52079: शृङ्खलमस्य बन्धनं करभे

Padacheda: शृङ्खलम् | S | 1 | 1 |

अस्य | S | 6 | 1 |

बन्धनम् | S | 1 | 1 |

करभे | S | 7 | 1 |

Sutrartha

‘अस्य बन्धनम्’ अस्मिन् अर्थे करभस्य निर्देशं कर्तुम् ‘शृङ्खल’ शब्दात् प्रथमासमर्थात् कन्-प्रत्ययः भवति ।

‘करभः’ इत्युक्ते उष्ट्रस्य शिशुः (baby camel) । यदि कश्चम करभः शृङ्खलेन बद्धः अस्ति (A baby camel which has been tied with a chain / wooden rod - most commonly around the feet region - so that it cannot move freely), तर्हि तस्य निर्देशार्थम् ‘शृङ्खल’शब्दात् ‘कन्’ प्रत्ययः भवति । शृङ्खल + कन् → शृङ्खलक । शृङ्खलम् बन्धनमस्य करभस्य सः शृङ्खलकः करभः । स्मर्तव्यम् - गजस्य शुण्डः अपि ‘करभः’ नाम्ना ज्ञायते । परन्तु तस्य निर्देशः अस्मिन् सूत्रे न कृतः अस्ति । अत्र केवलमुष्ट्रस्य शिशूनाम् विषये एव उक्तमस्ति ।

Vasu English Summary

The affix कन् comes in the sense of ‘clog is its fetter’ after the word शृङ्खल ‘a clog’ when the whole word means ‘a young camel’.

Vasu English Translation

The affix कन् comes in the sense of ‘clog is its fetter’ after the word शृङ्खल ‘a clog’ when the whole word means ‘a young camel’. Thus शृंखलं बन्धनमस्य करभस्य = शृंखलकः ॥ The young ones of camel are called करभ ॥ The wooden clogs put on their feet to prevent them from straying are called शृंखल ॥ Though the ropes &c are also used along with the clog, yet srinkhala being the principal object that takes away the freedom is called बन्धन or bond or fetter.

Bhashya

शृङ्खलमस्य बन्धनं करभे (2095) (5749 निर्देशाक्षेपवार्तिकम्॥1॥) शृङ्खलमस्य बन्धनं करभ इत्यनिर्देशः॥ शृङ्खलमस्य बन्धनं करभे इत्यनिर्देशः। अगमको निर्देशोऽनिर्देशः । न हि तस्य शृङ्खलं बन्धनम्, शृङ्खवत्याऽसौ रज्ज्वा बध्यते॥ (5750 समाधानवार्तिकम्॥2॥) सिद्धं तु तद्विन्निर्देशाल्लुक् च ॥ सिद्धमेतत्। कथम् ? तद्वन्निर्देशः कर्तव्यः, लुक् च वक्तव्यः - शृङ्खलवद्वन्धनमिति। तद्वन्निर्देशः कर्तव्यः, लुक् च वक्तव्यः - शृङ्खलवद्वन्धनमिति। स तर्हि तद्वन्निर्देशः कर्तव्यः। न कर्तव्यः । इह यन्नान्तरेण यस्य प्रवृत्तिर्भवति तत्तस्य निमित्तत्वाय कल्पते। न चान्तरेण शृङ्खलं बन्धनं प्रवर्तते। अथवा साहचर्यात्ताच्छब्द्यं भविष्यति - शृङ्खलसहचरितं बन्धनं शृङ्खलं बन्धनमिति॥

Kashika

शृङ्खलशब्दात् प्रथमासमर्थादस्येति षष्ठ्यर्थे कन् प्रत्ययो भवति। यत् तत् प्रथमासमर्थं बन्धनं चेत् तद् भवति, यत् तदस्येति निर्दिष्टं करभश्चेत् स भवति। शृङ्खलं बन्धनमस्य करभस्य शृङ्खलकः। उष्ट्राणां बालकाः करभाः। तेषां काष्ठमयं पाशकं पादे व्यतिषज्यते, तदुच्यते शृङ्खलमिति। यद्यपि रज्ज्वादिकमपि तत्रास्ति तथापि शृङ्खलमस्यास्वतन्त्रीकरणे भवति साधनमिति बन्धनमित्युच्यते॥

Siddhanta Kaumudi

शृङ्खलकः करभः ॥

Tattvabodhini

शृङ्खलमस्य बन्धनं करभे - स एषां ग्रामणीः ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । करभ इति । उष्ट्रबालकः ।

Padamanjari

ननु न शृङ्खलमात्रेण करभो बद्धयते, किं तहि ? रज्ज्वा, कीलेन च, तस्माच्छ्ःअङ्कलमस्य बन्धनमिति न युक्तं वक्तुम्, एवं तु वक्तव्यम् - ठ्शृङ्खलवदस्य सम्बनधनं करभे कुक्च मतोः इति ? तत्राह - यद्यपीति। अस्तु रज्ज्वादेरपि करणत्वम्, शृङ्खलस्यापि करणत्वमस्त्वेव; तदन्तरेण बन्धनस्यानिर्वृतेरित्यर्थः ॥

Nyaas

ननु च न शृङ्खलमात्रेण करभो बध्यते, किं तर्हि? रज्जवादिकेन च, तत्कथं शृङ्खलं बन्धनमुच्यते? इत्याह - यद्यपि इत्यादि। यद्यपि तत्र रज्ज्वादिकमप्यपरमस्ति, तथापि शृङ्खलमस्य तन्त्रीकरणं प्रति साधनं भवत्येव, न हि तेन तद्भवति। ततः शृङ्खलं बन्धनमुच्यते। रज्ज्वादिकमपि यदि बन्धनं भवति, भवतु! न ह्यत्रावधार्यते - शृङ्खलमेवेति॥

Prakriyasarvasvam

उभयतो रज्जुमद् दारुमयं पादबन्धनं शृङ्खलम् । तत् बन्धसाधनमस्येत्यर्थे बालोष्ट्रे वाच्ये कन् शृङ्खलकः करभः ॥