52079: शृङ्खलमस्य बन्धनं करभे ============================= **Padacheda:** शृङ्खलम् | S | 1 | 1 | अस्य | S | 6 | 1 | बन्धनम् | S | 1 | 1 | करभे | S | 7 | 1 | Sutrartha --------- **'अस्य बन्धनम्' अस्मिन् अर्थे करभस्य निर्देशं कर्तुम् 'शृङ्खल' शब्दात् प्रथमासमर्थात् कन्-प्रत्ययः भवति ।** 'करभः' इत्युक्ते उष्ट्रस्य शिशुः (baby camel) । यदि कश्चम करभः शृङ्खलेन बद्धः अस्ति (A baby camel which has been tied with a chain / wooden rod - most commonly around the feet region - so that it cannot move freely), तर्हि तस्य निर्देशार्थम् 'शृङ्खल'शब्दात् 'कन्' प्रत्ययः भवति । शृङ्खल + कन् → शृङ्खलक । शृङ्खलम् बन्धनमस्य करभस्य सः शृङ्खलकः करभः । स्मर्तव्यम् - गजस्य शुण्डः अपि 'करभः' नाम्ना ज्ञायते । परन्तु तस्य निर्देशः अस्मिन् सूत्रे न कृतः अस्ति । अत्र केवलमुष्ट्रस्य शिशूनाम् विषये एव उक्तमस्ति । Vasu English Summary -------------------- The affix कन् comes in the sense of 'clog is its fetter' after the word शृङ्खल 'a clog' when the whole word means 'a young camel'. Vasu English Translation ------------------------ The affix कन् comes in the sense of 'clog is its fetter' after the word शृङ्खल 'a clog' when the whole word means 'a young camel'. Thus शृंखलं बन्धनमस्य करभस्य = शृंखलकः ॥ The young ones of camel are called करभ ॥ The wooden clogs put on their feet to prevent them from straying are called शृंखल ॥ Though the ropes &c are also used along with the clog, yet *srinkhala* being the principal object that takes away the freedom is called बन्धन or bond or fetter. Bhashya ------- शृङ्खलमस्य बन्धनं करभे (2095) (5749 निर्देशाक्षेपवार्तिकम्॥1॥) शृङ्खलमस्य बन्धनं करभ इत्यनिर्देशः॥ शृङ्खलमस्य बन्धनं करभे इत्यनिर्देशः। अगमको निर्देशोऽनिर्देशः । न हि तस्य शृङ्खलं बन्धनम्, शृङ्खवत्याऽसौ रज्ज्वा बध्यते॥ (5750 समाधानवार्तिकम्॥2॥) सिद्धं तु तद्विन्निर्देशाल्लुक् च ॥ सिद्धमेतत्। कथम् ? तद्वन्निर्देशः कर्तव्यः, लुक् च वक्तव्यः - शृङ्खलवद्वन्धनमिति। तद्वन्निर्देशः कर्तव्यः, लुक् च वक्तव्यः - शृङ्खलवद्वन्धनमिति। स तर्हि तद्वन्निर्देशः कर्तव्यः। न कर्तव्यः । इह यन्नान्तरेण यस्य प्रवृत्तिर्भवति तत्तस्य निमित्तत्वाय कल्पते। न चान्तरेण शृङ्खलं बन्धनं प्रवर्तते। अथवा साहचर्यात्ताच्छब्द्यं भविष्यति - शृङ्खलसहचरितं बन्धनं शृङ्खलं बन्धनमिति॥ Kashika ------- शृङ्खलशब्दात् प्रथमासमर्थादस्येति षष्ठ्यर्थे कन् प्रत्ययो भवति। यत् तत् प्रथमासमर्थं बन्धनं चेत् तद् भवति, यत् तदस्येति निर्दिष्टं करभश्चेत् स भवति। शृङ्खलं बन्धनमस्य करभस्य शृङ्खलकः। उष्ट्राणां बालकाः करभाः। तेषां काष्ठमयं पाशकं पादे व्यतिषज्यते, तदुच्यते शृङ्खलमिति। यद्यपि रज्ज्वादिकमपि तत्रास्ति तथापि शृङ्खलमस्यास्वतन्त्रीकरणे भवति साधनमिति बन्धनमित्युच्यते॥ Siddhanta Kaumudi ----------------- शृङ्खलकः करभः ॥ Tattvabodhini ------------- **शृङ्खलमस्य बन्धनं करभे** - स एषां ग्रामणीः ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । करभ इति । उष्ट्रबालकः । Padamanjari ----------- ननु न शृङ्खलमात्रेण करभो बद्धयते, किं तहि ? रज्ज्वा, कीलेन च, तस्माच्छ्ःअङ्कलमस्य बन्धनमिति न युक्तं वक्तुम्, एवं तु वक्तव्यम् - ठ्शृङ्खलवदस्य सम्बनधनं करभे कुक्च मतोः इति ? तत्राह - यद्यपीति। अस्तु रज्ज्वादेरपि करणत्वम्, शृङ्खलस्यापि करणत्वमस्त्वेव; तदन्तरेण बन्धनस्यानिर्वृतेरित्यर्थः ॥ Nyaas ----- ननु च न शृङ्खलमात्रेण करभो बध्यते, किं तर्हि? रज्जवादिकेन च, तत्कथं शृङ्खलं बन्धनमुच्यते? इत्याह - `यद्यपि` इत्यादि। यद्यपि तत्र रज्ज्वादिकमप्यपरमस्ति, तथापि शृङ्खलमस्य तन्त्रीकरणं प्रति साधनं भवत्येव, न हि तेन तद्भवति। ततः शृङ्खलं बन्धनमुच्यते। रज्ज्वादिकमपि यदि बन्धनं भवति, भवतु! न ह्यत्रावधार्यते - शृङ्खलमेवेति॥ Prakriyasarvasvam ----------------- उभयतो रज्जुमद् दारुमयं पादबन्धनं शृङ्खलम् । तत् बन्धसाधनमस्येत्यर्थे बालोष्ट्रे वाच्ये कन् शृङ्खलकः करभः ॥