52050: थट् चच्छन्दसि ==================== **Padacheda:** थट् | S | 1 | 1 | च | S | 0 | 0 | छन्दसि | S | 7 | 1 | Sutrartha --------- **यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् 'पूरणः' इत्यस्मिन् अर्थे विहितस्य 'डट्' प्रत्ययस्य वेदेषु 'थट्' उत 'मट्' आगमः कृतः दृश्यते ।** **तस्य पूरणे डट्** (5.2.48) अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । यदि अत्र विहितः प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदमन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य वेदेषु 'थट्' आगमः उत 'मट्' आगमः कृतः दृश्यते । अस्य सूत्रस्य प्रसक्तिः 'पञ्चन्', 'सप्तन्', 'अष्टन्', 'नवन्' तथा 'दशन्' एतेषां विषये एव भवति, यतः 'एकादशन्' इत्यतः अग्रे विद्यमानानाम् नकारान्तशब्दानाम् पूर्वपदमपि सङ्ख्यावाची शब्दः एव अस्ति । मट्-आगमे परे रूपाणि - 1. पञ्चन् + मट् + डट् → पञ्चम । 2. सप्तन् + मट् + डट् → सप्तम । 3. अष्टन् + मट् + डट् → अष्टम । 4. नवन् + मट् + डट् → नवम । 5. दशन् + मट् + डट् → दशम । थट्-आगमे परे रूपाणि - 1. पञ्चन् + थट् + डट् → पञ्चथ । 2. सप्तन् + थट् + डट् → सप्तथ । 3. अष्टन् + थट् + डट् → अष्टथ । 4. नवन् + थट् + डट् → नवथ । 5. दशन् + थट् + डट् → दशथ । सर्वत्र सङ्ख्यावाचिनः शब्दस्य अन्ते विद्यमानस्य नकारस्य **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति लोपः भवति । स्मर्तव्यम् - 1. 'थट्' इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् '**आद्यन्तौ टकितौ** (1.1.46) इत्यनेन आद्यवयवविधानम्' - इति अस्ति । 2. अस्मिन् सूत्रे 'च' इति उक्तमस्ति, परन्तु तस्य अर्थः 'थट् आगमः मट्-आगमः च कृतः दृश्यते' इति न कर्तव्यः । उभावपि आगमौ एकस्मिन्नेव शब्दे कदापि न भवतः । 'केषुचन स्थलेषु थट्-आगमः कृतः दृश्यते, केषुचन अन्येषु च स्थलेषु मट्-आगमः कृतः दृश्यते' इति अत्र चकारेण स्पष्टीक्रियते । Vasu English Summary -------------------- The थट् is the augment of डट् in the छन्दस् (Vedas) after a Numeral ending in न् and not preceded by another Numeral as well as the augment मट्। Vasu English Translation ------------------------ The थट् is the augment of डट् in the छन्दस् (Vedas) after a Numeral ending in न् and not preceded by another Numeral as well as the augment मट्। Thus पंचथः, सप्तथः or पंचमः, सप्तमः ॥ As पर्णमयानि पञ्चथानि भवन्ति and पञ्चममिन्द्रियमस्यापाञ्च्यमन् ॥ See (5.2.56). Kashika ------- नान्तादसंख्यादेः परस्य डटश्छन्दसि विषये थडागमो भवति चकारात् पक्षे मडपि भवति। पर्णम॑यानि पञ्चथा॑नि भवन्ति (काठ० सं० ८.२)। पञ्चथः॑ (काठ०सं० ९.३)। सप्तथः॑ (काठ०सं० ३७.११)। मट् — पञ्चम॑मिन्द्रिय॑स्या॑पाक्रामत् (काठ०सं० ९.१२)॥ Siddhanta Kaumudi ----------------- नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - (SK1889) । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥ Prakriyasarvasvam ----------------- तस्य पूरण इत्यर्थे संख्याभ्यो यो डडुच्यते । तस्य नन्तादसंख्यादेर्थट् च मट् च विधीयते ॥ ८७४ ॥ पर्णमयानि पञ्चथानि पञ्चममिन्द्रियस्य । विमुक्तादिगणः प्रायेण वेदभागा2- ख्यत्वादत्र लिख्यते । “विमुक्तदेवासुररक्षोसुरा (ती? स्य) हत्यपरिसारकोपसत्- सत्वदिडोवंशी दशार्णदाशार्हेभ्योऽण्'' (५-२-२१७) एभ्योऽध्यायानुवाकयोरर्थ- योर्मत्वर्थे अण् स्यात् । विमुक्तशब्दवानध्यायोऽनुवाको वा वैमुक्तः । देवासुरः । राक्षोसुरः । आस्यहत्यः । पारिसारकः । औपसदः । सात्वतः । ऐडः । और्वंशः । दाशार्णः । दाशार्हः । 'वसुम³न्तुपत्नीवत्तु बर्हवन्तु वृत्रहन्तुवयःपतत्रिसुपर्णसोमापूषन् हविर्धानाग्नाविष्णुभ्यश्च' । (५-२-२१८) वासुमन्तः पत्नीवन्तः बार्हवन्तः । वार्त्रघ्न्तः । वायसः । पातत्रिणः । सौपर्णः सौमा (पू? पौ) ष्णः । हाविर्धानः । अग्नावैष्णवम् । 'गोपदिषत्वाकृष्णोस्यादेविरापदेवस्यत्वादेवीधेयत्तदेवेभ्योवुन्' (५- २-२२२) गेषदकः । इषेत्रकः । कृष्णोस्यकः । देवीरापकः । देवस्यत्वकः । देवीधेयकः । तदेवकः । प्रतूर्त्तमातरिश्वन्सहस्रशीर्षावाचस्पतकृशानुरक्षोहणस्वाहा- प्राणेभ्यश्च (५-२-२२३) प्रतूर्त्तकः । मातरिश्वकः । सहस्रशीर्षकः । वाचस्पतकः । कृशान⁴वकः । रक्षोहणकः । स्वाहाप्राणकः इति ।