52128: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः¶
Padacheda: द्वन्द्व-उपताप-गर्ह्यात् | S | 5 | 1 |
प्राणिस्थात् | S | 5 | 1 |
इनिः | S | 1 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः द्वन्द्वसमासेन निर्मितेभ्यः शब्देभ्यः, रोगवाचिभ्यः शब्देभ्यः तथा च निन्दावाचिभ्यः ह्रस्व-अकारान्तशब्देभ्यः प्रथमासमर्थेभ्यः ‘प्राणिषु स्थितम्’ अस्मिन् सन्दर्भे इनि-प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अदन्तशब्देभ्यः तु अत इनिठनौ (5.2.115) इत्यनेन ‘इनि’ तथा ‘ठन्’ एतौ द्वौ प्रत्ययौ अपि एतयोः अर्थे भवितुमर्हतः । परन्तु केभ्यश्चन अदन्तशब्देभ्यः केवलम् इनि-प्रत्ययः एव भवितुमर्हति, ‘मतुँप्’ उत ‘ठन्’ एतौ प्रत्ययौ न भवतः । एतादृशानाम् शब्दानाम् निर्देशः अस्मिन् सूत्रे कृतः अस्ति । क्रमेण पश्यामः - 1. द्वन्द्वसमासेन निर्मिताः अदन्तशब्दाः यदि प्राणिषु स्थितस्य पदार्थस्य निर्देशं कुर्वन्ति, तर्हि तेभ्यः शब्देभ्यः वर्तमानसूत्रेण इनि-प्रत्ययः भवति । यथा - अ) कटकम् (bracelet) च वलयम् (bangle) च कटकवलये । कटकवलये स्तः अस्याः सा कटकवलयिनी स्त्री । A lady who own / wears bracelet and bangles इत्याशयः । अत्र ‘कटकवलय’ इति द्वन्द्वसमासेन निर्मितम् प्रातिपदिकम्, अस्य च प्रयोगः ‘प्राणिषु विद्यते’ अस्मिन् अर्थे अत्र कृतः अस्ति, अतः अस्मात् शब्दात् वर्तमानसूत्रेण ‘इनि’ प्रत्ययं कृत्वा अग्रे स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्ययं कृत्वा ‘कटकवलयिनी’ इति प्रातिपदिकम् सिद्ध्यति । आ) शङ्खश्च नूपुरश्च शङ्खनूपुरौ । शङ्खनूपुरौ स्तः अस्याः सा शङ्खनूपुरिणी स्त्री । अत्रापि ‘शङ्खनूपुर’ अस्मात् द्वन्द्वसमासेन निर्मितात् प्रातिपदिकात् वर्तमानसूत्रेण ‘इनि’ प्रत्ययः क्रियते । विशेषः - यदि द्वन्दसमासेन निर्मितं प्रातिपदिकम् ‘प्राणिषु स्थितम्’ अस्मिन् अर्थे न प्रयुज्यते, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - पुष्पाणि च फलानि च पुष्पफलानि, तानि सन्ति यस्मिन् सः पुष्पफलवान् वृक्षः । अत्र ‘वृक्ष’ इति प्राणिवाचकः शब्दः नास्ति, अतः ‘पुष्पफल’ शब्दात् वर्तमानसूत्रस्य प्रयोगः न भवति । अतः औत्सर्गिकरूपेण ‘मतुँप्’ प्रत्यय कृत्वा रूपं सिद्ध्यति । (अत्र अत इनिठनौ (5.2.115) इत्यस्य प्रसक्तिरेव नास्ति यतः अत इनिठनौ (5.2.115) इत्यनेन केवलम् ‘अस्य अस्ति’ अस्मिन् अर्थे प्रत्ययः विधीयते, न हि ‘अस्मिन् अस्ति’ इत्यस्मिन् अर्थे)। 2. रोगवाचिनः ये शब्दाः, तेभ्यः ‘प्राणिस्थम्’ इत्यस्मिन् अर्थे इनि-प्रत्ययः भवति । यथा - कुष्ठम् (leprosy) अस्ति अस्य सः कुष्ठी । किलासः (leprosy) अस्ति अस्मिन् सः किलासी । उभयत्र अत इनिठनौ (5.2.115) इत्यनेन ठन् तथा मतुँप् प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण तौ निषिध्येते । 3. निन्दावाचिनः (= दोषवाचिनः) ये शब्दाः, तेभ्यः ‘प्राणिस्थम्’ अस्मिन् अर्थे इनि-प्रत्ययः भवति । यथा, ककुदावर्त (hump) विद्यते यस्मिन् सः ककुदावर्ती । अत्र ‘ककुदावर्त’ शब्दः शरीरस्य दोषम् दर्शयितुम् प्रयुज्यते, अतः अस्मात् वर्तमानसूत्रेण ‘इनि’ प्रत्ययः भवति । एवमेव, ‘काकतालुकः विद्यते अस्य सः काकतालुकी (one whose voice is like a crow. Sings / speaks very badly इत्याशयः) । उभयत्र अत इनिठनौ (5.2.115) इत्यनेन ठन् तथा मतुँप् प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण तौ निषिध्येते । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!प्राण्यङ्गान्नेष्यते!> । इत्युक्ते, प्राणिनामङ्गवाचिनः ये शब्दाः, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - ‘पाणिश्च पादश्च पाणिपादम् , तत् अस्ति यस्मिन् सः’ इत्यत्र वर्तमानसूत्रेण ‘इनि’प्रत्ययः न भवति । औत्सर्गिकम् मतुँप्-प्रत्ययं कृत्वा ‘पाणिपादवान्’ इत्येव रूपमत्र जायते ।
Vasu English Summary¶
The affix इनि (इन्) comes in the sense of मतुप् after a द्वन्द compound after the name of a disease and after anything denoting fault when the thing is found in a living being.
Vasu English Translation¶
The affix इनि (इन्) comes in the sense of मतुप् after a द्वन्द compound after the name of a disease and after anything denoting fault when the thing is found in a living being. Thus Dvandva:– कटकवलयिनी ‘a woman having a bracelet and a zone’, शङ्खनूपुरिणी ‘a woman having sankha and nupur ornaments’. So after diseases: कुष्ठी ‘a leper’, किलासी ‘a white leper’. So after names of faults:- ककुदावर्ती, काकतालुकी ॥
Why do we say ‘when found in a living being ?’ Observe पुष्पफलवान् वृक्षः ॥ The affix, according to a Vartika, does not come after words denoting members of a living body: as, पाणिपादवती ॥ The word अतः (5.2.115), is understood in this sutra, so that the affix does not come after words not ending in अ; as चित्रकललाटिकावती ॥ Though Dvandva compounds &c. ending in अ, would have taken इनि by (5.2.115), the repetition of this affix in the present sutra shows that Dvandva compounds &c, take only इनि, and not ठन् &c.
Kashika¶
द्वन्द्वः समासः। उपतापो रोगः। गर्ह्यं निन्द्यम्। तद्विषयेभ्यः शब्देभ्यः प्राणिस्थार्थवाचिभ्य इनिः प्रत्ययो भवति मत्वर्थे। द्वन्द्वात् तावत् — कटकवलयिनी। शङ्खनूपुरिणी। उपतापात् — कुष्ठी। किलासी। गर्ह्यात् — ककुदावर्ती। काकतालुकी। प्राणिस्थादिति किम् ? पुष्पफलवान् वृक्षः। प्राण्यङ्गाद् नेष्यते। पाणिपादवती। अत इत्यनुवर्तते। तेनेह न भवति — चित्रललाटिकावती। सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम्॥
Siddhanta Kaumudi¶
द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः । प्राण्यङ्गान्न ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥
Balamanorama¶
द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः - द्वन्द्वोपताप । द्वन्द्वसमासादुपतापवाचकाद्गह्र्रवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनि स्यादित्यर्थः । द्वन्द्वेति उदाहरण सूचनम् । कटकवलयिनीति । कटकवलययोः कञ्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणं — रोग इति । किलासः कुष्ठभेदः । गह्र्रमित्यस्य विवरणं — निन्द्यमिति । ककुदावर्तीति । ककुदं ग्रीवाया अधस्तात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सोऽस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवात्र शरणम्, एवंविधवार्तिकस्य भा,ये अदर्शनात् । अत इत्येवेति । समासन्त इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । चित्रकललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाऽभावादिनिर्नेति भावः । ननु ‘अत इनिठनौ’ इत्यतोऽनुवृत्त्यैव सिद्धे पुनरिह इनिग्रहणं किमर्थमित्यत आह — सिद्धे प्रत्यये इति । ठनादिति । आदिना मतुपः सग्रहः ।
Padamanjari¶
तद्विषयेभ्य इति। तच्छब्देनोपतापो गर्ह्यं च प्रत्यवमृश्यते, न द्वन्द्वः; तस्यैव तद्विषयत्वासम्भवात्। प्राणिस्थार्थवाचिभ्य इति। इदं तु सर्वेषां ग्रहणम्। चित्रललाटिकावतीति। नियतद्रव्यविवक्षायां’जातिरप्राणिनाम्’ इत्येकवद्भावाभावाट्टापः श्रवणम्। सिद्धे प्रत्यय इति। ठत इनिठनौऽ इत्यनेन। ठनादिबाधनार्थमिति। आदिशब्देन मतुपो गुहणम् ॥
Nyaas¶
तद्विषयेब्यः इति। तच्छब्देनोपतापगर्हावेव परामृश्येते। ते उपतापगर्हे विषयो येषामिति बहुव्रीहिः। प्राणिस्थवाचिनां सर्वेषामेव द्वन्द्वादीनामिवं विशेषणम्। प्राण्यङ्गान्नेष्यते इति। कथं पुनरिष्यमाणोऽपि न भवति? चकारानुवृत्तेः। सिद्धे प्रत्यये इति। अत इनिठनौ (5.2.115) इत्यनेनैव। ठनादिबाधनार्थम् इति। इनिरेव यता स्यात्, ठनादिर्मा भूदित्येवमर्थं पुनर्वचनम्। आदिशब्देन मतुब्? गृह्रते। इत उत्तरे योगा नियमार्था वेदितव्याः॥
Prakriyasarvasvam¶
प्राणिस्थेभ्योऽदन्तेभ्यो द्वन्द्वादिभ्य इनिरेव । न ठनादि । द्वन्द्वात् कटकवलयी ।<!प्राण्यङ्गान्नेष्टम्!> (वा०) । पाणिपादवान् । उपतापो रोगः । कुष्ठी । गर्ह्यं दुर्लक्षणम् । ककुदावर्त्तिनी स्त्री ॥