52129: वातातिसाराभ्यां कुक् च¶
Padacheda: वात-अतिसाराभ्याम् | S | 5 | 2 |
कुक् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयो’ ‘वात’ तथा ‘अतिसार’ शब्दाभ्याम् प्रथमासमर्थाभ्याम् ‘इनि’ प्रत्ययः भवति, तथा च प्रक्रियायामङ्गस्य ‘कुक्’ आगमः अपि विधीयते ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण रोगवाचिभ्यः शब्देभ्यः द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः (5.2.128) इत्यनेन इनि-प्रत्ययः विधीयते । अस्मिन्नेव ‘इनि’ प्रत्यये परे ‘वात’ (gas) तथा ‘अतिसार’ (diarrhoea) एतयोः अङ्गस्य वर्तमानसूत्रेण ‘कुक्’ इति आगमः भवति । यथा - अ) वातः अस्य अस्ति सः = वात + कुक् + इन् [वर्तमानसूत्रेण इन्-प्रत्ययः, अङ्गस्य च कुक्-आगमः] → वात + क् + इन् [‘कुक्’ इत्यत्र ककारः इत्संज्ञकः, उकारः उच्चारणार्थः । द्वयोः लोपः भवति ।] → वातकिन् वातः अस्य अस्ति सः वातकी । आ) अतिसारः अस्य अस्ति सः अतिसारकी । विशेषः - व्याख्यानेषु अत्र ‘रोगे च अयम् इष्यते’ इति उच्यते । इत्युक्ते, ‘रोगः’ अस्मिन् अर्थे प्रयुज्यमानौ यौ वात-अतिसार-शब्दौ, तयोर्विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा - ‘वातः विद्यते यस्याम् गुहायाम्’ अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, केवलम् औत्सर्गिकः मतुँप्-प्रत्ययः एव विधीयते, येन ‘वातवती गुहा’ इति रूपं सिद्ध्यति । अत्र एकं वार्त्तिकम् ज्ञातव्यम् - <!पिशाचाच्च!> । इत्युक्ते, ‘पिशाच’शब्दात् अपि अनेन सूत्रेण मतुबर्थयोः ‘इनि’ प्रत्ययः तथा च अङ्गस्य कुक्-आगमः भवति । पिशाचः विद्यते अस्मिन् सः पिशाचकी ।
Vasu English Summary¶
The augment कुक् comes before इनि (इन्) after the words 1. वात and 2. अतिसार।
Vasu English Translation¶
The augment कुक् comes before इनि (इन्) after the words 1. वात and 2. अतिसार। The words वात and अतिसार being names of diseases, will take इनि by the fore-going sutra; the present aphorism only teaches the affixing of the augment. Thus वातकी, अतिसारकी ॥ Another reading is अतीसारकी ॥
Vart:- So also after पिशाच, as पिशाचकी वैश्रवणः ‘the Kubera’.
This is when the words वात and अतिसार denote diseases. Otherwise, वातवती गुहा ॥
Bhashya¶
वातातीसाराभ्यां कुक्च (2147) (ःइनिप्रत्ययाधिकरणम्) (उपसंख्यानभाष्यम्) पिशाचाच्चेति वक्तव्यम्। पिशाचकी वैश्रवणः॥
Kashika¶
वातातिसारशब्दाभ्यामिनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति। वातातिसारयोरुपतापत्वात् पूर्वेणैव सिद्धे प्रत्यये कुगर्थमेवेदं वचनम्। वातकी। अतिसारकी॥ पिशाचाच्चेति वक्तव्यम्॥ पिशाचकी वैश्रवणः। रोगे चायमिष्यते। इह न भवति — वातवती गुहेति॥
Siddhanta Kaumudi¶
चादिनिः । वतकी । अतीसारकी । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ।<!पिशाचाच्च !> (वार्तिकम्) ॥ पिशाचकी ॥
Balamanorama¶
वातातिसाराभ्यां कुक् च - वातातीसाराभ्यां । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अथीसारकीति । अतीसाररोगवानित्यर्थः ।रोगे चायमिति । व्याख्यानादिति भावः । रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः ।
Padamanjari¶
वातातिसारयोरुपतापत्वादिति। अतिसारसाहचर्याद्वातस्यापि व्याधेरेव ग्रहणम्, न वायोरिति भावः। सिद्धे प्रत्यय इति। इनावेवेत्यर्थः। रोगे चायमिष्यते इति क्वचित्पठ।ल्ते, तत्रोक्तो हेतुः ॥
Nyaas¶
वातातिसाराभ्याम् इति। यद्यपि पञ्चमी, तथाप्यर्थाद्विभक्तिविपरिणामो भवति। आगमसम्बन्धे षष्ठीभावेन विपरिणम्यते। अत एवाह - तस्यन्नियोगेन च तयोः कुगागमः इति। अथ प्रत्ययस्यैवागमः कस्मान्न भवति? कुगागमवता प्रत्ययेनार्थंस्यानभिधानात्। स्वरूपं न सिध्यतीति च।पिशाचाच्चेति वक्तव्यम् इति। पिशाचशब्दादिनिप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - बहुलं छन्दसि (7.4.78) इत्यतो बहुलग्रहणमनुवर्तते, तेन पिशाचशब्दादपि भविष्यति॥
Prakriyasarvasvam¶
आभ्यामिनिः कुक् च । ‘रोग एवेष्टम्’ । वातरोगवान् वातकी । अतीसारकी । एकदेशविकृतत्वादतिसारकी ।<!पिशाचाच्च वाच्यम् ।!> (वा०) । पिशाचकी ॥
Vartika¶
पिशाचाच्च ।