52127: अर्शआदिभ्योऽच्

Padacheda: अर्श-आदिभ्यः | S | 5 | 3 |

अच् | S | 1 | 1 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयो अर्शआदिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः अच्-प्रत्ययः भवति ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु ‘अर्शआदि’गणस्य विषये अस्य अपवादरूपेण अच्-प्रत्ययः भवति । अर्शआदिगणः अयम् - अर्शस्, उरस्, तुन्द, चतुर, पलित, जटा, घता, अभ्र, कर्दम, आम, लवण, स्वाङ्गाद्धीनात् (गणसूत्रम्), वर्णात् (गणसूत्रम्) । आकृतिगणोऽयम् । उदाहरणानि - 1. अर्शः (piles) अस्य सन्ति सः अर्शसः (अर्शस् + अच् → अर्शस) 3. उरः (chest / breast) अस्य अस्ति सः उरसः 4. तुन्दम् (protruded belly) अस्य अस्ति सः तुन्दः । आदयः । अत्र द्वे गणसूत्रे पाठिते स्तः - 1. स्वाङ्गात् हीनात् (गणसूत्रम्) - इत्युक्ते स्वस्य हीन-अङ्गवाचिभ्यः शब्देभ्यः (inferior state of a body organ) अच् प्रत्ययः भवति । यथा - खञ्जः (broken / lame / handicapped) पादः अस्य अस्ति सः खञ्जः , काणः चक्षुः अस्य अस्ति सः काणः - आदयः ।

  1. वर्णात् (गणसूत्रम्) - वर्णवाचकात् शब्दात् मतुबर्थयोः अच्-प्रत्ययः भवति । यथा - शुक्लः अस्य अस्मिन् वा अस्ति सः शुक्लः, कृष्णः अस्य अस्मिन् वा अस्ति सः कृष्णः ।

विशेषः - तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यत्र <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> इति किञ्चन वार्त्तिकम् पाठ्यते । अनेन वार्त्तिकेन गुणवाचिभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य लुक् भवति । यथा - शुक्लः अस्य अस्ति सः शुक्लः । अत्र तु प्रत्ययलुकं कृत्वा अपि ‘शुक्ल’ इत्येव शब्दः सिद्ध्यति । तर्हि अत्र पाठितस्य ‘वर्णात्’ गणसूत्रस्य किम् प्रयोजनम् - इति प्रश्नः जायते । अस्य समाधानम् एतादृशम् दीयते - प्रारम्भे गुणवाचिभ्यः शब्देभ्यः विहितस्य मतुप्-प्रत्ययस्य लुक्-कृत्वा यः शब्दः सिद्ध्यति, तस्मात् पुनः मतुबर्थे वर्तमानसूत्रेण अच्-प्रत्ययः भवति । यथा - ‘शुक्लः वर्णः यस्य प्रासादस्य सः प्रासादः अपि शुक्लः ( = शुक्ल + मतुँप् → शुक्ल) । अयम् शुक्लः (प्रासादः) अस्ति यस्मिन् नगरे तत् शुक्लम् नगरम् (शुक्ल + अच् → शुक्ल) । ज्ञातव्यम् - 1. अयम् ‘अर्शआदिगणः’ आकृतिगणः अस्ति । अनेके अन्ये शब्दाः शिष्टप्रयोगमनुसृत्य अस्मिन् गणे भवितुमर्हन्ति । 2. अस्मिन् गणे पाठितेभ्यः शब्देभ्यः अन्ये प्रत्ययाः अपि भवितुमर्हन्ति । यथा - ‘तुन्दः अस्य अस्ति’ इत्यत्र तुन्दादिभ्यः इलच् वा (5.2.117) इत्यनेन इलच्-प्रत्ययः अपि भवति, येन ‘तुन्दिल’ इति अपि रूपं सिद्ध्यति । 3. अस्य गणस्य नाम ‘अर्शआदि’ इति दत्तमस्ति । अत्र प्रक्रिया इयम् - अर्शः यस्य आदिः अस्ति सः [‘अर्शस्’ इति अस्य गणस्य प्रथमः शब्दः । अतः तस्य आधारेण अनेकमन्यपदार्थे (2.2.24) इत्यनेन अत्र बहुव्रीहिसमासः भवति] अर्शस् + आदि [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः (2.4.71) इति प्रत्यययोः लोपः । ] → अर्शरुँ + आदि [प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन लुप्त-सुँ-प्रत्ययेन प्राप्ता पदसंज्ञा ‘अर्शस्’ इत्यस्यापि भवति । अतः ससजुषोः रुँ (8.2.66) इति रुँत्वम् ] → अर्शय् + आदि [भोभगोअघोऽपूर्वस्य योऽशि (8.3.17) इति यकारादेशः] → अर्श + आदि [लोपः शाकल्यस्य (8.3.19) इति यकारलोपः] अग्रे असिद्धत्वात् सवर्णदीर्घम् न सम्भवति, अतः ‘अर्शआदि’ इत्येव गणस्य नाम ।

Vasu English Summary

The affix अच् comes in the sense of मतुप् after the words अर्श etc.

Vasu English Translation

The affix अच् comes in the sense of मतुप् after the words अर्श etc. Thus अर्शोसि अस्य विद्यन्ते = अर्शसः उरसः &c. ॥ After a word denoting a member of the body comes the affix अच्, when defect is meant. As खञ्जः पादोस्यास्ति = खञ्जः, काणः ॥ So also after words denoting color, as शुक्लोऽस्यास्ति = शुक्लः पटः ॥

1 अर्शस्, 2 उरस्, 3 तुन्द, 4 चतुर, 5 पलित, 6 जटा, 7 घटा, 8 घाटा, 9 अघ (अभ्र), 10 कर्दम, 11 अम्ल (आम), 12 लवण, 13 स्वाङ्गाद्धीनात्, 14 वर्णात् आकृतिगण ॥

Kashika

अर्शस् इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच् प्रत्ययो भवति मत्वर्थे। अर्शांसि अस्य विद्यन्त अर्शसः। उरसः। आकृतिगणश्चायम्। यत्राभिन्नरूपेण शब्देन तद्वतोऽभिधानं तत् सर्वमिह द्रष्टव्यम्॥ अर्शस्। उरस्। तुन्द। चतुर। पलित। जटा। घटा। अभ्र। कर्दम। आम। लवण। स्वाङ्गाद् हीनात् (ग०सू० १३७)। वर्णात् (ग०सू० १३८)। अर्शआदिः॥

Siddhanta Kaumudi

अर्शास्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥

Laghu Siddhanta Kaumudi

अर्शोऽस्य विद्यते अर्शसः। आकृतिगणोऽयम्॥

Balamanorama

अर्शआदिभ्योऽच् - अर्शाअदिभ्योऽच् । अर्शस्शब्द आदिरेषामिति विग्रहः । अर्शस इति । अर्शो — गुदरोगविशेषः ।

Tattvabodhini

अर्शआदिभ्योऽच् - अर्शाअदिभ्योऽच् । इहस्वाङ्गाद्धीना॑दिति । गणे पठते । खञ्जः पादोऽस्यास्तीति खञ्जः । कां चक्षुर्यस्यास्तीति काणः ।

Padamanjari

स्वाङ्गाद्धीनादिति। हीनमुविकलम्। हीनस्वाङ्गवाचिनोऽञ्भवति। खञ्जः पादोऽस्यास्तीति खञ्जः। काणं चक्षुरस्यास्तीति काणः। कथं कुणिर्हस्तोऽस्यास्ति कुणिरिति ? अभेदोपचारात्। खञ्जादिष्वपि तर्हि तथैव भविष्यति ? इदं तर्हि प्रयोजनम्-भेदविवक्षायां मतुब्मा भूदिति। अथ कुणिशब्दान्मतुप् कस्मान्न भवति ? अनभिधानात्। शञ्जादिभ्योऽपि तर्ह्यनभिधानादेव मतुब्न भविष्यति ? अन्तोदातार्थं तु। ये आद्यौदाता हीनस्वाङ्गवाचिनस्तेष्वन्तोदातत्वं यथा स्याद्, यदि सम्भवति। वर्णादिति। वर्णवाचिनः शुक्लशब्दादच्प्रत्ययो भवति-शुक्लोऽस्यास्तीति शुक्लः पटः।’गुणवचनेभ्यो मतुपो लुग्वक्तव्यः’ इति सिद्धम् ? अन्तोदातार्थं तु। ये आद्यौदाता वर्णवाचिनस्तेषु तद्वत्यन्तोदातत्वं यथा स्यात्। अपर आह - गुणिवचनेभ्योऽयं तद्वति प्रत्ययो विधीयते, तेन शुक्लाः प्रासादा अस्मिन्नगरे शुक्लं नगरमिति भवतीति ॥

Nyaas

यथासम्भवं मतुबादिष्वज्विधीयते। आकृतिगणश्चायम् इति। अवृत्कृतत्वात्। आदिशब्दश्चायं प्रकारे। स्वाङ्गाद्धीनात् इति। हीनस्वाङ्गवृत्तेः प्रातिपदिकादज्भवति - खञ्जः पादोऽस्तीति शुक्लम्। ननु च शुक्लशब्दो गुणवचनः, तत्राभेदोपचारेणाप्येतत्? सिध्यति? एवं तर्हि द्रव्यवृत्तेरपि वर्णवाचिनः प्रातिपदिकाद्यथा स्यादित्येवमर्थं वर्णग्रहणं कृतम्। शुक्लगुणयुक्ताः प्रासादाः शुक्लाः, तेऽस्मिन्? सन्ति शुक्लं नगरम्। प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारोऽर्शोऽस्यास्तीति स्वरितो वानुदात्तेऽपदादौ (8.2.6) इति स्वरितबाधनार्थः॥

Prakriyasarvasvam

‘अर्शसुरश्रतुरतुन्दपलिताभ्राम्ललवणादिभ्यः’ (स० ५-२-२१०) अर्शोऽ- स्यास्तीत्यर्शसः । शोभनोरस्क उरसः । चतुरः । तुन्दवांस्तुन्दः । पलितः । अभ्रयुक्तमभ्रं नभः । अम्लः । लवणः । आद्युक्तेर्बलवान् बलो नरः । पद्मवती पद्मा श्रीः । कमला । धिषणावान् धिषणो गुरुः । पृषद् बिन्दुः तद्वान् पृषतो मृगः । ‘जलौकस इत्यदन्तो जळूकार्थः’ इति टीकासर्वस्वे । कर्मधारयादच् । उच्चैर्भावोऽ- स्यास्तीत्युच्चः । नीचः । अव्ययत्वाद्विलोपः । ‘स्वाङ्गाद्धीनात् ।’ (स० ५-२-२११) काणं चक्षुरस्येति काणः । खञ्जः पादोऽस्येति खञ्जः । ‘वर्णाच्च’ (स० ५-२-२१२) । शुक्लः । कृष्णः । पूर्वं लुगुक्त्यैव सिद्धे स्वरभेदार्थमुक्तिः ॥

Sutra Prayogas

  • पीतप्रतिबद्धवत्सां (रघुवंशम्): अर्शआदिभ्योऽच् इत्यच्प्रत्ययः।

  • पद्मा (रघुवंशम्): अर्शआदिभ्योऽच् इत्यच्प्रत्ययः।

  • विदितः (किरातार्जुनीयम्): अर्शआदिभ्योऽच् इत्यच्प्रत्ययः।

  • कावादे (किरातार्जुनीयम्): अर्शआदिभ्योऽच् इति अच्प्रत्ययः।

  • वाणैः (किरातार्जुनीयम्): अर्शआदिभ्यः इत्यच्प्रत्ययः।

  • मुनिव्रताः (शिशुपालवधम्): अर्श-आदिभ्योऽच् इति मत्वर्थीयोऽच्प्रत्ययः।