52130: वयसि पूरणात्

Padacheda: वयसि | S | 7 | 1 |

पूरणात् | S | 5 | 1 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थेभ्यः पूरणप्रत्ययान्तशब्देभ्यः वयसः निर्देशं कर्तुम् ‘इनि’ प्रत्ययः भवति ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पूरणप्रत्ययान्तशब्देभ्यः वयसि अभिधेये (to indicate an age) वर्तमानसूत्रेण ‘इनि’ प्रत्ययः विधीयते । यथा - 1. पञ्चमः मासः अस्य अस्ति सः पञ्चमी शिशुः । A five-month old baby. 2. अष्टमम् वर्षमस्य अस्ति सः अष्टमी कुमारः । An eight year old boy. विशेषः - 1. पूरणप्रत्ययान्तशब्दाः सर्वे अदन्ताः सन्ति । एतेभ्यः ‘अस्य अस्ति’ अस्मिन् अर्थे अत इनिठनौ (5.2.115) इत्यनेन ‘इनि’ तथा ‘ठन्’ द्वयोरपि प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण पुनः ‘इनि’ प्रत्ययविधानं क्रियते, येन ‘ठन्’ प्रत्ययस्य निषेधः भवति । 2. यत्र वयसः निर्देशः नास्ति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पञ्चमः स्वरः विद्यते यस्मिन् सः पञ्चमवान् रागः ।

Vasu English Summary

The affix इनि (इन्) comes in the sense of मतुप् after an ordinal numeral when age is denoted.

Vasu English Translation

The affix इनि (इन्) comes in the sense of मतुप् after an ordinal numeral when age is denoted. Thus पञ्चमोऽस्यास्ति मासः संवत्सरो वा = पंचमिन् ‘five months or years old’, as पंचमी उष्ट्रः ॥ Similarly नवमी, दशमी &c. By (5.2.115) the affix इनि would have come after these words; the present sutra is a restrictive rule teaching that ठन् does not come in this sense.

Why do we say वयसि ‘when age is denoted’? Observe, पंचमवान् ग्रामरागः ॥

Kashika

इनिरनुवर्तते। पूरणप्रत्ययान्तात् प्रातिपदिकादिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये। पञ्चमोऽस्यास्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः। नवमी। दशमी। सिद्धे सति नियमार्थं वचनम् — इनिरेव भवति, ठन् न भवतीति। वयसीति किम्? पञ्चमवान् ग्रामरागः॥

Siddhanta Kaumudi

पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥

Balamanorama

वयसि पूरणात् - वयसि पूरणात् ।अत इनिठना॑वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह — ठनादिबाधनार्थमिति ।

Padamanjari

मासः संवत्सरो वेति। प्रकरणादिवशात्पञ्चमादिशब्दस्य काले वृत्तिः, ततश्च’वयसि द्योत्ये’ इति विशेषणं तत्रोपपन्नमिति भावः ॥

Nyaas

वयसि द्योत्ये इति। कथं पुनर्वयो द्योत्यते, यदि पञ्चमादयः शब्दाः काले वर्तमानाः प्रत्ययमुत्पादयन्ति। अत एव तेषां काले वृतिंत दर्शयितुमाह - पञ्चमो मासोऽस्यास्ति इति। सिद्धे सति इत्यादि। पूरणप्रत्ययानामकारन्तत्वादिनिः सिद्ध एव, तस्मिन्? सिद्धे पुनरिवं वचनं नियमार्थं ज्ञायत इति। इनिरेव भवति इति। नियमस्य स्वरूपं दर्शयति॥

Prakriyasarvasvam

वयसि वर्तमानात् पूरणान्तादिनिरेव । दशमं वयोऽस्यास्तीति दशमी वृद्धः । पञ्चमो मासः संवत्सरो वास्यास्तीति पञ्चमी ॥