52054: द्वेस्तीयः ================= **Padacheda:** द्वेः | S | 5 | 1 | तीयः | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थात् 'द्वि' शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'तीय' प्रत्ययः विधीयते ।** **तस्य पूरणे डट्** (5.2.48) अनेन सूत्रेण 'पूरणम्' अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण 'डट्' प्रत्ययः विधीयते । अस्य अपवादरूपेण 'द्वि' शब्दात् 'तीय' इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । यथा - द्वयोः पूरणः = द्वि + तीय → द्वितीय (second इत्यर्थः) । 'द्वितीय' शब्दात् स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययः विधीयते, येन 'द्वितीया' इति शब्दः सिद्ध्यति । Vasu English Summary -------------------- The affix तीय comes in the sense of 'completer thereof' after the word द्वि। Vasu English Translation ------------------------ The affix तीय comes in the sense of 'completer thereof' after the word द्वि। This debars डट् ॥ Thus द्वयोः पूरणो = द्वितीयः 'the second' -- that which completes the two. Kashika ------- द्विशब्दात् तीयः प्रत्ययो भवति तस्य पूरण इत्यस्मिन् विषये। डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥ Siddhanta Kaumudi ----------------- डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥ Laghu Siddhanta Kaumudi ----------------------- डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥ Balamanorama ------------ **द्वेस्तीयः** - द्वेस्तीयः । द्विसब्दात्षष्ठन्तात्पूरणे तीयप्रत्ययः स्यादित्यर्थः । Tattvabodhini ------------- **द्वेस्तीयः** - द्वेस्तीयः । डटोऽपवाद इति । डट आदेशस्तु न भवति, टितिटिड्ढे॑ति ङीपः प्रसक्त्याद्वितीयाश्रिते॑ति निर्देशानुपपत्तेः ।अतएव निर्देशाद्द्विशब्दस्याप्यादेशो न भवति । Padamanjari ----------- तीयप्रत्ययो भवतीति। डटो द्विशब्दस्य चादेशो न भवति; द्वितीयेति निर्द्देशात्। यद्येवम्, तस्मादेव निर्द्देशान्न सिद्धमस्य साधुत्वम् ? सिद्ध्यतु साधुत्वम्, पूरणाअर्थस्तु कर्थ लभ्यते! किञ्च तदाश्रयणे प्रकृतिप्रत्ययविभागाभावात्प्रातिपदिकस्वरेणान्तोदातत्वं स्यात्, ठबाधकान्यपि निपातनानि भवन्तिऽ इति पक्षे डटः प्रसङ्गश्च ॥ Nyaas ----- `द्विशब्दात्? तीयप्रत्ययो भवति` इति। अथ द्विशब्दादुत्तरस्य डटस्तीयादेशः कस्मादेव न भवति? ज्ञापकत्वात्। यदयम्? **कर्मणि द्वितीया** (2.3.2) इति टापा निर्देशं करोति, तज्ज्ञापयति - नायमादेश इति। यद्येवमनेनैव सिद्धत्वात्? प्रत्ययविधानमनर्थकम्? न; स्वरार्थत्वात्। निपातनाद्धि प्रातिपदिकस्वरेणान्तोदात्तः स्यात्। तीयप्रत्यये तु प्रत्ययस्वरेण मध्योदात्तो भवति। किञ्च, यदि प्रत्ययो न विधीयते `बाधकान्यपि निपातनानि भवन्ति` (नी।प।बृ। 109) इति डडपि स्यात्। यदि पुनरयं डडादेशः स्यात्, तर्हि किं स्यात्? डट्स्वरेण तीयशब्दोऽन्तोदात्तः स्यात्, स्त्रियां च टित्त्वान्डीप्, ततश्च द्वितीयेति निर्देशो नोपपद्यते॥