52080: उत्क उन्मनाः =================== **Padacheda:** उत्कः | S | 1 | 1 | उन्मनाः | S | 1 | 1 | Sutrartha --------- **'उन्मनाः' अस्मिन् अर्थे 'उत्कः' अयम् शब्दः निपात्यते ।** उद्गतम् मनः यस्य सः उन्मनाः । यस्य मनः नित्यम् विचलितमस्ति, सः (The one whose mind continuously wonders) तस्य निर्देशार्थमनेन सूत्रेण 'उत्क' इति शब्दः निपात्यते । 'उत्सुकः', 'उत्कण्ठितः' (curious / eager) एतयोः अर्थयोः अपि अयम् शब्दः प्रयुज्यते । यथा - उत्कः देवदत्तः, उत्कः प्रवासी - आदयः । व्याख्यानैः 'उत्' इत्यस्मात् उपसर्गात् 'तद्वान्' (= उद्गतम् मनः अस्य सः / One having the a wandering mind) अस्मिन् अर्थे 'कन्' प्रत्ययं कृत्वा अयम् शब्दः निपात्यते । उत् + कन् → उत्क । Vasu English Summary -------------------- The word उत्क is anomalous meaning 'longing after, yearning'. Vasu English Translation ------------------------ The word उत्क is anomalous meaning 'longing after, yearning'. He whose mind anxiously desires or yearns after a thing is called उन्मनः ॥ The word उत्कः is formed by adding कन् to the preposition उद्. Thus उत्को देवदत्तः, उत्कः प्रवासी = उत्सुकः or उत्कण्ठितः ॥ Kashika ------- उत्क इति निपात्यते, उन्मनाश्चेत् स भवति। उद्गतं मनो यस्य स उन्मनाः। उच्छब्दात् ससाधनक्रियावचनात् तद्वति कन् प्रत्ययो निपात्यते। उत्को देवदत्तः। उत्कः प्रवासी। उत्सुक इत्यर्थः॥ Siddhanta Kaumudi ----------------- उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥ Balamanorama ------------ **उत्क उन्मनाः** - उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्टितवृत्तेरित्यर्थः । Padamanjari ----------- उच्छब्दात्ससाधनक्रियावचनादिति। साधनमुमनः, क्रियाउगमनम्, उद्रते मनसि वर्तमानादित्यर्थः। यद्वतीति। उद्गतं मनो यस्य तस्मिन्नित्यर्थः। उत्सुकःऊत्कण्ठितः ॥ Nyaas ----- `ससाधनक्रियावचनात्` इति। साधनम्=मनः; क्रिया=गमनम्; सह तेन गमनक्रिया। तद्वचनात्? ससाधने गमने वर्तमानादित्यर्थः। `तद्वति` इति। तच्छब्देन क्रिया प्रत्यवमृश्यते। ससाधनक्रियावतीत्यर्थः। `उत्सुकः` इति। उत्कष्टित इत्यर्थः॥ Sutra Prayogas -------------- * **उत्कं** (शिशुपालवधम्): `उत्क उन्मनाः` इति निपातः।