52050: थट् चच्छन्दसि

Padacheda: थट् | S | 1 | 1 |

च | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

Sutrartha

यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् ‘पूरणः’ इत्यस्मिन् अर्थे विहितस्य ‘डट्’ प्रत्ययस्य वेदेषु ‘थट्’ उत ‘मट्’ आगमः कृतः दृश्यते ।

तस्य पूरणे डट् (5.2.48) अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः ‘पूरणः’ अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । यदि अत्र विहितः प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदमन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य वेदेषु ‘थट्’ आगमः उत ‘मट्’ आगमः कृतः दृश्यते । अस्य सूत्रस्य प्रसक्तिः ‘पञ्चन्’, ‘सप्तन्’, ‘अष्टन्’, ‘नवन्’ तथा ‘दशन्’ एतेषां विषये एव भवति, यतः ‘एकादशन्’ इत्यतः अग्रे विद्यमानानाम् नकारान्तशब्दानाम् पूर्वपदमपि सङ्ख्यावाची शब्दः एव अस्ति । मट्-आगमे परे रूपाणि - 1. पञ्चन् + मट् + डट् → पञ्चम । 2. सप्तन् + मट् + डट् → सप्तम । 3. अष्टन् + मट् + डट् → अष्टम । 4. नवन् + मट् + डट् → नवम । 5. दशन् + मट् + डट् → दशम । थट्-आगमे परे रूपाणि - 1. पञ्चन् + थट् + डट् → पञ्चथ । 2. सप्तन् + थट् + डट् → सप्तथ । 3. अष्टन् + थट् + डट् → अष्टथ । 4. नवन् + थट् + डट् → नवथ । 5. दशन् + थट् + डट् → दशथ । सर्वत्र सङ्ख्यावाचिनः शब्दस्य अन्ते विद्यमानस्य नकारस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इति लोपः भवति । स्मर्तव्यम् - 1. ‘थट्’ इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् ‘आद्यन्तौ टकितौ (1.1.46) इत्यनेन आद्यवयवविधानम्’ - इति अस्ति । 2. अस्मिन् सूत्रे ‘च’ इति उक्तमस्ति, परन्तु तस्य अर्थः ‘थट् आगमः मट्-आगमः च कृतः दृश्यते’ इति न कर्तव्यः । उभावपि आगमौ एकस्मिन्नेव शब्दे कदापि न भवतः । ‘केषुचन स्थलेषु थट्-आगमः कृतः दृश्यते, केषुचन अन्येषु च स्थलेषु मट्-आगमः कृतः दृश्यते’ इति अत्र चकारेण स्पष्टीक्रियते ।

Vasu English Summary

The थट् is the augment of डट् in the छन्दस् (Vedas) after a Numeral ending in न् and not preceded by another Numeral as well as the augment मट्।

Vasu English Translation

The थट् is the augment of डट् in the छन्दस् (Vedas) after a Numeral ending in न् and not preceded by another Numeral as well as the augment मट्। Thus पंचथः, सप्तथः or पंचमः, सप्तमः ॥ As पर्णमयानि पञ्चथानि भवन्ति and पञ्चममिन्द्रियमस्यापाञ्च्यमन् ॥ See (5.2.56).

Kashika

नान्तादसंख्यादेः परस्य डटश्छन्दसि विषये थडागमो भवति चकारात् पक्षे मडपि भवति। पर्णम॑यानि पञ्चथा॑नि भवन्ति (काठ० सं० ८.२)। पञ्चथः॑ (काठ०सं० ९.३)। सप्तथः॑ (काठ०सं० ३७.११)। मट् — पञ्चम॑मिन्द्रिय॑स्या॑पाक्रामत् (काठ०सं० ९.१२)॥

Siddhanta Kaumudi

नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - (SK1889) । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥

Prakriyasarvasvam

<karika>तस्य पूरण इत्यर्थे संख्याभ्यो यो डडुच्यते । तस्य नन्तादसंख्यादेर्थट् च मट् च विधीयते ॥ ८७४ ॥</karika> पर्णमयानि पञ्चथानि पञ्चममिन्द्रियस्य । विमुक्तादिगणः प्रायेण वेदभागा2- ख्यत्वादत्र लिख्यते । “विमुक्तदेवासुररक्षोसुरा (ती? स्य) हत्यपरिसारकोपसत्- सत्वदिडोवंशी दशार्णदाशार्हेभ्योऽण्’’ (५-२-२१७) एभ्योऽध्यायानुवाकयोरर्थ- योर्मत्वर्थे अण् स्यात् । विमुक्तशब्दवानध्यायोऽनुवाको वा वैमुक्तः । देवासुरः । राक्षोसुरः । आस्यहत्यः । पारिसारकः । औपसदः । सात्वतः । ऐडः । और्वंशः । दाशार्णः । दाशार्हः । ‘वसुम³न्तुपत्नीवत्तु बर्हवन्तु वृत्रहन्तुवयःपतत्रिसुपर्णसोमापूषन् हविर्धानाग्नाविष्णुभ्यश्च’ । (५-२-२१८) वासुमन्तः पत्नीवन्तः बार्हवन्तः । वार्त्रघ्न्तः । वायसः । पातत्रिणः । सौपर्णः सौमा (पू? पौ) ष्णः । हाविर्धानः । अग्नावैष्णवम् । ‘गोपदिषत्वाकृष्णोस्यादेविरापदेवस्यत्वादेवीधेयत्तदेवेभ्योवुन्’ (५- २-२२२) गेषदकः । इषेत्रकः । कृष्णोस्यकः । देवीरापकः । देवस्यत्वकः । देवीधेयकः । तदेवकः । प्रतूर्त्तमातरिश्वन्सहस्रशीर्षावाचस्पतकृशानुरक्षोहणस्वाहा- प्राणेभ्यश्च (५-२-२२३) प्रतूर्त्तकः । मातरिश्वकः । सहस्रशीर्षकः । वाचस्पतकः । कृशान⁴वकः । रक्षोहणकः । स्वाहाप्राणकः इति ।