52126: स्वामिन्नैश्वर्ये ======================== **Padacheda:** स्वामिन् | S | 1 | 1 | ऐश्वर्ये | S | 7 | 1 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ऐश्वर्ये गम्यमाने 'स्वामिन्' शब्दः निपात्यते ।** अनेन सूत्रेण 'स्वामिन्' इति शब्दः निपात्यते । 'ऐश्वर्य' (= ईश्वरत्वम् / प्रभुत्वम् / ownership) अस्मिन् अर्थे प्रयुज्यमानः यः 'स्व' शब्द', तस्मात् निपातनेन 'आमिन्' प्रत्ययं कृत्वा अस्य शब्दस्य निर्माणम् भवति । स्वम् (= ऐश्वर्यम्) अस्य अस्तिः सः = स्व + आमिन् → स्व् + आमिन् [**यस्येति च** (6.4.148) इति अकारलोपः] → स्वामिन् यस्य प्रभुत्वम् / ownership अस्ति, तस्य निर्देशः 'स्वामी' इत्यनेन क्रियते । यथा - धनस्य स्वामी, भूमेः स्वामी - आदयः । विशेषः - 'स्व' शब्दस्य 'ज्ञाति' (kinsmen / relatives) तथा धनम् - एतौ अन्यौ अर्थौ अपि स्तः । एतयोः अर्थयोः तु अस्मात् शब्दात् मतुँप्-प्रत्ययः एव भवति । यथा - स्वमस्य अस्ति सः स्ववान् । Vasu English Summary -------------------- The irregularly formed word स्वामिन् denotes 'Sir or Lord'. Vasu English Translation ------------------------ The irregularly formed word स्वामिन् denotes 'Sir or Lord'. The affix आमिन् comes in the sense of lordship after the word स्व ॥ Thus स्वमस्यास्ति = ऐश्वर्यमस्यास्ति = स्वामिन् ॥ Why do we say when meaning 'Sir'. Observe, स्ववान् ॥ Bhashya ------- स्वामिन्नैश्वर्ये (2144) (निपातनाधिकरणम्) (अतिव्याप्त्याक्षेपनिरासभाष्यम्) इह कस्मान्न भवति - स्वमस्य अस्तीति ? नैष दोषः। नायं प्रत्ययार्थः। किं तर्हि?। प्रकृतिविशेषणमेतत् - स्वामिन्नैश्वर्ये निपात्यते इति॥ Kashika ------- स्वामिन्निति निपात्यत ऐश्वर्ये गम्यमाने। स्वशब्दादैश्वर्यवाचिनो मत्वर्थ आमिन् प्रत्ययो निपात्यते। स्वमस्यास्तीति, ऐश्वर्यमस्यास्तीति स्वामी, स्वामिनौ, स्वामिनः। ऐश्वर्य इति किम्? स्ववान्॥ Siddhanta Kaumudi ----------------- ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥ Balamanorama ------------ **स्वामिन्नैश्वर्ये** - स्वामिन्नैआर्ये । 'ऐआर्ये' इति प्रकृतिविशेषणमित्यभिप्रेत्याह — ऐआर्यवाचकादिति । आमिनजिति । 'निपात्यते' इति शेषः । स्वामीति । स्वम्ैआर्यं, तद्वानित्यर्थः । नियन्तेति यावत् । ऐआर्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति । Tattvabodhini ------------- **स्वामिन्नैश्वर्ये** - स्वामिन्नैआर्ये । ऐआर्यवाचकादिति । स्वशब्दस्यैआर्यवाचित्वमेतद्वृत्तिविषयकमेवेति बोध्यम् । ईशिता हि ईआरः । स तु स्वामीत्युच्यते । यथा वागीश एव वाचस्पतिः वाचः स्वामिति । ऐआर्ये किम् । स्ववान् । Padamanjari ----------- स्वशब्दादैश्वर्यवाचिन इति। अन्यत्रात्मात्मीयज्ञातिधानवचिनोऽपि स्वशब्दस्यैतद्वृत्तिविषये ऐश्वर्यवाचित्वं स्वभावतो भवति, तेन धनवान्निर्धनो वेशिता स्वामीत्युच्यते, न त्वयं धनवचनः। तथा च धनस्य स्वामीत्यपि भवति; अन्यथा मतुप आमिनचा बाधप्रसङ्गः। अन्यतरस्यांग्रहणेन मतुप्समुच्चयेऽपि धनस्य श्वामतिवद् धनस्य स्ववानित्यपि प्राप्नोति। तस्मादैस्वर्यवचनः स्वशब्दः, न धनादिवचन इति स्थितम्। धनयोगादैश्वर्यमित्यपि नास्ति; कवागादिविषयेऽपि दर्शनात् - वाचस्पतिः, वाचः स्वमीति; न च तत्र धनत्वप्रसिद्धिरस्ति ॥ Nyaas ----- `एकाचः` इति रसादिषु (5.2.94) पाठान्मतुपि प्राप्त इदमारभ्यते। `ऐआर्यवाचिनः इति। धनवचनोऽयं स्वशब्द ऐआर्यवाची। तथा च-धनयोगादैआर्यं तदुच्यते।`स्ववान्` इति। आत्मादावर्थान्तरे स्वशब्दो वर्तते॥ Prakriyasarvasvam ----------------- ऐश्वर्यवान् स्वामी ॥ Sutra Prayogas -------------- * **स्वामी** (शिशुपालवधम्): `स्वामिन्नैश्वर्ये` इति निपातः। * **स्वामिनो** (शिशुपालवधम्): `स्वामिनैश्वर्ये` इति निपातः। * **स्वामि** (शिशुपालवधम्): `स्वामिन्नैश्वर्ये` इति मत्वर्थीयनिपातः। * **स्वामी** (भट्टिकाव्यम्): `स्वामित्रैश्वर्ये` इति निपातितम्।