52130: वयसि पूरणात् =================== **Padacheda:** वयसि | S | 7 | 1 | पूरणात् | S | 5 | 1 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थेभ्यः पूरणप्रत्ययान्तशब्देभ्यः वयसः निर्देशं कर्तुम् 'इनि' प्रत्ययः भवति ।** 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पूरणप्रत्ययान्तशब्देभ्यः वयसि अभिधेये (to indicate an age) वर्तमानसूत्रेण 'इनि' प्रत्ययः विधीयते । यथा - 1. पञ्चमः मासः अस्य अस्ति सः पञ्चमी शिशुः । A five-month old baby. 2. अष्टमम् वर्षमस्य अस्ति सः अष्टमी कुमारः । An eight year old boy. विशेषः - 1. पूरणप्रत्ययान्तशब्दाः सर्वे अदन्ताः सन्ति । एतेभ्यः 'अस्य अस्ति' अस्मिन् अर्थे **अत इनिठनौ** (5.2.115) इत्यनेन 'इनि' तथा 'ठन्' द्वयोरपि प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययविधानं क्रियते, येन 'ठन्' प्रत्ययस्य निषेधः भवति । 2. यत्र वयसः निर्देशः नास्ति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पञ्चमः स्वरः विद्यते यस्मिन् सः पञ्चमवान् रागः । Vasu English Summary -------------------- The affix इनि (इन्) comes in the sense of मतुप् after an ordinal numeral when age is denoted. Vasu English Translation ------------------------ The affix इनि (इन्) comes in the sense of मतुप् after an ordinal numeral when age is denoted. Thus पञ्चमोऽस्यास्ति मासः संवत्सरो वा = पंचमिन् 'five months or years old', as पंचमी उष्ट्रः ॥ Similarly नवमी, दशमी &c. By (5.2.115) the affix इनि would have come after these words; the present *sutra* is a restrictive rule teaching that ठन् does not come in this sense. Why do we say वयसि 'when age is denoted'? Observe, पंचमवान् ग्रामरागः ॥ Kashika ------- इनिरनुवर्तते। पूरणप्रत्ययान्तात् प्रातिपदिकादिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये। पञ्चमोऽस्यास्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः। नवमी। दशमी। सिद्धे सति नियमार्थं वचनम् — इनिरेव भवति, ठन् न भवतीति। वयसीति किम्? पञ्चमवान् ग्रामरागः॥ Siddhanta Kaumudi ----------------- पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥ Balamanorama ------------ **वयसि पूरणात्** - वयसि पूरणात् ।अत इनिठना॑वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह — ठनादिबाधनार्थमिति । Padamanjari ----------- मासः संवत्सरो वेति। प्रकरणादिवशात्पञ्चमादिशब्दस्य काले वृत्तिः, ततश्च'वयसि द्योत्ये' इति विशेषणं तत्रोपपन्नमिति भावः ॥ Nyaas ----- `वयसि द्योत्ये` इति। कथं पुनर्वयो द्योत्यते, यदि पञ्चमादयः शब्दाः काले वर्तमानाः प्रत्ययमुत्पादयन्ति। अत एव तेषां काले वृतिंत दर्शयितुमाह - `पञ्चमो मासोऽस्यास्ति` इति। `सिद्धे सति` इत्यादि। पूरणप्रत्ययानामकारन्तत्वादिनिः सिद्ध एव, तस्मिन्? सिद्धे पुनरिवं वचनं नियमार्थं ज्ञायत इति। `इनिरेव भवति` इति। नियमस्य स्वरूपं दर्शयति॥ Prakriyasarvasvam ----------------- वयसि वर्तमानात् पूरणान्तादिनिरेव । दशमं वयोऽस्यास्तीति दशमी वृद्धः । पञ्चमो मासः संवत्सरो वास्यास्तीति पञ्चमी ॥