52125: आलजाटचौ बहुभाषिणि¶
Padacheda: आलच्-आटचौ | S | 1 | 2 |
बहुभाषिणि | S | 7 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थात् ‘वाच्’ शब्दात् ‘बहुभाषी’ एतमर्थम् दर्शयितुम् ‘आलच्’ तथा ‘आटच्’ प्रत्ययौ भवतः ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादत्वेन ‘वाच्’ शब्दात् वाचो ग्मिनिः (5.2.124) इत्यनेन ‘ग्मिनि’ प्रत्ययः भवति । परन्तु यत्र ‘बहुभाषी’ इति अर्थः अपेक्षते, तत्र एतम् ‘ग्मिनि’प्रत्ययं बाधित्वा वर्तमानसूत्रेण ‘आलच्’ तथा ‘आटच्’ एतौ प्रत्ययौ भवतः । यथा - बह्वी वाक् अस्य अस्ति सः वाचालः वाचाटः वा । वाच् + आलच् → वाचाल । वाच् + आटच् → वाचाट । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!कुत्सिते इति वक्तव्यम्!> । इत्युक्ते, यः कुत्सितम् बहु भाषते (speaks irrelevant / bad things a lot) तस्यैव निर्देशार्थम् ‘वाचाल’ तथा ‘वाचाट’ एतयोः प्रयोगः भवति । यः ‘सम्यक् बहु भाषते’, तस्य निर्देशार्थम् तु वाचो ग्मिनिः (5.2.124) इत्यनेन ‘ग्मिनि’ प्रत्ययः एव क्रियते । यथा - सम्यक् बहु भाषते सः वाग्ग्मी ।
Vasu English Summary¶
The affixes आलच् and आटच् come in the sense of मतुप् after वाच् , the word denoting ‘a talkative’.
Vasu English Translation¶
The affixes आलच् and आटच् come in the sense of मतुप् after वाच् , the word denoting ‘a talkative’. This debars ग्मिन् ॥ Thus वाचालः ‘garrulous’, वाचाटः ॥
Vart:- These affixes come when contempt is expressed. An orator (वाग्मी) also talks much, but to the purpose. He will not be called वाचालः or वाचाटः ॥
Bhashya¶
आलजाटचौ बहुभाषिणि(2143) (आलजाटच्प्रत्ययाधिकरणम्) (एकदेशिभाष्यम्) कुत्सित इति वक्तव्यम्। यो हि सम्यग्बहु भाषते वाग्मीत्येव स भवति। तत्तर्हि वक्तव्यम्॥ (समाधानभाष्यम्) न वक्तव्यम्। नानायोगकरणसार्मथ्यान्न भविष्यति॥
Kashika¶
वाच्शब्दात् प्रथमासमर्थादालच् आटच् इत्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिण्यभिधेये। ग्मिनेरपवादः। वाचालः। वाचाटः॥ कुत्सित इति वक्तव्यम्॥ यो हि सम्यग् बहु भाषते, वाग्ग्मीत्येव स भवति॥
Siddhanta Kaumudi¶
।<!कुत्सित इति वक्तव्यम् !> (वार्तिकम्) ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
Balamanorama¶
आलजाटचौ बहुभाषिणि - आलजाटचौ । वाच्शब्दात् — आलच्, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यं,यो हि सम्यग्बहु भाषते वाग्गमीत्येव स भवती॑ति भाष्यबलेन पूर्वसूत्रस्य सम्यग्बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः ।
Padamanjari¶
यो हि सम्यगग्भाषत इति। बपह्वपीति भावः ॥
Nyaas¶
कुत्सिते इति। वक्तव्यशब्दस्तु व्याख्याने वर्तत इत्यभिप्रायः। वक्तव्यम् इति। कुत्सितं यो बहुभाषते तत्रालजाटचौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पूर्वसूत्र एव कृतम्॥
Prakriyasarvasvam¶
वाचालः । वाचाटः ।<!कुत्सित इति वाच्यम्!> (वा०) सम्यग्भाषी वाग्म्येव ॥
Vartika¶
कुत्सित इति वक्तव्यम् ।
Sutra Prayogas¶
वाचालतया (शिशुपालवधम्): आलजाटचौ बहुभाषिणि इत्यालच् प्रत्ययः।
वाचाटे (भट्टिकाव्यम्): आलजाटचौ बहुभाषिणि इति बहुभाषिण्यर्थे आटच्-प्रत्ययः।