52129: वातातिसाराभ्यां कुक् च ============================= **Padacheda:** वात-अतिसाराभ्याम् | S | 5 | 2 | कुक् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयो' 'वात' तथा 'अतिसार' शब्दाभ्याम् प्रथमासमर्थाभ्याम् 'इनि' प्रत्ययः भवति, तथा च प्रक्रियायामङ्गस्य 'कुक्' आगमः अपि विधीयते ।** 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण रोगवाचिभ्यः शब्देभ्यः **द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः** (5.2.128) इत्यनेन इनि-प्रत्ययः विधीयते । अस्मिन्नेव 'इनि' प्रत्यये परे 'वात' (gas) तथा 'अतिसार' (diarrhoea) एतयोः अङ्गस्य वर्तमानसूत्रेण 'कुक्' इति आगमः भवति । यथा - अ) वातः अस्य अस्ति सः = वात + कुक् + इन् [वर्तमानसूत्रेण इन्-प्रत्ययः, अङ्गस्य च कुक्-आगमः] → वात + क् + इन् ['कुक्' इत्यत्र ककारः इत्संज्ञकः, उकारः उच्चारणार्थः । द्वयोः लोपः भवति ।] → वातकिन् वातः अस्य अस्ति सः वातकी । आ) अतिसारः अस्य अस्ति सः अतिसारकी । विशेषः - व्याख्यानेषु अत्र 'रोगे च अयम् इष्यते' इति उच्यते । इत्युक्ते, 'रोगः' अस्मिन् अर्थे प्रयुज्यमानौ यौ वात-अतिसार-शब्दौ, तयोर्विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा - 'वातः विद्यते यस्याम् गुहायाम्' अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, केवलम् औत्सर्गिकः मतुँप्-प्रत्ययः एव विधीयते, येन 'वातवती गुहा' इति रूपं सिद्ध्यति । अत्र एकं वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'पिशाच'शब्दात् अपि अनेन सूत्रेण मतुबर्थयोः 'इनि' प्रत्ययः तथा च अङ्गस्य कुक्-आगमः भवति । पिशाचः विद्यते अस्मिन् सः पिशाचकी । Vasu English Summary -------------------- The augment कुक् comes before इनि (इन्) after the words 1. वात and 2. अतिसार। Vasu English Translation ------------------------ The augment कुक् comes before इनि (इन्) after the words 1. वात and 2. अतिसार। The words वात and अतिसार being names of diseases, will take इनि by the fore-going *sutra*; the present aphorism only teaches the affixing of the augment. Thus वातकी, अतिसारकी ॥ Another reading is अतीसारकी ॥ Vart:- So also after पिशाच, as पिशाचकी वैश्रवणः 'the *Kubera*'. This is when the words वात and अतिसार denote diseases. Otherwise, वातवती गुहा ॥ Bhashya ------- वातातीसाराभ्यां कुक्च (2147) (ःइनिप्रत्ययाधिकरणम्) (उपसंख्यानभाष्यम्) पिशाचाच्चेति वक्तव्यम्। पिशाचकी वैश्रवणः॥ Kashika ------- वातातिसारशब्दाभ्यामिनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति। वातातिसारयोरुपतापत्वात् पूर्वेणैव सिद्धे प्रत्यये कुगर्थमेवेदं वचनम्। वातकी। अतिसारकी॥ पिशाचाच्चेति वक्तव्यम्॥ पिशाचकी वैश्रवणः। रोगे चायमिष्यते। इह न भवति — वातवती गुहेति॥ Siddhanta Kaumudi ----------------- चादिनिः । वतकी । अतीसारकी । रोगे चायमिष्यते ॥ नेह, वातवती गुहा । (वार्तिकम्) ॥ पिशाचकी ॥ Balamanorama ------------ **वातातिसाराभ्यां कुक् च** - वातातीसाराभ्यां । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अथीसारकीति । अतीसाररोगवानित्यर्थः ।रोगे चायमिति । व्याख्यानादिति भावः । रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः । Padamanjari ----------- वातातिसारयोरुपतापत्वादिति। अतिसारसाहचर्याद्वातस्यापि व्याधेरेव ग्रहणम्, न वायोरिति भावः। सिद्धे प्रत्यय इति। इनावेवेत्यर्थः। रोगे चायमिष्यते इति क्वचित्पठ।ल्ते, तत्रोक्तो हेतुः ॥ Nyaas ----- `वातातिसाराभ्याम्` इति। यद्यपि पञ्चमी, तथाप्यर्थाद्विभक्तिविपरिणामो भवति। आगमसम्बन्धे षष्ठीभावेन विपरिणम्यते। अत एवाह - `तस्यन्नियोगेन च तयोः कुगागमः` इति। अथ प्रत्ययस्यैवागमः कस्मान्न भवति? कुगागमवता प्रत्ययेनार्थंस्यानभिधानात्। स्वरूपं न सिध्यतीति च।`पिशाचाच्चेति वक्तव्यम्` इति। पिशाचशब्दादिनिप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - **बहुलं छन्दसि** (7.4.78) इत्यतो बहुलग्रहणमनुवर्तते, तेन पिशाचशब्दादपि भविष्यति॥ Prakriyasarvasvam ----------------- आभ्यामिनिः कुक् च । 'रोग एवेष्टम्' । वातरोगवान् वातकी । अतीसारकी । एकदेशविकृतत्वादतिसारकी । (वा०) । पिशाचकी ॥ Vartika ------- पिशाचाच्च ।