52099: फेनादिलच् च ================== **Padacheda:** फेनात् | S | 5 | 1 | इलच् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'फेन' शब्दात् लच्, इलच् तथा मतुँप् प्रत्ययाः भवन्ति ।** प्रथमासमर्थात् फेन (= foam) अस्मात् शब्दात् मतुबर्थे (= तत् अस्य अस्ति / तत् अस्मिन् अस्ति एतयोः अर्थयोः) 'इलच्' प्रत्ययः अनेन सूत्रेण पाठ्यते । सूत्रे 'च' इति निर्दिश्यते, अतः पूर्वसूत्रात् 'लच्' तथा 'अन्यतरस्याम्' एतौ द्वौ शब्दौ अनुवर्तेते । इत्युक्ते, फेन-शब्दात् लच् तथा इलच् - द्वावपि विकल्पेन भवितुमर्हतः । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि भवति । यथा - 1. फेनः अस्य अस्ति सः = फेन + इलच् → फेनिल । 2. फेनः अस्य अस्ति सः = फेन + लच् → फेनल । 3. फेनः अस्य अस्ति सः = फेल + मतुँप् → फेनवत् । त्रयः अपि एते शब्दाः 'फेनक' (soap) अस्मिन् अर्थे प्रयुज्यन्ते । Vasu English Summary -------------------- The affixes इलच् and लच् come in the sense of मतुप् after the word फेन and optionally after the affix मतुप् also. Vasu English Translation ------------------------ The affixes इलच् and लच् come in the sense of मतुप् after the word फेन and optionally after the affix मतुप् also. The word च् draws in लच्; and the word अन्यतरस्याम् understood in the *sutra* adds मतुप् in the alternative. As फेनिलः, फेनलः and फेनवान् ॥ Kashika ------- फेनशब्दादिलच् प्रत्ययो भवति मत्वर्थे, चकारात् लच्च। अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थं सर्वत्रैवानुवर्तते। फेनिलः, फेनलः, फेनवान्॥ Siddhanta Kaumudi ----------------- चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥ Balamanorama ------------ **फेनादिलच् च** - फेनादिलच्च । 'मत्वर्थ' इति शेषः । चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह — अन्यतरस्यांग्रहणमिति । सिघ्मादिसूत्रे व्याख्यातमिदम् । Prakriyasarvasvam ----------------- फेनिलः फेनलः फेनवान् ।। Sutra Prayogas -------------- * **फेनिलम्** (रघुवंशम्): `फेनादिलच` इतीलच्प्रत्ययः।