52049: नान्तादसंख्यादेर्मट्

Padacheda: नान्तात् | S | 5 | 1 |

असङ्ख्यादेः | S | 5 | 1 |

मट् | S | 1 | 1 |

Sutrartha

यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् ‘पूरणः’ इत्यस्मिन् अर्थे विहितस्य ‘डट्’ प्रत्ययस्य ‘मट्’ आगमः भवति ।

तस्य पूरणे डट् (5.2.48) अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः ‘पूरणः’ अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । परन्तु यदि अत्र प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदमन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य ‘मट्’ इति आगमः भवति । यथा - 1. ‘पञ्चानाम् पूरणः = पञ्चन् + डट् [तस्य पूरणे डट् (5.2.48) इति डट्] → पञ्चन् + मट् + डट् [डट्-प्रत्ययस्य नान्तादसंख्यादेर्मट् (5.2.49) इति मट्-आगमः । आद्यन्तौ टकितौ (1.1.46) इति आद्यवयवः ।] → पञ्चन् + (म् + अ) [मट्-प्रत्यये परे टकारः इत्संज्ञकः अस्ति, मकारोत्तरः अकारः उच्चारणार्थः अस्ति । डट्-प्रत्यये परे डकारटकारौ इत्संज्ञकौ स्तः । एतेषाम् चतुर्ण्णामपि लोपः भवति ।] → पञ्च + म [स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन पञ्चन्-इत्यस्य पदसंज्ञा; नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारलोपः] → पञ्चम तथैव - 2. सप्तानाम् पूरणः सप्तमः । 3. अष्टानाम् पूरणः अष्टमः । 4. नवानाम् पूरणः नवमः । 5. दशानाम् पूरणः दशमः । ‘दशन्’ शब्दात् अनन्तरम् ये केऽपि नकारान्ताः शब्दाः सन्ति (यथा - ‘एकादशन्’, ‘द्वादन्’ , ‘त्रयोदशन्’ आदयः) तेषु सर्वेषु पूर्वपदमपि सङ्ख्यावाची शब्दः अस्ति (यथा - ‘एकादशन्’ इत्यत्र ‘एक’ - आदयः) अतः एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - ‘एकादशानां पूरणम्’ इत्यत्र केवलम् डट्-प्रत्ययः एव भवति, तस्य ‘मट्’ आगमः न विधीयते । अतः अस्य सूत्रस्य प्रसक्तिः ‘पञ्चन्’, ‘सप्तन्’, ‘अष्टन्’, ‘नवन्’, ‘दशन्’ - एतेषाम् विषये एव भवति । स्मर्तव्यम् - 1. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन स्त्रीत्वे विवक्षिते ‘ङीप्’ प्रत्ययं स्वीकुर्वन्ति । यथा - पञ्चमी तिथी (fifth day), सप्तमी परीक्षा (seventh exam), दशमी कक्षा (tenth class) - आदयः । 2. ‘षष्’ (six) इति सङ्ख्यावाची शब्दः नकारान्तः नास्ति, अतः अस्मात् विहितस्य डट्-प्रत्ययस्य ‘मट्’ आगमः न भवति; अपितु षट्कतिकतिपयचतुरां थुक् (5.2.51) इत्यनेन अङ्गस्य थुक्-आगमः भवति, येन ‘षष्ठ’ इति शब्दः सिद्ध्यति । अतः ‘षण्णाम् पूरणम्’ इत्यस्मिन् अर्थे ‘षष्ठ’ इत्येव शब्दः प्रयुज्यते, न हि ‘षष्ठम’ इति । One of the very common mistake done by beginners and experts alike is to use ‘षष्ठम’ to mean ‘sixth’, which is grammatically incorrect. The correct word for ‘sixth’ is षष्ठ, and not षष्ठम । 3. ‘मट्’ इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् ‘आद्यन्तौ टकितौ (1.1.46) इत्यनेन आद्यवयवविधानम्’ - इति अस्ति । 4. वस्तुतः अत्र प्रक्रियायाम् ‘पञ्चन् + म् + अ’ इति स्थिते टेः (6.4.143) इति टिलोपः विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि ‘अन्म्’ इत्यस्य लोपः भवेत्, येन मट्-आगमस्य प्रयोजनमेव विनश्येत् । अतः ‘मट्’ इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति । तथा च, मट्-आगमः अन्तरङ्गः अस्ति, टिलोपः बहिरङ्गः अस्ति, अतः अपि टिलोपस्य अपेक्षया मट्-प्रत्ययस्यैव कार्यम् भवति ।

Vasu English Summary

The augment मट् comes before डट् in the sense of ‘making full this number’ after a Numeral which ends in न् when no other Numeral precedes it.

Vasu English Translation

The augment मट् comes before डट् in the sense of ‘making full this number’ after a Numeral which ends in न् when no other Numeral precedes it. Thus पंचमः ‘fifth’ (the completer of the five), सप्तमः ॥ Why do we say ‘ending in म्’? Observe विंशतेः पूरणो = विंशः ‘twentieth’. Why do we say ‘not preceded by a Numeral’? Observe एकादशानां पूरणं = एकादशः ॥

Bhashya

नान्तादसंख्यादेर्मट् (2067) (5736 निर्देशानुपपत्तिबोधकवार्तिकम्॥ 1 ॥) - मडादिषु यस्यादिस्तन्निर्देशः - (भाष्यम्) मडादिषु यस्यादिः क्रियते तन्निर्देशः कर्तव्यः। अस्यादिर्भवतीति वक्तव्यम्। अक्रियमाणे प्रत्ययाधिकारात्प्रत्ययोऽयं विज्ञायते। तत्र को दोषः? (5734 तादृशे निर्देशे दोषवार्तिकम्॥ 2 ॥) - प्रत्ययान्तरे हि सति स्वरे दोषः - (भाष्यम्) प्रत्ययान्तरे हि सति स्वरे दोषः स्यात्। विंशतितमः - एष स्वरः प्रसज्येत। विंशतितम इति चेष्यते। स तर्हि तथा निर्देशः कर्तव्यः॥ (वार्तिकद्वयप्रत्याख्यानभाष्यम्) न कर्तव्यः। प्रकृतं डड्ग्रहणमनुवर्तते। क्व प्रकृतम्? तस्य पूरणे डट् (48) इति॥ तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः॥ नान्तादित्येषा पञ्ञ्चमी डडितिप्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति॥ प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः विहितः प्रत्ययः प्रकृतश्चानुवर्तते॥

Kashika

डडिति वर्तते। नकारान्तात् संख्यावाचिनः प्रातिपदिकादसंख्यादेः परस्य डटो मडागमो भवति। नान्तादिति पञ्चमी डट आगमसंबन्धे षष्ठीं प्रकल्पयति। पञ्चानां पूरणः पञ्चमः। सप्तमः। नान्तादिति किम्? विंशतेः पूरणो विंशः। असंख्यादेरिति किम्? एकादशानां पूरण एकादशः॥

Siddhanta Kaumudi

डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥

Laghu Siddhanta Kaumudi

डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम्? विंशः ॥

Balamanorama

नान्तादसंख्याऽऽदेर्मट् - नान्तासङ्ख्यादेर्मट् । डटो मडागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्चारणार्थः । पञ्चम इति । पञ्चन्शब्दाड्डटि तस्य भडागमे सति नलोपः । यद्यपिमटः प्रत्ययत्वेऽपि न रूपभेदः, तथापि स्वरविशेषार्थं मडागमाश्रयणमिति भाष्ये स्पष्टम् ।

Tattvabodhini

नान्तादसंख्याऽऽदेर्मट् - नान्तादसङ्ख्यादेः । डट इति ।डट्इति प्रथमान्तस्यानुवृत्तस्यनान्ता॑दिति पञ्चम्या षष्ठी कल्प्यत इति भावः । यद्यपीह मटः प्रत्ययत्वेऽपि न क्षतिः, तथाप्युत्तरत्र तमट आगमत्वमेवाभ्युपगन्तव्यम्, अनुदात्तता यथा स्यात् । प्रत्ययत्वै ह्राद्युदात्तः स्यात् । तया चैकरूप्येणैव संदर्भव्याख्यानमुचितम् । अन्येत्वाहुः — मटः प्रत्ययत्वे अकारसहितो मकारो विधेयः, आगमत्वे तु मकारमात्रमिति लाघवमस्तीति । विंश इति । विशतेः पूरणः ।ति विंशतेर्डिति॑इति लोपः ।

Padamanjari

डटो मडागमो भवतीति। कथं पुनरयमागमः शक्यो विज्ञातुम्, नात्रागमी निर्दिष्टः, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्दिष्टेन चेहार्थः ? अत आह - नान्तादिति। पञ्चमीग्रहणं तावदनुवर्तते, न च तस्य विधानार्थानुवृत्तिः, पूर्वमेव विहितत्वात्। न च विशेषविहितेन मटा बाधप्रसङ्गे विधानार्था डटोऽनुवृत्तिः, एवं हि प्रकृतस्य समुच्चयार्थश्चकारः क्रियेत, मट् चेति; यथान्यत्र। ततोऽनुवृत्तिसमामर्थ्यात्षठीप्रकॢप्तावागमित्वमेव विज्ञायते। कः पुनर्मटः प्रत्ययत्वे आगमत्वे वा विशेषः, यावता तदेव रूपं स एव स्वरः? सत्यम्; डटि मटि च नास्ति विशेषः,’विंशत्यादिभ्यस्तमडन्यतरस्याम्’ इत्ययं तु तमड।ल्दि प्रत्ययः स्यादाद्यौदातः स्याद्, आगमत्वेनागमानुदातत्वं भवति, न तु प्रत्ययस्वर इति विंशतितम इत्यस्यान्तोदातत्वं भवति। एकादश इति। नायं संख्यासमुदायः, किं तर्हि ? संख्यान्तरमेव। अत एवात्र डड्भवति; अन्यथा सोऽपि न स्यात्। न हि संख्यासमुदायः संख्याग्रहणेन गृह्यते, यथा जनपदसमुदायो जनपदग्रहणेन-काशिकोशलीयाः। अथाप्ययं संख्यासमुदायः; तथापि संख्याग्रहणेन तत्समुदायो गृह्यत इति ज्ञापनार्थमेव ठसंख्यादेःऽ इति वक्तव्यम्; तेन सर्वमेव संक्याकार्यमेकादशादीनामपि भवति ॥

Nyaas

डटो मडागमो भवति इति। अथ प्रत्यय एव नान्तात्? मट्? कस्मान्न भवति? नर्हति प्रत्ययो भवितुम्। प्रत्यये हि तस्मिन्? सति डटोऽनुवृत्तिरपार्थिका स्यात्, स हि पूर्वमेव विहितः, न च विहितस्यानुवृत्तिर्विधानार्थोपपद्यत इति। आगमार्थे च सा विज्ञायते। ननु च पञ्चम इत्यादौ न कश्चिद्विशेषः - मट आगमत्वे, प्रत्ययत्वे वा; तदेव हि रूपम्, स एव हि स्वरः, किञ्चानुवृत्तेन, मट एव प्रत्ययत्वमस्तु? सत्यम्, इह नास्ति विशेषः; विंशतितम इत्यादौ तु विद्यते। तथा हि विंशत्यादिभ्यस्तमडन्यतरस्याम् (5.2.56) इति मट्प्रत्ययः स्यात्। [मयट् मुद्रितपाठः] विंशतितमप्रभृतयः शब्दाः प्रत्ययस्वरेण मध्योदात्ताः स्युः। डटि तु प्रत्यये सति तस्याद्युदात्तत्वे कृते ततश्चागमानुदात्तत्वे चान्तोदात्ता भवन्ति। तस्मादुतरार्थेऽनुवर्तमानस्येहापि डट एव प्रत्ययत्वं विज्ञायते। कथं पुनर्डटो मडागमः शक्यो विधातुम्, यावता प्रथमानिर्दिष्टं प्रकृतं डड्ग्रहणम्, षष्ठीनिर्दिष्टेन चेहार्थः? इत्यादि - नान्तात् इत्यादि। यद्यपि प्रथमान्तं डड्ग्रहणं प्रकृतम्, तथापि डट आगमसम्बन्धेन तस्मादित्युत्तरस्य (1.1.67) इति नान्तादित्येषा पञ्चमी डडिति प्रथमायाः षष्ठीं प्रकलपयतत्यदोषः। पञ्चमः इति। टिलोपोऽत्र न भवति; मटि कृते सत्यभसंज्ञकत्वात्। ननु च परत्वाट्टिलोपेनैव तावद्भवितव्यम्? नैतदस्ति; अन्तरङ्गो ह्रागमः, स हि प्रत्ययसन्नियोगेनोच्यते। टिलोपस्तूत्पन्ने प्रत्यये भसंज्ञाया सत्यां प्रकृतिप्रत्ययावाश्रित्य भवतीति बहिरङ्गो भवति। एकादशानां पूरणा एकादशः इति। कथं पुनरस्मात्प्राप्तिः, यावता संख्याग्रहणमनुवर्तते, संख्यासम्दायोऽपि हि संख्याग्रहणेन गृह्रते - संख्यायतेऽनयेति कृतवा। अवश्यं चैतदेवं विज्ञेयम्; अन्यथाऽदशतया न स्यात्॥

Prakriyasarvasvam

असङ्ख्यादेर्नान्तसङ्ख्यायाः परस्य डटो मडागमः स्यात् । पञ्चमः दशमः । सङ्ख्यादेस्त्वेकादशः ॥