52083: कुल्माषादञ् ================== **Padacheda:** कुल्माषात् | S | 5 | 1 | अञ् | S | 1 | 1 | Sutrartha --------- **'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् 'कुल्माष'शब्दात् संज्ञायाः निर्देशार्थमञ् -प्रत्ययः भवति ।** 'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् **तदस्मिन्नन्नं प्राये संज्ञायाम्** (5.2.82) अनेन सूत्रेण औत्सर्गिकरूपेण कन्-प्रत्यये विहिते 'कुल्माष'(a certain type of grain) शब्दात् अस्य अपवादरूपेण 'अञ्' प्रत्ययः भवति । कुल्माषाः प्रायेण अन्नमस्याम् पौर्णमास्याम्, सा कौल्माषी पौर्णमासी । प्रक्रिया इयम् - कुल्माष + अञ् → कौल्माष + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → कौल्माष् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → कौल्माष → कौल्माष + ङीप् [स्त्रीत्वे विवक्षिते **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्] → कौल्माष् + ई [**यस्येति च** (6.4.148) इति अकारलोपः] → कौल्माषी Vasu English Summary -------------------- The affix अण् comes in the sense of 'this is the principal food on this particular occasion' after the word कुल्माष when the whole word is a Name. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'this is the principal food on this particular occasion' after the word कुल्माष when the whole word is a Name. The ञ् of अञ् is for the sake of causing *Vriddhi* and accent. Thus कुल्माषाः प्रायेणान्नमस्यां = कौल्माषी पौर्णमासी ॥ Kashika ------- कुल्माषशब्दादञ् प्रत्ययो भवति तदस्मिन्नन्नं प्राये संज्ञायामित्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेणान्नमस्यां कौल्माषी पौर्णमासी॥ Siddhanta Kaumudi ----------------- कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥ Balamanorama ------------ **कुल्माषादञ्** - कुल्माषादञ् । कनोऽपवादः ।स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॑ इत्यमरः । Padamanjari ----------- कुल्माषाःउमुद्गाः ॥ Nyaas ----- संज्ञाग्रहणेन पूर्वेण कनः प्राप्तावसत्यां वाक्येनाभिधाने प्राप्ते मत्वर्थीये मतुबादाविदमुच्यते। `व्कौल्माणी` इति। `टिड्ढाणञ्` (4.1.15) इति ङीप्॥ Prakriyasarvasvam ----------------- कुल्मासो माष इति रामः । मुद्ग इति हरः । तत्प्रायान्ना कौल्मासी । तिथिः ॥