52082: तदस्मिन्नन्नं प्राये संज्ञायाम् ====================================== **Padacheda:** तत् | S | 1 | 1 | अस्मिन् | S | 7 | 1 | अन्नम् | S | 1 | 1 | प्राये | S | 7 | 1 | संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति ।** अस्य सूत्रस्य प्रयोगः भिन्नानाम् पौर्णमासीनाम् संज्ञानाम् निर्देशार्थम् भवति । कानिचानि उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् - अ) कस्यांश्चित् पौर्णमास्याम् 'गुडमिश्रिताः अपूपाः' प्राधान्येन पच्यन्ते - इति चिन्तयामः । Sweet pakoras are prepared specifically to celebrate a certain full-moon day. अस्यां स्थितौ - अस्यां पौर्णमास्याम् गुडापूपाः (= गुडमिश्रिताः अपूपाः प्रायेण (= प्रामुख्येन / बाहुल्येन) विद्यन्ते' इति प्रयोगः भवति । अस्मिन्नेव सन्दर्भे अस्याः पौर्णमास्याः निर्देशः 'गुडापूप + कन् → गुडापूपिका' इत्यनेन भवति । प्रक्रिया इयम् - गुडापूप + कन् → गुडापूपक → गुडापूपक + टाप् [स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.14) इति टाप्] → गुडापूपिका [**प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः** (7.3.44) इति इकारः] गुडापूपाः प्रायेण अन्नमस्यां पौर्णमास्याम् सा गुडापूपिका पौर्णमासी । आ) यस्याम् पौर्णमास्याम् तिलापूपाः (= तिलस्य अपूपाः) प्रायेण अन्नम्, सा तिलापूपिका पौर्णमासी । अत्र एकम् वार्त्तिकम् ज्ञेयम् - । यस्यां पौर्णमास्याम् वटकाः (A type of parkoras made from grams) प्रायेण अन्नम्, सा वटकिनी पौर्णमासी । वटक + इनि → वटकिन् इति अत्र प्रातिपदिकम् । विशेषः - गुडापूपिका, तिलापूपिका, वटकिनी - एतानि पौर्णमास्याः विशिष्टानि नामानि पाणिनेः काले विद्यमानानि आसन् । एतेषाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति । अद्यतन काले अपि भिन्नासु प्रादेशिकभाषासु एतादृशाः शब्दाः विद्यन्ते एव । यथा - श्रावणमासस्य पौर्णमास्याः अपरम् नाम मराठीभाषायाम् 'नारळीपौर्णिमा' इति वर्तते ; अयम् निर्देशः 'नारिकेलस्य ओदनम् प्रायेण अन्नमस्यां पौर्णमास्याम्' इत्यस्मिन् अर्थे कृतः अस्ति । Vasu English Summary -------------------- The affix कन् comes in the sense of 'this is the principal food of this particular occasion' after a word denoting food in the Nominative 1st-Case in construction, when the whole word so formed is a Name. Vasu English Translation ------------------------ The affix कन् comes in the sense of 'this is the principal food of this particular occasion' after a word denoting food in the Nominative 1st-Case in construction, when the whole word so formed is a Name. Thus गुडापूपाः प्रायेणान्नमस्या पौर्णमास्यां = गुडापूपिका पौर्णमासी "The *Gudapupika* - *Paurnmasi*" i. e that particular Full- Moon day in which cakes of sugar form the principal accompaniment of food. Similarly तिलापूपिका, कृशरिका, त्रिपुटिका &c. Vart:- The affix इनि comes after वटक in the same sense. As वटकिनी पौर्णमासी ॥ Bhashya ------- तदस्मिन्नन्नं प्राये संज्ञायाम् (2100) (5751 उपसंख्यानवार्तिकम्॥ 1 ॥) - प्राये संज्ञायां वटकेभ्य इनिः - (भाष्यम्) प्राये संज्ञायां वटकेभ्य इनिर्वक्तव्यः। वटकिनी पौर्णमासी॥ Kashika ------- तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थमन्नं चेत् प्रायविषयं तद् भवति। प्रायो बाहुल्यम्। संज्ञाग्रहणं तदन्तोपाधिः। गुडापूपाः प्रायेणान्नमस्यां पौर्णमास्यां गुडापूपिका। तिलापूपिका पौर्णमासी॥ वटकेभ्य इनिर्वक्तव्यः॥ वटकिनी पौर्णमासी॥ Siddhanta Kaumudi ----------------- प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी । (वार्तिकम्) ॥ वटकिनी ॥ Balamanorama ------------ **तदस्मिन्नन्नं प्राये संज्ञायाम्** - तदस्मिन्नन्नं । प्रथमान्तादन्नवाचकादस्मिन्नित्यर्थे कन् स्यादन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः । वटकेभ्य इति । संज्ञायामित्येव वटकिनीति । वटकाः प्रायेण अन्नमस्यां प्रौर्णमास्यामिति विग्रहः । Padamanjari ----------- अन्नमुअब्यवहार्यम्, अद्यते स्मेति कृत्वा। गुकडामिश्रा अपूपा गुडापूपाःउकृसरस्तिलौदनः, तिलक्षोद इत्यन्ये। त्रैबिलोऽपूपस्त्रिपुटः। वटकेभ्य इनि रिति। कनि प्राप्ते वचनम्। ननु संज्ञाग्रहणात्कन्न भविष्यति, तस्मिंश्चासति मत्वर्थीय इनिर्भविष्यति ? न सिद्धयति;'सप्तम्यां च न तं स्मृतौ' इति वचनात् ॥ Nyaas ----- `अन्नं चेत्प्रायविषयम्` इति। प्रायो विषयो यस्य तत्तथोक्तम्। विषयग्रहणे `प्राये` इति सप्तम्या विषयसप्तमीत्वं दर्शयि। `प्रत्ययो भवति` इति। अन्यथा गुडापूपाः प्रायेणान्नमिति ववक्षायाः कारकाणि भवन्तीतिप्रायस्य विषयभूतस्य करणत्वेन विवक्षितत्वात् तृतीया। `गुडापूपिका` इति `प्रत्ययस्थात् कात् पूर्वस्यातः` (7.3.44) इतीत्त्वम्।`वटकेभ्य इनिर्वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इह संज्ञाग्रहणस्य प्रत्ययान्तोपाधिकत्वाद्यत्र प्रत्ययान्तं संज्ञा भवति तत्र प्रत्ययेन भवितव्यम्। न च वटकशब्दः कन्प्रत्ययान्तः कस्यचित् संज्ञा, तेन ततः कन् न भविंष्यति तर्स्मिश्चासति मत्वर्थीय इनिर्भविष्यतीति। `वटकिनो` इति। `ऋम्नेभ्यो ङीप्` (4.1.5) ॥ Prakriyasarvasvam ----------------- तदन्नमस्मिन्नित्यर्थे प्राये द्योत्ये नाम्नि कन् । गुडापूपाः प्रायेणान्नस्यामिति गुडापूपिका पौर्णमासी । ‘वटकादिनिर्वाच्यः’ (वा०) । वटकाख्या अपूपाः प्रायेणान्नस्यामिति वटकिनी तिथिः ॥ Vartika ------- वटकेभ्य इनिर्वक्तव्यः ।