52053: वतोरिथुक्¶
Padacheda: वतोः | S | 6 | 1 |
इथुक् | S | 1 | 1 |
Sutrartha¶
वतुँप्-प्रत्ययान्तशब्देभ्यः ‘पूरणः’ अस्मिन् अर्थे विहिते ‘डट्’ प्रत्यये परे अङ्गस्य ‘इथुक्’ आगमः भवति ।
‘वतुँप्’ इति कश्चन तद्धितप्रत्ययः । ‘यद्’, ‘तद्’, ‘एतद्’ , ‘किम्’ तथा ‘इदम्’ एतेभ्यः शब्देभ्यः ‘वतुँप्’ इति प्रत्ययः विधीयते, यैः ‘यावत्’, ‘तावत्’, ‘एतावत्’, ‘कियत्’ तथा ‘इयत्’ एते पञ्च शब्दाः सिद्ध्यन्ति । एते ‘वतुँप्’प्रत्ययान्तशब्दाः बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन सङ्ख्यासंज्ञकाः भवन्ति । अतः एतेभ्यः तस्य पूरणे डट् (5.2.48) इत्यनेन पूरणार्थे डट्-प्रत्ययः विधीयते । अस्मिन् डट्-प्रत्यये परे अङ्गस्य वर्तमानसूत्रेण ‘इथुक्’ इति आगमः विधीयते । ‘इथुक्’ अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, अतः आद्यन्तौ टकितौ (1.1.46) इत्यनेन अयमागमः अङ्गस्य अन्त्यादेशरूपेण विधीयते । यथा - 1) यावताम् पूरणः = यावत् + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → यावत् + इथुक् + डट् [वर्तमानसूत्रेण अङ्गस्य इथुक्-आगमः] → यावत् + इथ् + अ [‘इथुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘इथ्’ इत्यस्य लोपः भवेत्, येन इथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘इथुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] → यावतिथ (as manieth / how manieth / to whatsoever place - इति अर्थः) उदाहरणम् - यो यो यावतिथश्चैषाम् स स तावद्गुणः स्मृतः - इति मनुस्मृतौ सन्दर्भः लभ्यते । आकाशादीनाम् द्रव्यानाम् शब्दादयः गुणाः ‘यावतिथाः’ भवन्तीति अत्र निर्देशः कृतः अस्ति। एवमेव - 2) तावतां पूरणः तावतिथः । 3) एतावतां पूरणः एतावतिथः । 4) कियतां पूरणः कियतिथः । 5) इयतां पूरणः इयतिथः । ज्ञातव्यम् - 1. सर्वेभ्यः पूरणप्रत्ययान्तशब्देभ्यः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययः भवति । यथा - यावतिथी, तावतिथी, एतावतिथी, कियतिथी, इयतिथी । 2. यावती, तावती, एतावती, कियती, इयती - एतेभ्यः विहितस्य डट्-प्रत्ययस्य अपि वर्तमानसूत्रेण ‘इथुक्’ आगमः भवति । अग्रे प्रक्रियायाम् पुंवद्भावं कृत्वा रूपाणि सिद्ध्यन्ति । यथा - यावतीनाम् पूरणी = यावती + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → यावत् + डट् [<!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इति पुंवद्भावः] → यावत् + इथुक् + डट् [वर्तमानसूत्रेण अङ्गस्य इथुक्-आगमः] → यावत् + इथ [इत्संज्ञालोपः] → यावतिथ → यावतिथ + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इति ङीप्] → यावतिथी 3. यत्तदेतेभ्यः परिमाणे वतुँप् (5.2.39) तथा किमिदंभ्यां वो घः (5.2.41) इत्यनेन ‘यावत्’, ‘तावत्’, ‘एतावत्’, ‘इयत्’ एते शब्दाः केवलम् सामान्यपरिमाणस्य निर्देशार्थम् एव प्रयुज्यन्ते, सङ्ख्यापरिमाणस्य निर्देशार्थम् न । तथापि तेषाम् ‘सङ्ख्या’ इति संज्ञा भवति, अतः तेभ्यः अपि पूरणप्रत्ययाः विधीयन्ते । एषामर्थः सामान्यरूपेण उपरि दत्तः अस्ति, परन्तु निश्चितरूपेण अर्थनिर्णयः तु सन्दर्भं दृष्ट्वा एव कर्तव्यः ।
Vasu English Summary¶
When follows is the augment of a stem ending in वतु।
Vasu English Translation¶
When follows is the augment of a stem ending in वतु। The word डटि is understood here also. The words ending in वतु are Numerals (1.1. 23): and they will take डट् by (5.2.48); the present sutra declares the augment. Thus यावतां पूरणो = यावतिथः, तावतिथः, एतावतिथः ॥
Kashika¶
डडित्येव। वतोर्डटि परत इथुगागमो भवति। वत्वन्तस्य संख्यात्वात् पूर्वेण डड् विहितः, तस्मिन्नयमागमो विधीयते। यावतां पूरणो यावतिथः। तावतिथः। एतावतिथः॥
Siddhanta Kaumudi¶
डटीत्येव । यावतिथः ॥
Padamanjari¶
अत्रापि पूर्ववद्वत्वन्तस्यैवागमित्वम्। इह तावतीनां पूरणी तावतिथीति लिङ्गविशिष्टपरिभाषया प्रत्ययः, पुंवद्भावश्च। कथं पुनरत्र लिङ्गविशिष्टपरिभाषा, यावता प्रातिपदिकस्वरूपग्रहणे सा भवतीत्युक्तम् ? यत्रापि प्रातिपदिकविशेषणं स्वरूपेणोपादीयते, तत्रापि सा भवति, यथा -‘तृजकाभ्यां कर्तरि’ - अपां स्रष्ट्रीति। इहापि वतोरिति विशेषणं स्वरुपेणोपादीयते, तेन भवत्येव लिङ्गविशिष्टस्य ग्रहणम्। उक्तं च - बहुकतिपयवस्तूनां लिङ्गविशिष्टादुत्पत्तिः; प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति ॥
Prakriyasarvasvam¶
वत्वन्तस्य डटि इथुक् । तावतिथः ॥ द्वितीयः ॥