52042: संख्याया अवयवे तयप् ========================== **Padacheda:** संख्यायाः | S | 5 | 1 | अवयवे | S | 7 | 1 | तयप् | S | 1 | 1 | Sutrartha --------- **प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अवयवाः अस्य' इत्यस्मिन् अर्थे तयप्-प्रत्ययः भवति ।** 'अवयव' इत्युक्ते 'विभागः / parts'. कस्यचन पदार्थस्य निर्देशः तस्य विभागानाम् सङ्ख्यायाः साहाय्येन कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । This sutra is used when an entity is to be expressed using the number of its parts. यथा - 'पञ्च अवयवाः अस्य' इत्यस्मिन् अर्थे 'पञ्चन्' शब्दात् 'तयप्' प्रत्ययः भवति । पञ्चन् + तयप् → पञ्च + तय [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → पञ्चतय । विशेषः - 'तयप्' प्रत्ययान्तशब्दाः शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । पुंलिङ्गे एतेषाम् रूपाणि 'बाल'शब्दवत् भवन्ति । नपुंसकलिङ्गे अस्य रूपाणि 'फल'शब्दवत् भवन्ति । स्त्रीत्वे विवक्षिते **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इत्यनेन ङीप्-प्रत्ययं कृत्वा स्त्रीलिङ्गवाची प्रातिपदिकम् सिद्ध्यति, यस्य रूपाणि नदी'शब्दवत् भवन्ति । यथा - पञ्चतयी, पञ्चतय्यौ, पञ्चतय्यः । तथैव - 1) द्वौ अवयवौ अस्य तत् द्वितयम् । 2) त्रयः अवयवाः अस्य तत् त्रितयम् । 3) चत्वारः अवयवाः अस्य सः चतुष्टयः । प्रक्रिया इयम् - चतुर् + तयप् → चतुः + तय [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति रेफस्य विसर्गः] → चतुस् + तय [**विसर्जनीयस्य सः** (8.3.34) इति विसर्गस्य सकारादेशः] → चतुष् + तय [ **ह्रस्वात् तादौ तद्धिते** (8.3.101) इति षत्वम् ] → चतुष् + टय [**ष्टुना ष्टुः** (8.4.41) इति तकारस्य टकारादेशः] → चतुष्टय । 4) षट् अवयवाः अस्य सः षट्तयः । अत्र 'षष्' इति प्रातिपदिकमस्ति । प्रक्रिया इयम् - षष् + तयप् → षड् + तय [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्] → षड् + तय [**ष्टुना ष्टुः** (8.4.41) इत्यनेन ष्टुत्वे प्राप्ते **न पदान्ताट्टोरनाम्** (8.2.42) इति निषेधः ; अतः तकारस्य टकारः न भवति ] → षट् + तय [**खरि च** (8.4.55) इति चर्त्वे डकारस्य टकारः] → षट्तय । 5) दश अवयवाः अस्य तत् दशतयम् । 6) विंशतिः अवयवाः यस्याः सा विंशतीतयी । 7) शतमवयवाः अस्य सः शततयः । स्मर्तव्यम् - **प्रथमचरमतयाल्पार्धकतिपयनेमाश्च** (1.1.33) इत्यनेन 'तयप्' प्रत्ययान्तशब्दाः पुंलिङ्गे जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति । सर्वनामसंज्ञायां सत्याम् इयम् प्रक्रिया विधीयते - पञ्चतय + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → पञ्चतय + शी [**जसः शी** (7.1.17) इत्यनेन अदन्तात् सर्वनामसंज्ञकात् परस्य 'जस्' प्रत्ययस्य 'शी' इति आदेशः भवति । अनेकाल्त्वात् **अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः ।] → पञ्चतय + ई [इत्संज्ञालोपः] → पञ्चतये [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] यथा - पञ्चतये प्रश्नाः (Questions which have five parts each इत्यर्थः) । पक्षे 'पञ्चतयाः प्रश्नाः' इत्यपि साधु । Vasu English Summary -------------------- The affix तयप् comes in the sense of 'that whereof the parts are so many' after a numeral. Vasu English Translation ------------------------ The affix तयप् comes in the sense of 'that whereof the parts are so many' after a numeral. The word तदस्य is understood here. Thus पंच अवयवा अस्य = पंचतयम् 'having five parts'. The part being connected with the whole, the force of the affix is to denote the whole. So also दशतयम्, चतुष्टयम्, चतुष्टयी (8.3.101) and (4.5.15) Bhashya ------- संख्याया अवयवे तयप् (2060) (तयप्प्रत्ययाधिकरणम्) (संख्याशब्देन कस्याग्रहणमितिनिर्णयभाष्यम्) इह कस्मान्न भवति - बहवोऽवयवा अस्याः संख्याया इति? अवयवे या संख्या इत्युच्यते, न च काचित्संख्याऽस्ति यस्या बहुशब्दोऽवयवः स्यात्। ननु चेयमस्ति - संख्येत्येव। नैषा संख्या, संज्ञैषा॥ (5719 अवयविनि तयब्विधिवार्तिकम्॥ 1 ॥) - अवयवविधानेऽवयविनि प्रत्ययः - (भाष्यम्) अवयवविधानेऽवयविनि प्रत्ययो भवतीति वक्तव्यम्। इह मा भूत् - पञ्ञ्चावयवाः, दशावयवाः - इति॥ (आक्षेपपूर्वकं वार्तिकान्यथासिद्धिसाधकं भाष्यम्) अथ अवयविनीत्युच्यमानेऽवयवस्वामिनि कस्मान्न भवति - पञ्ञ्च पश्ववयवा देवदत्तस्येति? अवयवशब्दोऽयं गुणशब्दः, अस्येति च वर्तते। तेन यं प्रत्यवयवो गुणस्तस्मिन्नवयविनि प्रत्ययेन भवितव्यम्। कं च प्रत्यवयवो गुणः? समुदायम्॥ यद्येवमवयविनीत्यपि न वक्तव्यम्। अवयवेषु कस्मान्न भवति? अस्येति वर्तते॥ Kashika ------- तदस्येत्येव। संख्याया अवयवे वर्तमानाया अस्येति षष्ठ्यर्थे तयप् प्रत्ययो भवति। अवयवा अवयविनः संबन्धिन इति सामर्थ्यादवयवी प्रत्ययार्थो विज्ञायते। पञ्च अवयवा अस्य पञ्चतयम्। दशतयम्। चतुष्टयम्। चतुष्टयी॥ Siddhanta Kaumudi ----------------- पञ्चावयवा अस्य पञ्चतयं दारु ॥ Laghu Siddhanta Kaumudi ----------------------- पञ्च अवयवा अस्य पञ्चतमम् ॥ Balamanorama ------------ **संख्याया अवयवे तयप्** - सङ्ख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः । Tattvabodhini ------------- **संख्याया अवयवे तयप्** - संख्यायाः । अवयवे वर्तमाना या संख्या तद्वाचिनः प्रथमान्तात्षष्ठआर्थे तयप् स्यात् । यं प्रत्यवयवः सोऽवयवी प्रत्ययार्थः,अस्ये॑त्यधिकारात् । यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयं प्रत्ययार्थस्तद्वत् । Padamanjari ----------- इहास्येत्यधिकारात्संख्याया अवयवे वर्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति - पञ्च अवयवा अस्य देवदतस्येति। तत्राह - अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे'ह्रस्वातादौ तद्विते' इति षत्वम्,'टिड्ढाणञ्' इति ङीप् ॥ Nyaas ----- `चतुष्टयी` इति। चतुरो रेफस्य **विसर्जनीयस्य सः** (8.3.34) इति सः; तस्यापि **ह्रस्वात् तादौ तद्धिते** (8.3.101) इति मूर्धन्यः, `टिड्ढाणञ्` (4.1.15) इत्यादिना ङीप्॥ Prakriyasarvasvam ----------------- सोऽस्या अवयव इत्यर्थे संख्यायास्तयप् स्यात् । चतुरवयवा चतुष्टयी रज्जुः । गवां चतुष्टयमित्यादौ चतुरवयवः सङ्घोऽर्थः । Sutra Prayogas -------------- * **चतुष्टयी** (कुमारसम्भवम्): `संख्याया अवयवे तयप्` इति तयप् ।