52042: संख्याया अवयवे तयप्

Padacheda: संख्यायाः | S | 5 | 1 |

अवयवे | S | 7 | 1 |

तयप् | S | 1 | 1 |

Sutrartha

प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् ‘अवयवाः अस्य’ इत्यस्मिन् अर्थे तयप्-प्रत्ययः भवति ।

‘अवयव’ इत्युक्ते ‘विभागः / parts’. कस्यचन पदार्थस्य निर्देशः तस्य विभागानाम् सङ्ख्यायाः साहाय्येन कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । This sutra is used when an entity is to be expressed using the number of its parts. यथा - ‘पञ्च अवयवाः अस्य’ इत्यस्मिन् अर्थे ‘पञ्चन्’ शब्दात् ‘तयप्’ प्रत्ययः भवति । पञ्चन् + तयप् → पञ्च + तय [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] → पञ्चतय । विशेषः - ‘तयप्’ प्रत्ययान्तशब्दाः शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । पुंलिङ्गे एतेषाम् रूपाणि ‘बाल’शब्दवत् भवन्ति । नपुंसकलिङ्गे अस्य रूपाणि ‘फल’शब्दवत् भवन्ति । स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययं कृत्वा स्त्रीलिङ्गवाची प्रातिपदिकम् सिद्ध्यति, यस्य रूपाणि नदी’शब्दवत् भवन्ति । यथा - पञ्चतयी, पञ्चतय्यौ, पञ्चतय्यः । तथैव - 1) द्वौ अवयवौ अस्य तत् द्वितयम् । 2) त्रयः अवयवाः अस्य तत् त्रितयम् । 3) चत्वारः अवयवाः अस्य सः चतुष्टयः । प्रक्रिया इयम् - चतुर् + तयप् → चतुः + तय [खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य विसर्गः] → चतुस् + तय [विसर्जनीयस्य सः (8.3.34) इति विसर्गस्य सकारादेशः] → चतुष् + तय [ ह्रस्वात् तादौ तद्धिते (8.3.101) इति षत्वम् ] → चतुष् + टय [ष्टुना ष्टुः (8.4.41) इति तकारस्य टकारादेशः] → चतुष्टय । 4) षट् अवयवाः अस्य सः षट्तयः । अत्र ‘षष्’ इति प्रातिपदिकमस्ति । प्रक्रिया इयम् - षष् + तयप् → षड् + तय [झलां जशोऽन्ते (8.2.39) इति जश्त्वम्] → षड् + तय [ष्टुना ष्टुः (8.4.41) इत्यनेन ष्टुत्वे प्राप्ते न पदान्ताट्टोरनाम् (8.2.42) इति निषेधः ; अतः तकारस्य टकारः न भवति ] → षट् + तय [खरि च (8.4.55) इति चर्त्वे डकारस्य टकारः] → षट्तय । 5) दश अवयवाः अस्य तत् दशतयम् । 6) विंशतिः अवयवाः यस्याः सा विंशतीतयी । 7) शतमवयवाः अस्य सः शततयः । स्मर्तव्यम् - प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (1.1.33) इत्यनेन ‘तयप्’ प्रत्ययान्तशब्दाः पुंलिङ्गे जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति । सर्वनामसंज्ञायां सत्याम् इयम् प्रक्रिया विधीयते - पञ्चतय + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → पञ्चतय + शी [जसः शी (7.1.17) इत्यनेन अदन्तात् सर्वनामसंज्ञकात् परस्य ‘जस्’ प्रत्ययस्य ‘शी’ इति आदेशः भवति । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वादेशः ।] → पञ्चतय + ई [इत्संज्ञालोपः] → पञ्चतये [आद्गुणः (6.1.87) इति गुण-एकादेशः] यथा - पञ्चतये प्रश्नाः (Questions which have five parts each इत्यर्थः) । पक्षे ‘पञ्चतयाः प्रश्नाः’ इत्यपि साधु ।

Vasu English Summary

The affix तयप् comes in the sense of ‘that whereof the parts are so many’ after a numeral.

Vasu English Translation

The affix तयप् comes in the sense of ‘that whereof the parts are so many’ after a numeral. The word तदस्य is understood here. Thus पंच अवयवा अस्य = पंचतयम् ‘having five parts’. The part being connected with the whole, the force of the affix is to denote the whole. So also दशतयम्, चतुष्टयम्, चतुष्टयी (8.3.101) and (4.5.15)

Bhashya

संख्याया अवयवे तयप् (2060) (तयप्प्रत्ययाधिकरणम्) (संख्याशब्देन कस्याग्रहणमितिनिर्णयभाष्यम्) इह कस्मान्न भवति - बहवोऽवयवा अस्याः संख्याया इति? अवयवे या संख्या इत्युच्यते, न च काचित्संख्याऽस्ति यस्या बहुशब्दोऽवयवः स्यात्। ननु चेयमस्ति - संख्येत्येव। नैषा संख्या, संज्ञैषा॥ (5719 अवयविनि तयब्विधिवार्तिकम्॥ 1 ॥) - अवयवविधानेऽवयविनि प्रत्ययः - (भाष्यम्) अवयवविधानेऽवयविनि प्रत्ययो भवतीति वक्तव्यम्। इह मा भूत् - पञ्ञ्चावयवाः, दशावयवाः - इति॥ (आक्षेपपूर्वकं वार्तिकान्यथासिद्धिसाधकं भाष्यम्) अथ अवयविनीत्युच्यमानेऽवयवस्वामिनि कस्मान्न भवति - पञ्ञ्च पश्ववयवा देवदत्तस्येति? अवयवशब्दोऽयं गुणशब्दः, अस्येति च वर्तते। तेन यं प्रत्यवयवो गुणस्तस्मिन्नवयविनि प्रत्ययेन भवितव्यम्। कं च प्रत्यवयवो गुणः? समुदायम्॥ यद्येवमवयविनीत्यपि न वक्तव्यम्। अवयवेषु कस्मान्न भवति? अस्येति वर्तते॥

Kashika

तदस्येत्येव। संख्याया अवयवे वर्तमानाया अस्येति षष्ठ्यर्थे तयप् प्रत्ययो भवति। अवयवा अवयविनः संबन्धिन इति सामर्थ्यादवयवी प्रत्ययार्थो विज्ञायते। पञ्च अवयवा अस्य पञ्चतयम्। दशतयम्। चतुष्टयम्। चतुष्टयी॥

Siddhanta Kaumudi

पञ्चावयवा अस्य पञ्चतयं दारु ॥

Laghu Siddhanta Kaumudi

पञ्च अवयवा अस्य पञ्चतमम् ॥

Balamanorama

संख्याया अवयवे तयप् - सङ्ख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः ।

Tattvabodhini

संख्याया अवयवे तयप् - संख्यायाः । अवयवे वर्तमाना या संख्या तद्वाचिनः प्रथमान्तात्षष्ठआर्थे तयप् स्यात् । यं प्रत्यवयवः सोऽवयवी प्रत्ययार्थः,अस्ये॑त्यधिकारात् । यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयं प्रत्ययार्थस्तद्वत् ।

Padamanjari

इहास्येत्यधिकारात्संख्याया अवयवे वर्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति - पञ्च अवयवा अस्य देवदतस्येति। तत्राह - अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे’ह्रस्वातादौ तद्विते’ इति षत्वम्,’टिड्ढाणञ्’ इति ङीप् ॥

Nyaas

चतुष्टयी इति। चतुरो रेफस्य विसर्जनीयस्य सः (8.3.34) इति सः; तस्यापि ह्रस्वात् तादौ तद्धिते (8.3.101) इति मूर्धन्यः, टिड्ढाणञ् (4.1.15) इत्यादिना ङीप्॥

Prakriyasarvasvam

सोऽस्या अवयव इत्यर्थे संख्यायास्तयप् स्यात् । चतुरवयवा चतुष्टयी रज्जुः । गवां चतुष्टयमित्यादौ चतुरवयवः सङ्घोऽर्थः ।

Sutra Prayogas

  • चतुष्टयी (कुमारसम्भवम्): संख्याया अवयवे तयप् इति तयप् ।