52131: सुखादिभ्यश्च¶
Padacheda: सुखादिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सुखादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः ‘इनि’ प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण सुखादिगणस्य शब्देभ्यः वर्तमानसूत्रेण ‘इनि’ इति प्रत्ययः विधीयते । अस्मिन् गणे ये अदन्तशब्दाः सन्ति तेभ्यः ‘अस्य अस्ति’ अस्मिन् अर्थे अत इनिठनौ (5.2.115) इत्यनेन ‘मतुँप्’, ‘इनि’ तथा ‘ठन्’ प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण ‘इनि’ प्रत्ययस्य पुनर्विधानम् कृत्वा ‘मतुँप्’ तथा ‘ठन्’ प्रत्यययोः बाधनम् क्रियते । सुखादिगणः अयम् - सुख, दुःख, तृप्र, कृच्छ्र, आम्र, अलीक, करुणा, कृपण, सोढ, प्रमीप, शील, हल, माला क्षेपे (गणसूत्रम्) , प्रणय । उदाहरणानि - 1. सुखम् विद्यते यस्मिन् सः सुखी । 2. दुःखम् विद्यते यस्मिन् सः दुःखी । 3. तृप्रम् ( (= दुःखम्) विद्यते यस्मिन् सः तृप्री । 4. करुणा विद्यते यस्मिन् सः करूणी । 5. प्रणयः विद्यते यस्याम् सा प्रणयिनी । अत्र ‘माला क्षेपे’ इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - ‘माला’ शब्दात् ‘क्षेप’ (= निन्दा / insult) अस्मिन् अर्थे वर्तमानसूत्रेण इनि-प्रत्ययः भवति । माला अस्मिन् अस्ति सः माली निन्द्यः । one who has worn a garland for bad reasons - इत्याशयः । विशेषः - ‘माला’ इति शब्दः व्रीह्यादिभ्यश्च (5.2.116) इत्यत्र पाठिते शिखादिगणे विद्यते अतः अस्मात् शब्दात् केवलम् ‘इनि’ तथा ‘मतुँप्’ प्रत्ययौ एव भवतः । अस्यां स्थितौ ‘क्षेप (= निन्दा)’ अस्मिन् अर्थे वर्तमानसूत्रेण मतुँप्-प्रत्ययस्यापि निषेधः भवति, केवलम् इनि-प्रत्ययः एव विधीयते ।
Vasu English Summary¶
The affix इनि (इन्) comes (to the exclusion of other affixes) in the sense of मतुप् after the words सुख etc.
Vasu English Translation¶
The affix इनि (इन्) comes (to the exclusion of other affixes) in the sense of मतुप् after the words सुख etc. Thus सुखिन् nom. सुखी; दुःखिन् &c. When censure is implied, then इन् comes after माला, to the exclusion of मतुप्, as माली ॥
The following is the list of सुखादि word:-
1 सुख, 2 दुःख, 3 तृप्त, 4 कृच्छ, 5 आश्र (आम्र), 6 अस्र, 7 अलीक, 8 करुण (करुणा) 9 सोढ, 10 प्रतीप (प्रमीप), 11 शील,12 हल, 13 माला क्षेपे, 14 कृपण, 15 प्रणय (प्रणाय) 16 वल, 17 कक्ष ॥
Kashika¶
सुख इत्येवमादिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो नियम्यते मत्वर्थे। सुखी। दुःखी। माला क्षेप इति पठ्यते, व्रीह्यादिषु (५.२.११६) च मालाशब्दोऽस्ति, तदिह क्षेपे मतुब्बाधनार्थं वचनम्॥ सुख। दुःख। तृप्र। कृच्छ्र। आम्र। अलीक। करुणा। कृपण। सोढ। प्रमीप। शील। हल। माला क्षेपे (ग०सू० १३९)। प्रणय। सुखादिः॥
Siddhanta Kaumudi¶
इनिर्मत्वर्थे । सुखी । दुःखी ॥ (गणसूत्रम् -) मालाक्षेपे ॥ माली ॥
Balamanorama¶
सुखादिभ्यश्च - सुखादिभ्यश्च । इनिर्मत्वर्थे इति । इनिरेव, नतु ठनित्यर्थः । माला क्षेपे इति । शुखादिगणसूत्रमिदम् ।
Padamanjari¶
इनिः प्रत्ययो नियम्यते इति। पूर्वसूत्रे इनिरेव भवतीति नियमस्वरूपं दर्शितम्, इहापि तथैव नियमः। नन्वेवं यत एवकारस्ततोऽन्यत्रावधारणमिति सुखादय एव नियता भवन्ति, तत्किमुच्यते -‘प्रत्ययो नियम्यते’ इति? अन्यनिवृत्तिविशिष्ट्ंअ व्यस्थापनगत्र नियम इत्यदोषः। मतुब्बाधनार्थं वचनमिति। न तु ठन्बाधनार्थम्;’शिखादिभ्य इनिर्वाच्यः’ इत्यनेनैव ठनो निवर्तितत्वादिति भावः ॥
Nyaas¶
इनिप्रत्ययो नियम्यते इति। पूर्ववन्नियमो वेदितव्यः। तदिह इत्यादि। यतो व्रीहृदिषु मालाशब्दः पठते, तस्माद्यदिह क्षेपे मालाशब्दस्य पुनर्वचनं तन्मतुपो बाधनार्थम्, न तु ठनः। सुखादिभ्य इति नोच्यत इति; अनेनैव निवर्त्तितत्वात्। मालाशब्दो हि शिखादिषु, तत्रान्तर्भाविनः क्षेपादन्यत्रेनिर्भवत्येव। शिखादित्वान्मतुप्? च; मतुपस्तस्यान्यतरस्यांग्रहणेन समुच्चितत्वात् - माली, मालावानिति॥
Prakriyasarvasvam¶
इनिरेव । सुखी । दुःखी । प्रणयी । अलीकी । ‘मालायाः क्षेपे’ (स० ५-२-१८५) माली मूढः । बलाद् बाहुरूपूर्वात्’ (स० ५-२-१८६) बाहुबली । ऊरुबली । ‘सर्वाद्धनबीजकेशात् । (स० ५-२-१८७) । सर्वधनी वणिक् । सर्वबीजी कर्षकः । सर्वकेशी युवा । सर्वाद्बलादपीति माधवः । सर्वबली नृपः ॥