52126: स्वामिन्नैश्वर्ये

Padacheda: स्वामिन् | S | 1 | 1 |

ऐश्वर्ये | S | 7 | 1 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ऐश्वर्ये गम्यमाने ‘स्वामिन्’ शब्दः निपात्यते ।

अनेन सूत्रेण ‘स्वामिन्’ इति शब्दः निपात्यते । ‘ऐश्वर्य’ (= ईश्वरत्वम् / प्रभुत्वम् / ownership) अस्मिन् अर्थे प्रयुज्यमानः यः ‘स्व’ शब्द’, तस्मात् निपातनेन ‘आमिन्’ प्रत्ययं कृत्वा अस्य शब्दस्य निर्माणम् भवति । स्वम् (= ऐश्वर्यम्) अस्य अस्तिः सः = स्व + आमिन् → स्व् + आमिन् [यस्येति च (6.4.148) इति अकारलोपः] → स्वामिन् यस्य प्रभुत्वम् / ownership अस्ति, तस्य निर्देशः ‘स्वामी’ इत्यनेन क्रियते । यथा - धनस्य स्वामी, भूमेः स्वामी - आदयः । विशेषः - ‘स्व’ शब्दस्य ‘ज्ञाति’ (kinsmen / relatives) तथा धनम् - एतौ अन्यौ अर्थौ अपि स्तः । एतयोः अर्थयोः तु अस्मात् शब्दात् मतुँप्-प्रत्ययः एव भवति । यथा - स्वमस्य अस्ति सः स्ववान् ।

Vasu English Summary

The irregularly formed word स्वामिन् denotes ‘Sir or Lord’.

Vasu English Translation

The irregularly formed word स्वामिन् denotes ‘Sir or Lord’. The affix आमिन् comes in the sense of lordship after the word स्व ॥ Thus स्वमस्यास्ति = ऐश्वर्यमस्यास्ति = स्वामिन् ॥ Why do we say when meaning ‘Sir’. Observe, स्ववान् ॥

Bhashya

स्वामिन्नैश्वर्ये (2144) (निपातनाधिकरणम्) (अतिव्याप्त्याक्षेपनिरासभाष्यम्) इह कस्मान्न भवति - स्वमस्य अस्तीति ? नैष दोषः। नायं प्रत्ययार्थः। किं तर्हि?। प्रकृतिविशेषणमेतत् - स्वामिन्नैश्वर्ये निपात्यते इति॥

Kashika

स्वामिन्निति निपात्यत ऐश्वर्ये गम्यमाने। स्वशब्दादैश्वर्यवाचिनो मत्वर्थ आमिन् प्रत्ययो निपात्यते। स्वमस्यास्तीति, ऐश्वर्यमस्यास्तीति स्वामी, स्वामिनौ, स्वामिनः। ऐश्वर्य इति किम्? स्ववान्॥

Siddhanta Kaumudi

ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥

Balamanorama

स्वामिन्नैश्वर्ये - स्वामिन्नैआर्ये । ‘ऐआर्ये’ इति प्रकृतिविशेषणमित्यभिप्रेत्याह — ऐआर्यवाचकादिति । आमिनजिति । ‘निपात्यते’ इति शेषः । स्वामीति । स्वम्ैआर्यं, तद्वानित्यर्थः । नियन्तेति यावत् । ऐआर्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति ।

Tattvabodhini

स्वामिन्नैश्वर्ये - स्वामिन्नैआर्ये । ऐआर्यवाचकादिति । स्वशब्दस्यैआर्यवाचित्वमेतद्वृत्तिविषयकमेवेति बोध्यम् । ईशिता हि ईआरः । स तु स्वामीत्युच्यते । यथा वागीश एव वाचस्पतिः वाचः स्वामिति । ऐआर्ये किम् । स्ववान् ।

Padamanjari

स्वशब्दादैश्वर्यवाचिन इति। अन्यत्रात्मात्मीयज्ञातिधानवचिनोऽपि स्वशब्दस्यैतद्वृत्तिविषये ऐश्वर्यवाचित्वं स्वभावतो भवति, तेन धनवान्निर्धनो वेशिता स्वामीत्युच्यते, न त्वयं धनवचनः। तथा च धनस्य स्वामीत्यपि भवति; अन्यथा मतुप आमिनचा बाधप्रसङ्गः। अन्यतरस्यांग्रहणेन मतुप्समुच्चयेऽपि धनस्य श्वामतिवद् धनस्य स्ववानित्यपि प्राप्नोति। तस्मादैस्वर्यवचनः स्वशब्दः, न धनादिवचन इति स्थितम्। धनयोगादैश्वर्यमित्यपि नास्ति; कवागादिविषयेऽपि दर्शनात् - वाचस्पतिः, वाचः स्वमीति; न च तत्र धनत्वप्रसिद्धिरस्ति ॥

Nyaas

एकाचः इति रसादिषु (5.2.94) पाठान्मतुपि प्राप्त इदमारभ्यते। ऐआर्यवाचिनः इति। धनवचनोऽयं स्वशब्द ऐआर्यवाची। तथा च-धनयोगादैआर्यं तदुच्यते।`स्ववान् इति। आत्मादावर्थान्तरे स्वशब्दो वर्तते॥

Prakriyasarvasvam

ऐश्वर्यवान् स्वामी ॥

Sutra Prayogas

  • स्वामी (शिशुपालवधम्): स्वामिन्नैश्वर्ये इति निपातः।

  • स्वामिनो (शिशुपालवधम्): स्वामिनैश्वर्ये इति निपातः।

  • स्वामि (शिशुपालवधम्): स्वामिन्नैश्वर्ये इति मत्वर्थीयनिपातः।

  • स्वामी (भट्टिकाव्यम्): स्वामित्रैश्वर्ये इति निपातितम्।