52055: त्रेः सम्प्रसारणं च

Padacheda: त्रेः | S | 5 | 1 |

सम्प्रसारणम् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

षष्ठीसमर्थात् ‘त्रि’ शब्दात् ‘पूरणः’ इत्यस्मिन् अर्थे ‘तीय’ प्रत्ययः विधीयते, तथा च प्रक्रियायाम् ‘त्रि’ शब्दस्य सम्प्रसारणमपि भवति ।

तस्य पूरणे डट् (5.2.48) अनेन सूत्रेण ‘पूरणम्’ अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ‘डट्’ प्रत्ययः विधीयते । अस्य अपवादरूपेण ‘त्रि’ शब्दात् ‘तीय’ इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । अस्मिन् प्रत्यये परे ‘त्रि’ शब्दस्य सम्प्रसारणमपि भवति । इत्युक्ते, ‘त्रि’ (= त् + र् + इ) इत्यत्र उपस्थितस्य रेफस्य इग्यणः सम्प्रसारणम् (1.1.45) इत्यनेन ऋकारादेशः भवति । प्रक्रिया इयम् - त्रयाणां पूरणः = त्रि + तीय [वर्तमानसूत्रेण पूरणे ‘तीय’ प्रत्ययः] = त् + र् + इ + तीय → त् + ऋ + इ + तीय [‘तीय’ प्रत्ययस्य उपस्थितौ अङ्गस्य सम्प्रसारणम् । रेफस्य सम्प्रसारणम् ऋकारः ] → त् + ऋ + तीय [सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपम्] → तृतीय स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये कृते ‘तृतीया’ इति रूपं सिद्ध्यति । विशेषः - ‘तृ + तीय’ इत्यत्र वस्तुतः हलः (6.4.2) इत्यनेन अङ्गस्य दीर्घादेशः भवति यः न इष्यते । अस्य समाधानम् भाष्यकारः हलः (6.4.2) इत्यत्र द्वाभ्याम् प्रकाराभ्यां करोति - (अ) हलः (6.4.2) अस्मिन् सूत्रे ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यस्मात् ‘अणः’ इति अनुवृत्तिं स्वीकृत्य ‘अण् वर्णस्यैव दीर्घादेशः भवति’ इति अर्थविधानं कृत्वा ऋकारान्तस्य दीर्घस्य आपत्तेः निराकरणम् भवति - इति प्रथमः सिद्धान्तः । (आ) द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (2.2.3) इत्यत्र ‘तृतीय’ शब्दस्य ग्रहणेन ‘त्रयाणां पूरणम्’ अस्यां प्रक्रियायाम् निपातनेन हलः (6.4.2) इति सूत्रमेव न स्वीकर्तव्यम् - इति द्वितीयः सिद्धान्तः ।

Vasu English Summary

The affix तीय comes in the sense of ‘completer thereof’ after the word त्रि and there is सम्प्रसारण (Vocalisation) of the stem.

Vasu English Translation

The affix तीय comes in the sense of ‘completer thereof’ after the word त्रि and there is सम्प्रसारण (Vocalisation) of the stem. The substitution of a vowel for a semi-vowel is samprasarana (1.1.45). Thus त्रि + तीय = तृ + इ + तीय = तृतीयः ((6.1.108), the इ of त्रि assumes the form of the prior letter ऋ which is substituted for र्). In तृतीयः the ऋ is not lengthened by (6.4.2), because that rule applies to the lengthening of the अण् letters only, this word being read into (6.4.2), by anuvritti from (VI.3. III). The pratyahara अण् is formed by the first ण्, and means the letters अ, इ and उ ॥

Kashika

त्रिशब्दात् तीयः प्रत्ययो भवति तस्य पूरण इत्येतद्विषये। डटोऽपवादः। तत्सन्नियोगेन त्रेः संप्रसारणं च भवति। त्रयाणां पूरणः तृतीयः। हलः (६.४.२) इति संप्रसारणस्य दीर्घत्वं न भवति। अण इति तत्रानुवर्तते ढ्रलोपे० (६.३.१११) इत्यतः, पूर्वेण च णकारेणाण्ग्रहणम्॥

Siddhanta Kaumudi

तृतीयः ॥

Laghu Siddhanta Kaumudi

तृतीयः॥

Balamanorama

त्रेः सम्प्रसारणं च - त्रेः संप्रसारणं च । त्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य सम्प्रसारणमृकारः ।सम्प्रसारयणाच्चे॑ति पूर्वरूपम् । ‘हलः’ इति दीर्घस्तु न भवति, ‘ढ्रलोपे’ इत्यतोऽण इत्यनुवृत्तेः ।

Tattvabodhini

त्रेः सम्प्रसारणं च - तृतीय इति । रेफस्य ऋकारः संप्रसारणम् ।हलः॑इति दीर्घस्तु न भवति,ढ्रलोपे॑इति सूत्रादण इत्यनुवृत्तेःत्रेस्तृ च॑इति नोक्तं, प्रत्ययो मा विज्ञायीति ।

Padamanjari

अण इति तत्रानुवर्तत इति।’ढ्रलोपे पूर्वस्य दीर्घो’ णःऽ इत्यतः। एवमपि यदि परेण णकारेण प्रत्याहारः स्यात्पुनरपि स्यादेव दीर्गः, स तु न तथा? इत्याह - पूर्वेणोति। एतच्च’लण्’ इत्यत्रैव प्रतिपादितम्।’त्रेस्तृ च’ इति नोक्तम्, प्रत्ययो मा विज्ञायीति ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ विंशत्यादिभ्यः परस्येति। कथं पुनः’द्वेस्तीयः’ इति तीयप्रत्ययेन सत्यं डट्प्रत्ययो विच्छिन्नः; पूरणार्थस्तु न विच्छिन्नः, सोऽनुवर्तेते, तेन पूरणे यो विहितः स आगमी विज्ञायते। न च डटोऽन्यो विंशत्यादिभ्यः पूरणे विहितोऽस्ति। कः पुनः पङ्क्त्यादिसूत्रनिर्द्दिष्टानां ग्रहणे सति दोषः ? तत्राह - तद्ग्रहणे हीति। स्यादेतत् - तदन्तविधिना एकविंशतिप्रभृतिभ्योऽपि भविष्यतीति ? तत्राह - ग्रहणवतेति। ननु यदयं’षष्ट।लदेश्चासंख्यादेः’ इत्याह, तज्ज्ञापयति - भवति पूरणप्रकरणे तदन्तविधिरिति। तेनैकविंशतिप्रभृतिभ्योऽपि भविष्यति। अत्स्तवेतत्, केवलेभ्यस्तु न स्यात्, अतदन्तत्वात्। व्यपदेशिवद्भावेन भविष्यति,’व्यपदेशिवद्भावो’ प्रातिपदिकेनऽ। एवं चेत्यादि। लौकिकानां विंशत्यादीनां यदीदं ग्रहणम्, तदा’षष्ट।लदेश्च’ इत्यत्रापि लौकिकानामेव षष्ट।लदीनां ग्रहणम्, ततश्चैकषष्टिप्रभृतिभ्यो नित्यस्य तमटः प्रसङ्गे ठसंख्यादेःऽ इति पर्युदासो युज्यत एव, न कथञ्चिन्न युज्यते; अनिष्टलेशस्याभावात्। सूत्रसन्निविष्टानां तु ग्रहणे तदन्तविधैज्ञापनार्थं पर्युदासो युज्यते। केवलं न तु युज्यत एव, केवलानामप्रसङ्गादिति तावद्वृतेरर्थः। यथा तु भाष्यं तथा सूत्रसंनिविष्टानां ग्रहणम्, ज्ञापनाच्च तदन्तविधिरिति स्थितम्। न च केवलानामप्रसङ्गस्तदन्तानामपि भवतीति ज्ञापनशरीरम्, न तु तदन्तानामेव भवतीति। यदि वा यत्र प्रातिपदिकस्य श्रुतिरस्ति -‘ग्रहणवता प्रातिपदिकेन’ , व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इति, तदुभयमपि न प्रवर्तते इति सामान्येन ज्ञापनम्। एवं च कृत्वेदमपि सिद्धं भवतिएकान्नविंशतेः पूरणः एकान्नविंशतितम इति। भवति ह्यएतत्सूत्रसन्निविष्टविंशत्यन्तं संख्यादि संख्यावाचि च। लौकिकानां तु ग्रहणे नैतत्सिध्यति; विंशतेः प्राग्भावित्वादस्यास्संख्यायाः ॥

Nyaas

अण इति तत्र वर्तते इति। ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यतः। ननु च परेण णकारेणाण्ग्रहण ऋकारोऽप्यण्? भविष्यति? इत्यत आह - पूर्वेण च इत्यादि। अत्र त्रेस्तु च इत्येवं कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्, एवं ह्रुच्यमाने सन्देहः स्यात्? - किमयमादेशः, उत्त प्रत्यय? इति॥

Prakriyasarvasvam

तृतीयः । द्वितीयतृतीयैति सूत्रोक्तेः ‘हलः’ (६-४-२) इति सम्प्रसारण- दीर्घो न ॥