52041: किमः संख्यापरिमाणे डति च¶
Padacheda: किमः | S | 5 | 1 |
संख्यापरिमाणे | S | 7 | 1 |
डति | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
‘सङ्ख्या’ अस्मिन् विवक्षायाम् प्रयुक्तः यः ‘परिमाण’ शब्दः, तस्य विशेषणरूपेण युक्तः यः ‘किम्’ शब्दः, तस्मात् प्रथमासमर्थात् ‘अस्य’ इत्यस्मिन् अर्थे ‘डति’ प्रत्ययः ‘वतुँप्’ प्रत्ययः च विधीयते ।
यत्र ‘किम्’ अयम् सर्वनामशब्दः ‘सङ्ख्या’ इत्यस्य विवक्षायाम् ‘परिमाण’ शब्दस्य विशेषणरूपेण प्रयुज्यते (That is, quantity representing a number), तत्र तस्मात् शब्दात् ‘अस्य’ इत्यस्मिन् अर्थे डति-प्रत्ययः वतुँप्-प्रत्ययः च भवति । यथा - ‘का सङ्ख्या परिमाणम् एतेषाम्’ इति वाक्यम् स्वीकुर्मः । What number represents the quantity of these - इति अस्य शब्दशः अनुवादः । (How many are these’ इति आशयः) । अत्र प्रश्नस्य उत्तरार्थम् सङ्ख्यावाची शब्दः अपेक्षितः अस्ति; अतः अत्र ‘सङ्ख्यापरिमाणे’ प्रत्ययविधानम् इष्यते । अस्यां स्थितौ ‘किम्’ शब्दात् ‘डति’ तथा ‘वतुँप्’ एतौ प्रत्ययौ विधीयेते । क्रमेण पश्यामः - 1. डति-प्रत्ययः - किम् + डति → किम् + अति [डकारस्य चुटू (1.3.7) इति इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः । तकारोत्तरः इकारः न हि इत्संज्ञकः अस्ति न हि उच्चारणार्थः । अयम् इकारः तु प्रत्ययस्यैव अंशः अस्ति ।] → क् + अति [डित्-प्रत्यये परे टेः (6.4.143) इति टिलोपः] → कति ‘कति’ शब्दस्य अर्थः ‘का सङ्ख्या परिमाणम् एषाम्’ (how many) इति । विशेषः - अ) डति च (1.1.25) इत्यनेन डति-प्रत्ययान्तशब्दाः षट्-संज्ञकाः भवन्ति । अतः ‘कति’ शब्दस्य ‘षट्’ इति संज्ञा भवति । (सङ्ख्यावाची ‘six’ इत्यस्मिन् अर्थे प्रयुक्तः षट्-शब्दः तु सर्वथा भिन्नः अस्तीति स्मर्तव्यम् ) । आ) बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन डति-प्रत्ययान्तशब्दाः ‘सङ्ख्या’ इति संज्ञां प्राप्नुवन्ति । अतः ‘कति’ शब्दस्य ‘सङ्ख्या’ इति अपि संज्ञा भवति । इ) ‘कति’ शब्दः नित्यं बहुवचने एव प्रयुज्यते । अस्य रूपाणि त्रिषु अपि लिङ्गेषु समानानि एव भवन्ति - ‘कति, कति, कतिभिः, कतिभ्यः, कतिभ्यः, कतीनाम्, कतिषु’। अस्य प्रथमाद्वितीयाबहुवचनयोः प्रक्रिया इयम् - कति + जस् / शस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः / द्वितीयाबहुवचनस्य शस्-प्रत्ययः] → कति [षट्-संज्ञकात् परस्य जस्/शस्-प्रत्यययोः षड्भ्यो लुक् (7.1.22) इति लुक् ] यथा - कति वृक्षाः , कति नद्यः, कति फलानि । 2. वतुँप्-प्रत्ययः = किम् + वतुँप् → किम् + वत् [इत्संज्ञालोपः] → किम् + घत् [किमिदंभ्यां वो घः (5.2.40) इत्यनेन वकारस्य घकारादेशः] → किम् + इयत् [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् (7.1.2) इति घ-इत्यस्य इय-आदेशः] → की + इयत् [इदङ्किमोरीश्की (6.3.90) इत्यनेन ‘किम्’ इत्यस्य वतुँप्-प्रत्यये परे ‘की’ आदेशः । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वादेशः] → क् + इयत् [यस्येति च (6.4.148) इति ईकारलोपः] → कियत् । अत्र निर्मितः ‘कियत्’ शब्दः ‘का सङ्ख्या परिमाणम् एषाम्’ (how many) अस्मिन् अर्थे प्रयुज्यते । विशेषः - 1. ‘कियत्’ अयम् शब्दः वर्तमानसूत्रस्य सन्दर्भे केवलम् बहुवचनेषु एव प्रयुज्यते (To indicate the meaning of ‘how many’, only a plural makes sense.) । 2. अस्य शब्दस्य त्रिषु अपि लिङ्गेषु रूपाणि भवितुमर्हन्ति । पुंलिङ्गे अस्य रूपाणि ‘यावत्’ शब्दवत् भवन्ति - ‘कियन्तः, कियतः, कियद्भिः, कियद्भ्यः, कियद्भ्यः, कियताम्, कियत्सु’ । स्त्रीलिङ्गे उगितश्च (4.1.6) इत्यनेन ङीप्-प्रत्ययः भवति, येन ‘कियती’ इति प्रातिपदिक सिद्ध्यति ; अस्य च रूपाणि ‘नदी’ शब्दवत् भवन्ति । यथा - कियत्यः, कियतीः, कियतीभिः, कियतीभ्यः, कियतीभ्यः, कियतीनाम्, कियतीषु । नपुंसकलिङ्गे अस्य रूपाणि ‘जगत्’ शब्दवत् भवन्ति । यथा - कियन्ति, कियन्ति, कियद्भिः, कियद्भ्यः, कियद्भ्यः, कियताम्, कियत्सु’ । उदाहरणानि - कियन्त वृक्षाः, कियत्यः नद्यः, कियन्ति फलानि । 3. बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन वतुँप्-प्रत्ययान्तशब्दाः ‘सङ्ख्या’ इति संज्ञां प्राप्नुवन्ति । अतः ‘कियत्’ शब्दस्य अपि ‘सङ्ख्या’ इति संज्ञा भवति । 4. किमिदंभ्यां वो घः (5.2.40) इत्यनेन अपि ‘कियत्’ शब्दस्य निर्माणम् भवति, परन्तु तत्र निर्मितः ‘कियत्’ शब्दः सामान्यपरिमाणस्य विवक्षायाम् (‘What is the measure of this’ / ‘how much’ अस्मिन् अर्थे) प्रयुज्यते । वर्तमानसूत्रेण निर्मितः कियत्-शब्दः तु सङ्ख्यापरिमाणस्य अर्थे (= ‘how many’ इति) प्रयुज्यते । स्मर्तव्यम् - अस्मिन् सूत्रे ‘सङ्ख्यापरिमाणे’ इति उच्यते । वस्तुतः ‘सङ्ख्या’ इत्येव उच्यते चेदपि स एव अर्थः सिद्ध्यति - इति भासते । यथा - ‘का सङ्ख्या एषाम्’ इत्यस्य अर्थः अपि ‘का सङ्ख्या परिमाणम् एषाम्’ इत्येव अस्तीति भासते । परन्तु द्वयोः वाक्ययोः मध्ये सूक्ष्मः भेदः अस्ति । केषुचन स्थलेषु सङ्ख्यावाची शब्दः परिमाणरूपेण नैव प्रयुज्यते । यथा - ‘का सङ्ख्या एषां दशानाम्’ (What number is being given to this set of ten - इति आशयः) । अत्र ‘किम्’ इति शब्दः केवलम् ‘सङ्ख्यायाः’ विवक्षायाम् एव प्रयुज्यते, अत्र ‘परिमाणस्य’ निर्देशः नास्ति । (The question being asked here is not ‘how many’, but the question is ‘what number is this’ - इति आशयः) । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।
Vasu English Summary¶
The affixes डति (अति with the elision of इम्) and वतुप् come in the sense of ‘numerical quantity’ after the word किम् in the Nominative 1st-Case in construction.
Vasu English Translation¶
The affixes डति (अति with the elision of इम्) and वतुप् come in the sense of ‘numerical quantity’ after the word किम् in the Nominative 1st-Case in construction. The च introduces the affix वतुप् which is changed into घतुप् (इयत्) ॥
The word संख्यापरिमाणे means संख्यायाः परिमाणं i.e. संख्यापरिच्छेदः ‘making estimate by numbers’. As का संख्या परिमाणमेषां ब्राह्मणानां = कति ब्राह्मणाः or कियन्तो ब्राह्मणाः ‘how many Brahmanas in number do you estimate these’. This always comes in the plural.
This word is formed, in fact, when a question is put relating to the numerical quantity (sankhya-parimana) of any thing. But the word sankhya-parimana may be explained also as a Karmadharaya, in which the attributive word has been placed second. It will then mean “quantitative number”. The sutra will be rendered thus: “kim takes dati, when it means a quantitative number”. It should not be objected that numbers are always quantitative, and therefore parimana is redundant in the aphorism. For sometimes numbers are used not to define any quantity but merely to mark contempt. As in the following:-
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समतानां पारषत्वं न विद्यते॥ Here the word सहस्रशः is used indefinitely in a contemptuous sense. Therefore, it is not true that a number always defines a quantity. Where किम् is used to express contemptuous number, no affixing takes place : as केयमेषां संख्या दशानाम् ॥ The word parimana in this sutra is not used in its technical sense; as in Sutra (5.2.39) ante: for its very repetition here shows that it is used here to denote ‘quantity’ in general, and not ‘capacity’, for a number cannot mean ‘capacity’.
Bhashya¶
किमः संख्यापरिमाणे डति च (2059) (पूर्वपक्षिण उपसंख्यानभाष्यम्) बहुष्विति वक्तव्यम्। इह मा भूत् - कियान्, कियन्तौ। तत्तर्हि वक्तव्यम्॥ (सिद्धान्तभाष्यम्) न वक्तव्यम्। किमित्येतत्परिप्रश्ने वर्तते, परिप्रश्नश्चानिर्ज्ञाते, अनिर्ज्ञातं च बहुषु। द्व्येकयोः पुनर्निज्ञातम्। निर्ज्ञातत्वाद् द्वयेकयोः परिप्रश्नो न भवति। परिप्रश्नाभावात् किमेव तावन्नास्ति कुतः प्रत्ययः॥
Kashika¶
संख्यायाः परिमाणं संख्यापरिच्छेद इत्यर्थः। संख्यापरिमाणे वर्तमानात् किमः प्रथमासमर्थादस्येति षष्ठ्यर्थे डतिः प्रत्ययो भवति। चकाराद् वतुप्। तस्य च वकारस्य घादेशो भवति। पृच्छ्यमानत्वात् परिच्छेदोपाधिकायां संख्यायां वर्तमानात् किमः प्रत्ययो विज्ञायते। का संख्या परिमाणमेषां ब्राह्मणानां कति ब्राह्मणाः। कियन्तो ब्राह्मणाः। अथवा संख्यैव परिमाणात्मिका परिच्छेदस्वभावा गृह्यते — का संख्या परिमाणं येषामिति। ननु च संख्या एवमात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते? यत्रापरिच्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति। क्षेपे हि परिच्छेदो नास्ति — केयमेषां संख्या दशानामिति॥
Siddhanta Kaumudi¶
चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥
Balamanorama¶
किमः संख्यापरिमाणे डति च - किमः सङ्ख्या । तदस्येत्यनुवर्तते । सङ्ख्यायाः परिमाणं=परिच्छेदः । किंशब्दःप्रश्ने वर्तते । का अस्य सङ्ख्येत्येवं सङ्ख्या परिच्छेदविषयकप्रश्ने विद्यमानात्कशब्दात्प्रथमान्तादस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः । कतीति । का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति,अस्ये॑त्यनेन एकत्वस्य, अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नाऽसम्भवात् । का सङ्ख्या एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात् । उक्तं च भाष्ये — ॒न द्व्येकयोः प्रश्नोऽस्ती॑ति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दोडति चे॑ति षट्संज्ञकत्वात्षड्भ्यो लु॑गिति जश्शसोर्वुक् । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचने विशेषः । ‘सङ्ख्यापरिमाणे’ इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का सङ्ख्या एषां दशानामिति ।दशाऽवरा परिष॑दित्यत्र ब्राआहृणब्राउवाणां मेलने इदं वाक्यं प्रवृत्त्म् । सङ्ख्येयद्वारा सङ्ख्यायाः कुत्साऽत्र गम्यते,अव्रतानाममत्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्त्वं न विद्यते ।॑ इति स्मरणात् ।
Tattvabodhini¶
किमः संख्यापरिमाणे डति च - किमः सङ्ख्या ।तदस्ये॑त्यनुवर्तत एव । संख्यायाः परिमाणं=परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्तमानात्किमः प्रथमासमर्थादस्येति षष्ठर्थे डतिः स्यात् । सङ्ख्यापरिमाणे किम् । क्षेपे माभूत् । का सङ्ख्येयमेषां दशानाम् ।अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्त्वं न विद्यते इत्येवं सङ्ख्येयद्वारेणाऽत्र संख्यायां कुत्सा बोध्या ।
Padamanjari¶
सङ्ख्यायाः परिमाणमिति। करणस्य कर्तृत्वविवक्षया कृद्योगलक्षणा कर्तरि षष्ठी। परिमितिःउपरिमाणम्। सङ्ख्या परिच्छेद इति॥ सह्ख्या यं परिच्छेदं परोति तत्रेत्यर्थः। तस्य च वकारस्य घकार इति।’वो घः’ इत्यनुवृतेः। ननु का संख्या परिमाणमेषामित्यत्र किंशब्दः परिच्चेदिकायां सङ्खयायां वर्तते, न पुनः परिच्छेदे? तत्राह - पृच्छयमानत्वादिति। परिच्छेदकत्वविशिष्टा संख्या पृच्छयते - का संख्या परिच्छेदिकैषामिति, तत्र परिच्छेदस्यापि पृच्छयमानाकारान्तर्भावात्संक्यापरिच्छेदे वर्तमानादित्युक्तमित्यर्थः। अपर आह -‘ठ्संख्यायाः’ इति कर्मणि षष्ठी, संख्यापरिच्छेदार्थप्रश्ने वर्तमानः संख्यापरिच्छेदे वर्तत इत्युच्यते। संख्यायां परिच्छेतुमिष्टायां यः प्रश्नस्तत्र वर्तमानादित्यर्थःऽ इति। कति।’षहुष्विति वृतौ बहुवचनमेव भवति। उक्तं च - ठनिर्ज्ञातेर्’ र्थे बहुवचनं प्रयोक्तव्यम्ऽ इति। कथं तर्हि कियान्, कियन्ताविति ? नात्र संख्याप्रश्ने किशब्दः, किं तर्हि ? परिमाणमात्रप्रश्ने। संख्याप्रश्ने तु तत्रापि बहुवचनमेव भवति - कियन्तो ब्राह्णा इति। यदीया च संख्या पृच्छयते तत्र प्रत्ययाः, तेन का संख्या हि तदा प्रत्ययेन भाव्यम् - कति गावोऽस्मिन्वर्ग इति। सङ्घसङ्घिनोरभेदविवक्षायां तु - कति गावोऽ??? वर्ग इति, न तु व्यवस्थितसंख्यासम्बन्धे वर्गे, वर्गसंख्याप्रश्ने तु कति वर्गा इति भवति। अथ वेत्यादि। अस्मिन्पक्षे संख्यापरिमाण इति कर्मधारयः, निपातनाच्च विशेषणस्य परनिपातः, करणसाधनश्च परिमाणशब्दः। एवमात्मिकेत्यस्य विवरणम् - परिच्छेदस्वभावेति। यत्रापरिच्छेदकत्वेन विवक्ष्यते इति। परिच्छेदकत्वेन न विवक्ष्यत इत्यर्थः। तथैव वा पाठः। क्व पुनरेवं न विवक्ष्यते ? इत्याह - क्षेपे हीति। केयमेषामिति। केयमीदृशानां दशत्वसंख्या येषांम् । अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्वं न विद्यते ॥ इति। एवं संख्येयद्वारेण संख्यायां क्षेपः। प्रकृतः परिमाणशब्दो रूढिशब्दत्वात् संख्याया परिसम्बन्द्धुअं नार्हतीति परिच्छैतिमात्रावचनः पुनरिहोपातः ॥
Nyaas¶
संख्यायाः परिमाणम् इति। कृद्योगलक्षणा कर्मणि षष्ठी। परिमितिः परिमाणम्। संख्यापरिच्छेद इत्यर्थः। परिच्छेद ति भावे घञ्। संख्यापरिच्छेदे वर्तमानात् इति। परिच्छेदोपाधिकायां संख्यायां वर्तमानादित्येषोऽर्थो विवक्षितः। यथा ह्रयमेवार्थोऽस्य वचनस्योत्तरत्र तथा व्यक्तीकरिष्यते। तस्य वकारस्य घत्वमिति; वो घः इत्यनुवृत्तेः। पृच्छ्यमानत्वात् इति। यदा संख्यायाः परिच्छेदे किंशब्दो वर्तते। कदा च वर्तते? यदा संख्या परिपृच्छ्यमाना भवति। न ह्रपरिपृच्छ्यमानायाः परिच्छेद उपपद्यते। यदा च परिपृटच्छ्यमाना भवति, तदा च किंशब्दः परिच्छेदविशिष्टायां वर्तत इति पृच्छ्यमानत्वात्? परिच्छेदोपादिकायां संख्यायां वर्तमानात्? किमः प्रत्ययो भवतीति विज्ञायते। परिच्छेद उपाधिविशेषणभूतो यस्याः सा परिच्छेदोपाधिका। परिचछेदविशेषणेति यावत्। तदनेन संक्यापरिच्छेदे वर्तमानात्? किम इत्यस्य योऽर्थोऽभिमतः स व्यक्तीकृतः। `कति इति। जसः षड्भ्यो लुक् (7.1.22) इति लुक्। अथ वा इत्यादि। अत्र च व्याख्याने संख्यापरिमाणे इति कर्मधारयः, निपातनादुपसर्जनस्यायं परनिपातः। परिमाणशब्दश्च परिमीयतेऽनेनेति करणसाधनः। एवमात्मिकैव इति। अस्यार्थं परिच्छेदस्वभावेत्यनेन विस्पष्टीकरोति। परिच्छिद्यतेऽनेनेति परिच्छेदः, स स्वभावो यस्याः सा तथोक्ता। यत्र इत्यादिना यदर्थं परिमाणग्रहणेन संख्या विशेष्यते तद्दर्शयति। स्यादेतत् - नास्त्येव स विशेषो यत्र संख्यायाः परिच्छेदस्वभावो नास्ति, तदपार्थकं विशेषणमिति? अत आह - क्षेपे हि इत्यादि। केयमेषां संख्या दशानाम् इति। नात्र संख्या परिच्छेदकत्वेन विवक्षिता। न ह्यत्र परिच्छेदोऽस्ति; क्षेपपरत्वाद्वाक्यस्य। किंशब्दोऽत्र क्षेपे वर्तते, न प्रश्ने॥
Prakriyasarvasvam¶
संख्येयत्ताप्रश्ने किमो डतिः पूर्वोक्तं च स्यात् ।<!डतिर्बहुत्व एवेष्टः!> (वा०) । डित्वाट्टिलोपः । कति बालाः कियन्तः । यत्तद्भ्यां च डतिरिति कौमुदी । यति । तति ।