52090: अनुपद्यन्वेष्टा ====================== **Padacheda:** अनुपदी | S | 1 | 1 | अन्वेष्टा | S | 1 | 1 | Sutrartha --------- **'अन्वेष्टा' अस्मिन् अर्थे 'अनुपदी' शब्दः निपात्यते ।** अन्वेषणम् करोति सः अन्वेष्टा (detective इत्याशयः) । अस्मिन् अर्थे 'अनुपदी' इति शब्दः निपात्यते । यथा - अ) गवामनुपदी - गवामन्वेषणम् करोति सः । (One who searches for cows) आ) उष्ट्राणामनुपदी - उष्ट्राणामन्वेषणम् करोति सः । विशेषः - 'अनुपदी' शब्दस्य निर्माणम् 'अनुपद' इत्यस्मात् शब्दात् 'इनि' प्रत्ययं कृत्वा क्रियते । अनुपद + इन् → अनुपदिन् । 'अनुपद' इति शब्दः 'पदस्य पश्चात्' इति अव्ययीभावसमासेन जायते ; अतः अनेन निर्मितः 'अनुपदी' शब्दः 'पदस्य पश्चात्' (= by following the footprints) इत्यस्मिन्नेव सन्दर्भे प्रयुज्यते । इत्युक्ते, पदचिह्नान् दृष्ट्वा यः अन्वेषणम् करोति (One who searches for say cows using their footprints - rather than by following their sound) तस्य निर्देशः 'अनुपदी' इत्यनेन भवति । Vasu English Summary -------------------- The word अनुपदिन् formed anomalously by इनि denotes 'who goes after, who searches'. Vasu English Translation ------------------------ The word अनुपदिन् formed anomalously by इनि denotes 'who goes after, who searches'. Thus अनुपदी गवाम, अनुपदी उष्ट्राणाम् "going after or searching the cows and camels". Kashika ------- अनुपदीति निपात्यतेऽन्वेष्टा चेत् स भवति। पदस्य पश्चादनुपदम्। अनुपदी गवाम्॥ अनुपदी उष्ट्राणाम्॥ Siddhanta Kaumudi ----------------- अनुपदमन्वेष्टा अनुपदी गवाम् ॥ Balamanorama ------------ **अनुपद्यन्वेष्टा** - अनुपद्यन्वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुपदमित्यस्मादन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते । Tattvabodhini ------------- **अनुपद्यन्वेष्टा** - अनुपद्यन्वेष्टा । अन्वेष्टरि इनिः प्रत्ययो निपात्यते । अनुपदमिति । पदस्य पश्चात् । पश्चादर्थेऽव्ययीभावः । अनुपदीगवामिति । पदापेक्षया षष्ठी गोपदात् । पश्चादन्वेषणं गवामेव । तेन हिरण्यादावन्येष्ये न भवतीति हरदत्तः । Padamanjari ----------- पदस्य पश्चादनुपदम्, पश्चादर्थेऽव्ययीभावः, अन्वेष्टरीनिप्रत्ययो निपात्यते। अनुपदी गवाभिति। पदापेक्षया षष्ठी, गोपदस्य पश्चादन्वेषणं गवामेव, हिरण्यादावन्वेष्ये न भवति; पदाभावात्। यदि त्वन्वेष्टशब्दात्स्वार्थे इनिप्रत्ययः, एष्ट्ःअशब्दस्य च पदशब्द आदेसो निपात्येत; यदि वा - श्रोत्रियवदविद्यमानप्रकृतिप्रत्यमन्वेष्टरि निपात्येत, ततो गवामिति षष्ठी न प्राप्नोतिकृतपूर्वी कटम्, अनुको भार्यामभिको दासीमितिवत् द्वितीया प्राप्नोति; हिरण्यादौ चान्वेष्ये - अनुपदी हिरण्यमिति। तस्माद्यथोक्तमेव साधीयः ॥ Nyaas ----- `अनुपदी` इति। पश्चात्? पदस्यानुपदम्, पश्चादर्थेऽव्ययीभावः। तस्मादिनिप्रत्ययो निपात्यते॥ Prakriyasarvasvam ----------------- पदचिह्नं दृष्ट्वान्वेष्टा अनुपदी । तेन हिरण्याद्यन्वेष्टरि न । स्वामी त्वन्वेष्टानुपदी समावित्याह ॥