52051: षट्कतिकतिपयचतुरां थुक्

Padacheda: षट्-कति-कतिपय-चतुराम् | S | 6 | 3 |

थुक् | S | 1 | 1 |

Sutrartha

षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये ‘पूरणः’ अस्मिन् अर्थे विहिते ‘डट्’ प्रत्यये परे अङ्गस्य ‘थुक्’ आगमः भवति ।

तस्य पूरणे डट् (5.2.48) इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः ‘डट्’ प्रत्ययः भवति । अस्मिन् डट्-प्रत्यये परे ‘षष्’, ‘कति’, ‘कतिपय’ तथा ‘चतुर्’ एतेषामङ्गस्य ‘थुक्’ आगमः भवति । अयमागमः ‘कित्’ अस्ति, अतः आद्यन्तौ टकितौ (1.1.46) इत्यनेन अन्तावयवरूपेण आगच्छति । तथा च, अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, थकारोत्तरः उकारः च उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपं कृत्वा ‘थ्’ इत्येव अवशिष्यते । सर्वान् शब्दान् क्रमेण पश्यामः - 1. षष् (six) - षण्णाम् पूरणः = षष् + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → षष् + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य ‘थुक्’ आगमः । अयमागमः कित्वात् अङ्गस्य अन्तावयवरूपेण विधीयते ।] → षष् + थ् + अ [‘थुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।] → (षष् + थ्) + अ [वस्तुतः अत्र टेः (6.4.143) इति टिलोपः विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘अष्ठ्’ इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘थुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] → षष् + ठ् + अ [ष्टुना ष्टुः (8.4.41) इति थकारस्य ठकारः] → षष्ठ षण्णाम् पूरणः षष्ठः (sixth) विशेषः - ‘षण्णाम् पूरणः’ इत्यस्मिन् अर्थे ‘षष्ठ’ इत्येव शब्दः प्रयुज्यते, न हि ‘षष्ठम’ इति - एतत् वर्तमानसूत्रेण स्पष्टं स्यात् । One of the very common mistake done by beginners and experts alike is to use ‘षष्ठम’ to mean ‘sixth’, which is grammatically incorrect. The correct word for ‘sixth’ is षष्ठ, and not षष्ठम ।There is no मकार generated anywhere in this प्रक्रिया । 2. कति (how many) - ‘कति’ इति शब्दः ‘किम्’ इत्यस्मात् किमः संख्यापरिमाणे डति च (5.2.41) इत्यनेन ‘डति’ प्रत्ययं कृत्वा सिद्ध्यति । ‘डति’ प्रत्ययान्तशब्दाः बहुगणवतुडति संख्या (1.1.23) इत्यनेन सङ्ख्यासंज्ञकाः सन्ति, अतः ‘कति’ शब्दः अपि सङ्ख्यासंज्ञां स्वीकरोति । अस्मात् शब्दात् ‘पूरणम्’ अस्मिन् अर्थे तस्य पूरणे डट् (5.2.48) इत्यनेन डट् प्रत्यये प्राप्ते; वर्तमानसूत्रेण अङ्गस्य ‘थुक्’ आगमः अपि भवति । प्रक्रिया इयम् - कतीनाम् पूरणः = कति + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → कति + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य ‘थुक्’ आगमः ] → कति + थ् + अ [‘थुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘इथ्’ इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘थुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] → कतिथ । कतीनां पूरणम् कतिथ । (‘of what index’ - इति आशयः) । उदाहरणम् - ‘भरतः दशरथस्य कतिथः पुत्रः’ ? तृतीयः । अद्य मासस्य कतिथी रात्रिः ? नवमी । अद्य सप्ताहस्य कतिथं दिनम् ? द्वितीयम् । विशेषः - Surprisingly, the word कतिथ does not have an exact equivalent in most of the languages, including English. We can loosely translate it as ‘which rank / what index’. 3. ‘कतिपय’ (केचन / several इत्याशयः) ‘कतिपय’ अयम् शब्दः वस्तुतः सङ्ख्यावाची शब्दः नास्ति । अतः वस्तुतः अस्मात् शब्दात् ‘डट्’ प्रत्ययस्य प्रसक्तिरेव न विद्यते । परन्तु वर्तमानसूत्रे अस्य निर्देशः कृतः अस्ति, अतः अस्मात् निर्देशसामर्थ्यात् अस्मात् सूत्रात् अपि पूरणार्थे डट्-प्रत्ययः, तथा च तस्मिन् परे अङ्गस्य थुक्-आगमः भवति । यथा - कतिपयानां पूरणः = कतिपय + डट् [वर्तमानसूत्रस्य विधानसामर्थ्यात् डट्-प्रत्ययः ।] → कतिपय + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य ‘थुक्’ आगमः ] → कतिपय + थ् + अ [‘थुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘अथ्’ इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘थुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] → कतिपयथ । (‘of some index’ - इति आशयः ) 4. चतुर् (four) चतुर्ण्णाम् पूरणः = चतुर् + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → चतुर् + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य ‘थुक्’ आगमः ] → चतुर् + थ् + अ [‘थुक्’ इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः (6.4.143) इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘उर्थ्’ इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘थुक्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।] → चतुर्थ । [अत्र रेफः पदान्ते नास्ति अतः अत्र खरवसानयोर्विसर्जनीयः (8.3.15) इत्यस्य प्रसक्तिः नास्तीति स्मर्तव्यम् ।] चतुर्ण्णाम् पूरणः चतुर्थः । ‘चतुर्’ शब्दस्य विषये एकम् वार्त्तिकमत्र ज्ञातव्यम् - <!चतुरः छयतौ आद्यक्षरलोपश्च !> । इत्युक्ते पूरणार्थे ‘चतुर्’ शब्दात् ‘छ’ तथा ‘यत्’ प्रत्ययौ अपि भवतः ; तथा च एतयोः उपस्थितौ ‘चतुर्’ शब्दस्य ‘च’ (= च् + अ) इत्यस्य लोपः भवति । यथा - [अ] चतुर् + छ → चतुर् + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय-आदेशः] → तुर् + ईय [छ-प्रत्ययस्य उपस्थितौ चतुर्-शब्दस्य ‘च’ इत्यस्य लोपः] → तुरीय । ‘तुरीयः’ इत्यस्य अर्थः अपि ‘चतुर्थः’ इत्येव । [आ] चतुर् + यत् → चतुर् + य [इत्संज्ञालोपः] → तुर् + य [यत्-प्रत्ययस्य उपस्थितौ चतुर्-शब्दस्य ‘च’ इत्यस्य लोपः] → तुर्य चतुर्ण्णाम् पूरणः तुर्यः । ‘चतुर्थः’ इत्येव अर्थः । एतादृशमनेन सूत्रेण ‘षष्ठ’, ‘कतिथ’, ‘कतिपयथ’, ‘चतुर्थ’, ‘तुरीय’ तथा ‘तुर्य’ एते शब्दाः सिद्ध्यन्ति । स्मर्तव्यम् - 1. अनेन सूत्रेण उक्तः ‘थुक्’ आगमः ‘अङ्गस्य’ आगमः अस्ति, न हि ‘प्रत्ययस्य’ । अतएव अस्मिन् सूत्रे ‘डट्’ इति सप्तम्या विपरिणम्यते, येन परनिमित्तस्य निर्देशं कृत्वा सङ्ख्यावाचिशब्दस्य / ‘कतिपय’शब्दस्य ‘स्थानित्वम्’ निर्दिष्टमस्ति । 2. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन स्त्रीत्वे विवक्षिते ‘ङीप्’ प्रत्ययं स्वीकुर्वन्ति । यथा - षष्ठी तिथी (sixth day), चतुर्थी परीक्षा (fourth exam), कतिथी कक्षा (how manieth class), कतिपयथी माला (a garland of whatsoever index) - आदयः । 3. ‘यत्’ प्रत्ययान्तः ‘तूर्य’ शब्दः तथा ‘छ’-प्रत्ययान्तः ‘तुरीय’ शब्दः स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययं स्वीकुरुतः । यथा - तुर्या कक्षा / तुरीया कक्षा । 4. ‘षष्’, ‘चतुर्’ तथा ‘कति’ एते शब्दाः स्त्रीप्रत्ययं न स्वीकुर्वन्ति, परन्तु ‘कतिपय’ शब्दस्य स्त्रीत्वे विवक्षिते ‘टाप्’ प्रत्ययं स्वीकृत्य ‘कतिपया’ इति परिवर्तनं भवति । अस्मात् शब्दात्अपि वर्तमानसूत्रेण ‘डट्’ प्रत्ययः तथा तस्य ‘थुक्’ आगमः भवति । अस्यां प्रक्रियायाम् थुक्-आगमात् पूर्वमेव ‘कतिपया’ शब्दस्य पुंवद्भावः विधीयते । प्रक्रिया इयम् - कतिपया + डट् → कतिपय + डट् [<!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इत्यनेन कतिपया-शब्दस्य पुंवद्भावः] → कतिपय + थुक् + डट् [वर्तमानसूत्रेण थुक्-आगमः] → कतिपयथ → कतिपयथ + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ‘ङीप्’] → कतिपयथी कतिपयानाम् पूरणी कतिपयथी । प्रश्नः - अस्मिन् सूत्रे ‘थुक्’ इति नूतनः आगमः किमर्थमुच्यते? पूर्वसूत्रात् ‘थट्’ इत्यस्य अनुवृत्तिं स्वीकृत्य प्रत्ययस्य आद्यवयवरूपेण आगमे विहिते अपि एतानि एव रूपाणि भवेयुः किल? उत्तरम् - यदि ‘थट्’ इति आगमः उच्येत, तर्हि यदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते अनया परिभाषया अत्र ‘थट्’ इति प्रत्ययस्यैव अवयवः भवेत्, येन प्रत्ययस्य दृश्यरूपम् ‘थ’ इति सिद्ध्येत । अस्यां स्थितौ स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन ‘थ’ इत्यस्य उपस्थितौ अङ्गस्य पदसंज्ञा भवेत् , येन ‘षष् + थ’ इत्यत्र झलांं जशोऽन्ते (8.2.39) इत्यनेन षकारस्य जश्त्वे डकारः स्यात् ; यस्य अग्रे चर्त्वे टकारः भवेत् , येन ‘षट्ठ’ इति असमीचीनम् रूपम् जायेत । तथैव, ‘चतुर् + थ’ इत्यत्र रेफस्य विसर्जनीये ततश्च सकारे कृते ‘चतुस्थ’ इति असाधु रूपम् सिद्ध्येत, न हि ‘चतुर्थ’ इति । अतः ‘षष्ठ’ तथा ‘चतुर्थ’ एते साधुरूपे साधयितुमेव अस्मिन् सूत्रे ‘थुक्’ इति अङ्गस्य अन्त्यागमः विधीयते, न हि ‘थट्’ इति प्रत्ययस्य आद्यागमः ।

Vasu English Summary

When डट् follows, थुक् is the augment of the words 1. षट् 2. कति 3. कतिपय and 4. चतुर्।

Vasu English Translation

When डट् follows, थुक् is the augment of the words 1. षट् 2. कति 3. कतिपय and 4. चतुर्। The डट् is to be read into this sutra, and it should be changed into locative, as डटि ‘when dat follows’. The word कतिपय is not a Numeral, it takes डट् by force of this sutra. Thus षण्णां पूरणो = षष्ठः ‘sixth’. कतिथः ‘the which in order?’ कतिपयथः ‘the one in order after several’, चतुर्थः ‘the fourth’.

Vart:- The affixes छ (ईय) and यत् come after चतुर् and there is elision of the first letter. As तुरीयः or तुर्यः ॥

In this and the two following sutras, the action of the ड् of डट् vanishes when an augment is added.

Bhashya

षट्कतिकतिपयचतुरां थुक् (2069) (5735 उपसंख्यानवार्तिकम्॥ 1 ॥) - चतुरश्छयतावाद्यक्षरलोपश्च - (भाष्यम्) चतुरश्छयतौ वक्तव्यौ, आद्यक्षरलोपश्च वक्तव्यः। तुरीयम्। तुर्यम्॥ (वार्तिकावतरणभाष्यम्) अथ किमर्थं थट्थुकौ पृथक् क्रियेते। न सर्वं थडेव वा स्यात् थुगेव वा॥ (5736 पृथगनुबन्धप्रयोजनवार्तिकम्॥ 2 ॥) - थट्थुकोः पृथक्करणं पदान्तविधिप्रतिषेधार्थम् - (भाष्यम्) थट्थुकोः पृथग्ग्रहणं क्रियते पदान्तविधिप्रतिषेधार्थम्। पदान्तविध्यर्थम्, पदान्तप्रतिषेधार्थं च। पदान्तविध्यर्थं तावत् - पर्णमयानि पञ्ञ्चथानि भवन्ति, रथः सप्तथः। पदान्तस्येति नलोपो यथा स्यात्। पदान्तप्रतिषेधार्थम् - षष्ठः। पदान्तस्येति जश्त्वं मा भूत्। इह - चतुर्थ इति, पदान्तस्येति विसर्जनीयो मा भूदिति॥

Kashika

डडित्यनुवर्तते, तदिह सप्तम्या विपरिणम्यते। षट् कति कतिपय चतुर् इत्येतेषां डटि परतस्थुगागमो भवति। कतिपयशब्दो न संख्या, तस्यास्मादेव ज्ञापकाद् डट् प्रत्ययो विज्ञायते। षण्णां पूरणः षष्ठः। कतिथः। कतिपयथः। चतुर्थः॥ चतुरश्छयतावाद्यक्षर — लोपश्च॥ चतुर्णां पूरणः तुरीयः। तुर्यः॥

Siddhanta Kaumudi

एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यतएव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः ।<!चतुरश्छयतावाद्यक्षरलोपश्च !> (वार्तिकम्) ॥ तुरीयः । तुर्यः ॥

Laghu Siddhanta Kaumudi

एषां थुगागमः स्याड्डटि। षण्णां षष्ठः। कतिथः। कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट्। कतिपयथः। चतुर्थः॥

Balamanorama

षट्कतिकतिपयचतुरां थुक् - षट्कति । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्त्यादचः परः । षष्ठ इति । अपदान्तत्वात्षस्य न जश्त्वम् । चतुर्थ इति अपदान्तत्वान्न रेफस्य विसर्गः । चतुर इति । वार्तिकमिदम् । चतुर्शब्दात्षष्ठन्तात्पूरणे छयतौ स्तः । आद्यक्षरस्य लोपश्चेति । ‘च’ इति सङ्घातस्य लोपश्चेत्यर्थः ।

Tattvabodhini

षट्कतिकतिपयचतुरां थुक् - षट्कति । इह षष्ठीनिर्देशबवात् षडादीनामागमित्वं स्पष्टमिति तदानुकूल्यंनानुवृत्तो डट् सप्तम्या विपरिणम्यते । तदाह -डटीति । डट एव थुट् तु न कृतः, षष्ठो षकारस्य जश्त्वुप्रसङ्गात् । चतुर्थे रेफस्य विसर्गप्रसङ्गाच्च । न चैवंनान्ता ॑दिति सूत्रेऽपि डति परे मुगेव विधीयतामिति वाच्यं, पञ्चमः सप्तम इत्यादौ नलोपाऽभावापत्तेः ।चतुरश्छयता वाद्यक्षरलोपश्च । चतुरश्छयताविति । विशेषविहिताभ्यामपि छयभ्द्यां डट्प्रत्ययो न बाध्यते, थुग्विधानसामर्थ्यात् । तेनचतुर्थ॑इति सिद्धम् । आद्यक्षरेति । अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेव्र्यञ्जनस्येत्यर्थः ।व्यञ्जनसहितस्यादेरच॑इति व्याख्याने तु द्विर्वचनन्यायेन तकारस्यापि लोपः स्यादिति हरदत्तः ।आदेव्र्यञ्जनस्ये॑ति व्याख्याने प्रमाणं तु — — ॒द्वितीयतृतीये॑ति सूत्रेतुर्याणी॑ति निर्देशो बोध्यः ।

Padamanjari

तदिह सप्तम्या विपरिणम्यत इति। यदि पूर्ववत् षष्ठ।ल विपरिणाम इष्टः स्यात्, पञ्चम्या निर्द्दिशेत्; षष्ठ।ल निर्देशातु षषादीनामेवागमित्वं विज्ञायते। ततश्चानुवृतस्य डटोऽर्थात्सप्तम्या विपरिणाम इत्यर्थः। एवं च कृत्वा षष्ठाष्टमाभ्यां द्वितीयतृतीयतुर्थेति निर्द्देश उपपद्यते। कतिपयशब्दो न संख्येति। यद्यप्यसावतिप्रचयरहितं बहुत्वमाचष्टे, तथापि लोके संख्यात्वेन न प्रसिद्धिः, यथा - द्वित्राः पञ्चषा इति। साश्त्रेऽपि नैवास्य संख्यासंज्ञा विहिता, कथं तर्हि डट्प्रत्ययः ? इत्याह - तस्येति। किं पुनस्थुग्विधीयते, न पञ्चमीनिर्द्देशेन प्रकृतस्थडेव विधीयेत ? नैवं शक्यम्; इह षष्ठ इति जश्तवं प्राप्नोति, चतुर्थ इति रेफस्य विसर्जनीयस्तस्य च सत्वं प्राप्नोति; थटः परादित्वेन पूर्वस्य पदत्वात्। यदि पुनः पूर्वसूत्रे थुगेव विधीयेत ? नैवं शक्यम्; पञ्चथः, सप्तथः - नलोपो न स्यात्। इह लिङ्गविशिष्टपरिभाषाया कतिपशब्दादाबन्तादपि थुग्भवति, तत्र’भस्याढेअ तद्धिते’ इति डटि विषयभूत एव पुंवद्भावः, कतिपयानां पूरणी कतिपयथीति भवति। चतुरश्च्छयताविति। च्छयद्भयां डट् न बाध्यते; इटि परतस्थुग्विधानात्। आद्यक्षरलोपश्चेति। अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेर्व्यञ्जनस्येत्यर्थः। व्यञ्जनसहिताज्वचने त्वक्षरशब्दे द्विर्वचनन्यायेन तकारस्यापि लोपः स्यात् ॥

Nyaas

तदिह सप्तम्या इत्यादि। पूरणाधिकारे ह्रयं विधीयमानो डट्सन्नियोगन विधीयते। तत्र यद्यपि सप्तमौ नास्ति, तथापि डटि परतो विज्ञायते। तेनार्थाद्विभक्तिवपरिणामो भवतीति डडिति यद्वत्तेत तदिह सप्तम्या विपरिणम्यते। कतिपयशब्दो न संख्या इति। लौकिकत्वाभावात्? संख्या न भवति; लोकेऽस्य संख्यात्वेनाप्रसिद्धत्वात्। शास्त्रीयोऽपि न भवति; शास्त्रे संख्यासंज्ञाऽविधानात्। यदि न संख्या, कंथमस्य डट्, यत्र परतस्थुग्विधीयते? इत्याह - तस्य इत्यादि। यदेतड्डटि परतः कतिपयशब्दस्य थुग्विधानं तत एव ज्ञापकाड्डट्प्रत्ययोऽस्य भवतीत्यवसीयते। षष्ठः इति। ष्ट्त्वम्। टिलोपोऽत्र न भवति। थुग्विधानसामर्थ्यात्। आगमस्य पूर्वान्तकरणं भसंज्ञार्थम्। यदि परादिः क्रियते ततो भसंज्ञा न स्यात्, तथा चासत्याम्, स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा स्यात्। ततश्च षष्ठ इत्यत्र जश्त्वं प्रसज्येत। चतुर्थः इति। अत्र रेफस्य विसर्जनीयस्य सः (8.3.34) इति सत्वम्। पूर्वान्ते तु संज्ञायां सत्यां न भवति॥

Prakriyasarvasvam

एषां डटि परे थुगागमः स्यात् । षष् थ् अ ष्टुत्वं षष्ठः । कतिथः । कतिपयथः स्वल्पसङ्ख्यापूरकः । चतुर्थः ।<!चतुरश्छयतावाद्यक्षरलोपश्च!> (वा०) । तुरीयः । तुर्यः ॥

Vartika

चतुरश्छयतावाद्यक्षरलोपश्च ।

Sutra Prayogas

  • कतिथ (शिशुपालवधम्): षट्कतिकतिपयचतुरां थुक् इति थुगागमः।