52054: द्वेस्तीयः¶
Padacheda: द्वेः | S | 5 | 1 |
तीयः | S | 1 | 1 |
Sutrartha¶
षष्ठीसमर्थात् ‘द्वि’ शब्दात् ‘पूरणः’ इत्यस्मिन् अर्थे ‘तीय’ प्रत्ययः विधीयते ।
तस्य पूरणे डट् (5.2.48) अनेन सूत्रेण ‘पूरणम्’ अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ‘डट्’ प्रत्ययः विधीयते । अस्य अपवादरूपेण ‘द्वि’ शब्दात् ‘तीय’ इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । यथा - द्वयोः पूरणः = द्वि + तीय → द्वितीय (second इत्यर्थः) । ‘द्वितीय’ शब्दात् स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययः विधीयते, येन ‘द्वितीया’ इति शब्दः सिद्ध्यति ।
Vasu English Summary¶
The affix तीय comes in the sense of ‘completer thereof’ after the word द्वि।
Vasu English Translation¶
The affix तीय comes in the sense of ‘completer thereof’ after the word द्वि। This debars डट् ॥ Thus द्वयोः पूरणो = द्वितीयः ‘the second’ – that which completes the two.
Kashika¶
द्विशब्दात् तीयः प्रत्ययो भवति तस्य पूरण इत्यस्मिन् विषये। डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥
Siddhanta Kaumudi¶
डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥
Laghu Siddhanta Kaumudi¶
डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥
Balamanorama¶
द्वेस्तीयः - द्वेस्तीयः । द्विसब्दात्षष्ठन्तात्पूरणे तीयप्रत्ययः स्यादित्यर्थः ।
Tattvabodhini¶
द्वेस्तीयः - द्वेस्तीयः । डटोऽपवाद इति । डट आदेशस्तु न भवति, टितिटिड्ढे॑ति ङीपः प्रसक्त्याद्वितीयाश्रिते॑ति निर्देशानुपपत्तेः ।अतएव निर्देशाद्द्विशब्दस्याप्यादेशो न भवति ।
Padamanjari¶
तीयप्रत्ययो भवतीति। डटो द्विशब्दस्य चादेशो न भवति; द्वितीयेति निर्द्देशात्। यद्येवम्, तस्मादेव निर्द्देशान्न सिद्धमस्य साधुत्वम् ? सिद्ध्यतु साधुत्वम्, पूरणाअर्थस्तु कर्थ लभ्यते! किञ्च तदाश्रयणे प्रकृतिप्रत्ययविभागाभावात्प्रातिपदिकस्वरेणान्तोदातत्वं स्यात्, ठबाधकान्यपि निपातनानि भवन्तिऽ इति पक्षे डटः प्रसङ्गश्च ॥
Nyaas¶
द्विशब्दात्? तीयप्रत्ययो भवति इति। अथ द्विशब्दादुत्तरस्य डटस्तीयादेशः कस्मादेव न भवति? ज्ञापकत्वात्। यदयम्? कर्मणि द्वितीया (2.3.2) इति टापा निर्देशं करोति, तज्ज्ञापयति - नायमादेश इति। यद्येवमनेनैव सिद्धत्वात्? प्रत्ययविधानमनर्थकम्? न; स्वरार्थत्वात्। निपातनाद्धि प्रातिपदिकस्वरेणान्तोदात्तः स्यात्। तीयप्रत्यये तु प्रत्ययस्वरेण मध्योदात्तो भवति। किञ्च, यदि प्रत्ययो न विधीयते बाधकान्यपि निपातनानि भवन्ति (नी।प।बृ। 109) इति डडपि स्यात्। यदि पुनरयं डडादेशः स्यात्, तर्हि किं स्यात्? डट्स्वरेण तीयशब्दोऽन्तोदात्तः स्यात्, स्त्रियां च टित्त्वान्डीप्, ततश्च द्वितीयेति निर्देशो नोपपद्यते॥