52078: स एषां ग्रामणीः

Padacheda: सः | S | 1 | 1 |

एषाम् | S | 6 | 3 |

ग्रामणीः | S | 1 | 1 |

Sutrartha

‘ग्रामणीः’ इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रथमासमर्थात् ‘एषाम्’ इत्यस्मिन् अर्थे कन् प्रत्ययः भवति ।

‘ग्रामणीः’ इत्युक्ते ‘ग्रामस्य प्रमुखः / प्रधानः’ (The head of a village). कस्यचन ग्रामस्य जनानाम् वर्णनम् तेषाम् प्रमुखस्य नाम्ना कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा, ‘एतेषाम् सर्वेषाम् जनानाम् ग्रामणीः देवदत्तः अस्ति’ इत्यत्र सर्वेषाम् जनानाम् निर्देशार्थम् ‘देवदत्त’शब्दात् कन् प्रत्ययः भवति । देवदत्त + कन् → देवदत्तक । देवदत्तः ग्रामणीः येषाम् ते देवदत्तकाः । तथैव - 1. ब्रह्मदत्तः ग्रामणीः येषाम् ते ब्रह्मदत्तकाः । 2. त्वम् ग्रामणीः असि येषाम् ते त्वत्काः । प्रक्रिया इयम् - युष्मद् + क → त्वद् + क [प्रत्ययोत्तरपदयोश्च (7.2.98) इत्यनेन ‘युष्म’ इत्यस्य ‘त्व’ आदेशः] → त्वत् + क [खरि च (8.4.55) इति चर्त्वम्] → त्वत्क । 3. अहम् ग्रामणीः अस्मि येषाम् ते मत्काः । प्रक्रिया इयम् - अस्मद् + क → मद् + क [प्रत्ययोत्तरपदयोश्च (7.2.98) इत्यनेन ‘युष्म’ इत्यस्य ‘त्व’ आदेशः] → मत् + क [खरि च (8.4.55) इति चर्त्वम्] → मत्क ।

Vasu English Summary

The affix कन् comes in the sense of ‘he is their leader’ after a word in the Nominative 1st-Case with the force of Genitive 6th-Case.

Vasu English Translation

The affix कन् comes in the sense of ‘he is their leader’ after a word in the Nominative 1st-Case with the force of Genitive 6th-Case. The word ग्रामणी means ‘head-man, leader, spokes-man’. Thus देवदत्तो ग्रामणीरेषां = देवदत्तकाः, यज्ञदत्तकाः ॥

Why do we say ‘when meaning a leader’? Witness देवदत्तः शत्रुरेषाम् ॥ Here there is no affixing.

Kashika

स इति प्रथमासमर्थादेषामिति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं ग्रामणीश्चेत् स भवति। ग्रामणीः प्रधानो मुख्य इत्यर्थः। देवदत्तो ग्रामणीरेषां देवदत्तकाः। यज्ञदत्तकाः। ग्रामणीरिति किम्? देवदत्तः शत्रुरेषाम्॥

Siddhanta Kaumudi

देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥

Balamanorama

स एषां ग्रामणीः - स एषा ग्रामणीः । ग्रामणीविशेषवाचकाच्छब्दात्प्रथमान्तादस्येत्यर्थे कन्स्यादित्यर्थः । देवदत्तो मुख्य एषामिति । एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । त्वत्काः मत्का इति । त्वमहं वा मुख्य एषामिति विग्रहः ।प्रत्ययोत्तरपदयोश्चे॑ति त्वमौ शृङ्खलमस्य । करभ इति । षष्ठर्थे सप्तमी ।बन्धन॑मिति करणे ल्युट् । अस्य करभस्य शृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणाच्छृङ्खलशब्दात्प्रथमान्तादस्य करभस्येत्यर्थे कन्स्यादित्यर्थः । शृङ्खलक इति । शृङ्खलेन बद्ध इति यावत् । करभः=बाल उष्ट्रः ।

Padamanjari

इह त्वत्को मत्को वा विजय इत्यादावनेन कन्। त्वं ग्रामणीरस्य त्वत्कः, अहं ग्रामणीरस्य मत्कः। प्रायेण त्विदमर्थमात्रे प्रयुज्यते ॥

Prakriyasarvasvam

स एषां नाथ इत्यर्थे कन् । कृष्णका यदवः । मन्नाथं मत्कम् । त्वत्कम् । प्रायेण तु तस्येदमित्यर्थमात्रे प्रयुञ्जत इति हरः । मत्का वाक् ॥

Sutra Prayogas

  • मत्कम् (भट्टिकाव्यम्): स एषां ग्रामणीः इति अस्मच्छब्दात् कन्।

  • त्वत्-का (भट्टिकाव्यम्): स एषां ग्रामणीः इति कन् ।