्रियत इति । विधेयाऽनिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम् । द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्रत्यदादीनां मिथः सहौक्तौ॑ इति किमः शेषत्वाऽर्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह — इदम इशित्यादिना । Tattvabodhini ------------- **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** - किंसर्वनाम । द्व्यादिपर्युदासात्किमः पृथग्ग्रहणम् । द्व्यादिषु किंशब्दपाठे प्रयोजनं तु -त्वं च कश्च कौ ।अहं च कश्च कौ । भवांश्चकश्च कौ इत्यत्र किमः शेषः,त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते॑इत्युक्तत्वात् । Nyaas ----- `कुत्र` इति। **सप्तम्यास्त्रल्** (5.3.10) , पूर्ववत्? कुभावः। `प्रकृतिपरिसंख्यानम्` इति। प्रकृतिपरिगणनम्। `वैयाकरणपाशः` इति। `याप्ये पाशप्` (5.3.47) । अयं चावधेः परो व्य इत्यन्याभ्योऽपि प्रकृतिभ्यो भवति। `सर्वनामत्वादेव सिद्धे` इति। सर्वनामत्वं किमः सर्वादिषु पाठात्। `किमो ग्रहणम्` इत्यादि। किंशब्दोऽयं द्व्यादिषु पठत इति तस्य `द्व्यादिभ्यः` इति पर्युदासः क्रियते। तस्मात्? सर्वनाम्नोऽपि स्वशब्देनोपादानम्। यद्येवं द्विशब्दात्? पूर्वं किंशब्दः पठितव्यः, एवं हि तस्य पृथग्ग्रहणं न कर्तव्यमेव भवति? सत्यमेतत्; न सूत्रकारस्येह गणपाठ इति नासावुपालम्भमर्हति। अपि च त्यदादीनां यद्यत्परं तत्तच्छिष्यत इति किमः सर्वैरेव त्यदादिभिः सह विवक्षायां शेय इष्यते - `त्वञ्च कश्च` कौ, भवांश्च कश्च कौ; स चैवं पाठे न सिध्यतीति यथान्यासमेवास्तु। `बहुग्रहणे संख्याग्रहणम्` इति। कथमिह सर्वनामसंज्ञया सर्वादयः संज्ञिनो निर्दिश्यन्ते? तस्मात्? तैः सह निदेशाद्बहुशब्दस्यापि बहुगणादि (1.1.22) सूत्रेण यस्य संख्यासंज्ञा विहिता तस्यैव संज्ञिता तस्यैव संज्ञिनो ग्रहणं विज्ञायते। `बहोः सूपात्` इति। अत्र वैपुल्यवाची बहुशब्दः॥ Prakriyasarvasvam ----------------- किं शब्दाद् द्वयादिवर्जाच्च सर्वनाम्नो बहोरपि । प्राग्दिशः प्रत्यया ज्ञेया नापरेभ्यो भवन्त्यमी ॥ ३४० ॥ Sutra Prayogas -------------- * **स-सीतः** (भट्टिकाव्यम्): `वोपसर्जनस्य` इति विकल्पेन सभावः।