52043: द्वित्रिभ्यां तयस्यायज्वा

Padacheda: द्वित्रिभ्याम् | S | 5 | 2 |

तयस्य | S | 6 | 1 |

अयच् | S | 1 | 1 |

वा | S | 0 | 0 |

Sutrartha

‘द्वि’ तथा ‘त्रि’ एताभ्याम् शब्दाभ्याम् विहितस्य ‘तयप्’ प्रत्ययस्य विकल्पेन ‘अयच्’ इति आदेशः भवति ।

संख्याया अवयवे तयप् (5.2.42) इत्यनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः ‘अवयवाः अस्य’ अस्मिन् अर्थे ‘तयप्’ इति प्रत्ययः विधीयते । यदि अस्य प्रत्ययस्य अङ्गम् ‘द्वि’ तथा ‘त्रि’ एतत् अस्ति, तर्हि अस्य प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन ‘अयच्’ इति आदेशः भवति । यथा - 1. द्वौ अवयवौ अस्य = द्वि + तयप् [संख्याया अवयवे तयप् (5.2.42) इति तयप्-प्रत्ययः] → द्वि + अयच् [‘तयप्’ प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः ‘अयच्’ आदेशः] → द्व् + अयच् [यस्येति च (6.4.148) इति इकारलोपः] पक्षे ‘अयच्’ आदेशस्य अप्राप्तौ ‘द्वितय’ इति प्रातिपदिकमपि सिद्ध्यति । द्वौ अवयवौ यस्य तत् द्वयम् द्वितयम् वा । 2. त्रयः अवयवाः अस्य = त्रि + तयप् [संख्याया अवयवे तयप् (5.2.42) इति तयप्-प्रत्ययः] → त्रि + अयच् [‘तयप्’ प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः ‘अयच्’ आदेशः] → त्र् + अयच् [यस्येति च (6.4.148) इति इकारलोपः] पक्षे ‘अयच्’ आदेशस्य अप्राप्तौ ‘त्रितय’ इति प्रातिपदिकमपि सिद्ध्यति । त्रयः अवयवाः यस्य तत् त्रयम् त्रितयम् वा । विशेषः - यदि आचार्यः अस्मिन् सूत्रे ‘तयस्य’ इति न उक्त्वा ‘अयच्’ प्रत्ययस्य स्वतन्त्ररूपेण विधानम् कुर्यात्, तर्हि अपि एते एव रूपे भवेताम् । एवं सति ‘अयच्’ इति प्रत्ययः स्वतन्त्ररूपेण किमर्थम् न उच्यते , तयप्-प्रत्ययस्य आदेशरूपेण किमर्थमुच्यते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् एतत् - ‘तयप्’ प्रत्ययस्य आदेशरूपेण उक्तः अयच्-प्रत्ययः स्थानिवद्भावेन ‘तयप्’ प्रत्ययस्य गुणान् अपि स्वीकरोति । यथा - अ) स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव अयच्-प्रत्ययान्तशब्दाः अपि प्राप्नुवन्ति ; येन ‘द्वयी, त्रयी’ एते रूपे सिद्ध्यतः । यदि ‘अयच्’ इति स्वतन्त्ररूपेण ब्रूयात्, तर्हि स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः न विधीयेत । (आ) यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (1.1.33) इत्यनेन विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति; तथैव ‘अयच्’ प्रत्ययान्तशब्दाः अपि विकल्पेन सर्वनामसंज्ञकाः भवन्ति । सर्वनामसंज्ञायां प्राप्तायाम् जस्-प्रत्ययस्य विकल्पेन इकारादेशः भवति, येन ‘द्वये’, ‘त्रये’ एते रूपे सिद्ध्यतः । यदि अयच्-प्रत्ययः स्वतन्त्ररूपेण विधीयेत, तर्हि एते रूपे न सिद्ध्येताम् ।

Vasu English Summary

The affix अयच् is optionally the substitute of तयप् after the words 1. द्वि and 2. त्रि।

Vasu English Translation

The affix अयच् is optionally the substitute of तयप् after the words 1. द्वि and 2. त्रि। As द्वाववयवावस्य = द्वयम् or द्वितयम्, त्रयम् or त्रितयम् ‘a couple’ ‘a triad’ (6.4.148).

The word तय is used in the sutra to indicate the sthanin or thing to be replaced. Had it not been used, the sutra would have run thus द्वित्रिभ्यामयज् वा “ayach optionally comes after dvi and tri”. Here ayach would have become a separate affix, instead of being a mere substitute. Where is the harm in its being a separate affix? Then the word त्रयम् or द्वयम् will not form their feminine in ङीप्; but अय being taken as sthanivat to तय (1.1. 56), the affix ङीप् which by (4.1.15), applies to तय, applies to अय also. Thus we have त्रयी गतिः ॥ Moreover by (1.1.33), words ending in तय are declined as Pronouns optionally before nominative plural termination. By the rule of sthanivat adesa (1.1.56), the words ending in अय will also be Pronouns. As द्वये or द्वयाः त्रये or त्रयाः ॥ The च् in अयच् is for accent, showing that the substitute ‘aya’ differs in accent from the sthani taya.

Kashika

पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वायजादेशो भवति। द्वाववयवावस्य द्वयम्, द्वितयम्। त्रयम्, त्रितयम्। तयग्रहणं स्थानिनिर्देशार्थम्। अन्यथा प्रत्ययान्तरमयज् विज्ञायेत। तत्र को दोषः? त्रयी गतिरिति तयनिबन्धन ईकारो न स्यात्, प्रथमचरमतया० (१.१.३३) इत्येष विधिर्न स्यात्। द्वये। द्वयाः। चकारः स्वरार्थः॥

Siddhanta Kaumudi

द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥

Laghu Siddhanta Kaumudi

द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥

Balamanorama

द्वित्रिभ्यां तयस्यायज्वा - द्वित्रिभ्यां द्वित्रिभ्यां परस्य तयपोऽयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपोऽयचिःयस्येति चे॑ति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवम् त्रयम् ।

Tattvabodhini

द्वित्रिभ्यां तयस्यायज्वा - त्रयमिति । ननुत्रयोऽवयास्तन्तवो यस्य त्रयं सूत्र॑मिति प्रयोगे संभवत्यपिमुनित्रय ॑मिति प्रयोगो न सङ्गच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत् । अत्राहुः -अवयवी त्वत्र समुदाय एव । स चातिरिक्तो वाऽनतिरिक्तो वेति विचारान्तरम् । एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकत्वमस्त्येवेति ।

Padamanjari

ननु तयः प्रकृतः सोऽनुवर्तिष्यते,’द्वित्रिभ्याम्’ इति पञ्चमी,’तस्मादित्युतरस्य’ इति तस्य षष्ठ।ल्न्ततां सम्पादयिप्यति; तत्किं’तयस्य’ इत्यनेन ? तत्राह - तयब्ग्रहणमित्यादि। असत्यामपेक्षायामनुवृत्तिः षष्ठीप्रकृतिश्च दुर्जानेति बावः। अथ प्रत्ययान्तरे को दोषः ? त्रयी गतिरिति तयब्निबन्धन ईकारो न स्यात्,’प्रथमचरमतय’ क इति चैष विधिर्न स्याद् - द्वये, द्वया इति। क्वचित् तत्र को दोष इत्यादि वृतावेव वृतावेव पठ।ल्ते। चकारः स्वरार्थ इति। तेन स्थानिवद्भावेनानुदातत्वं न भवति ॥

Nyaas

तयप्रत्ययग्रहणं किमर्थम्, यावता प्रकृत एवासावनुवर्त्तिष्यते? इत्याह - तयग्रहणम् इत्यादि। यदि तयब्ग्रहणं न क्रियते, तदा तयप्रत्ययादन्य एवायमयच्? प्रत्ययो विज्ञायेत, न तयबादेशः। किं पुनः स्याद्यदि प्रत्ययान्तरं स्यात्? तयष्काय्र्यमयचो न स्यात्। किं तत्? प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (1.1.33) इत्यादिना जसि विभाषा सर्वनामसंज्ञा - द्वये, द्वयाः; टिड्ढाणञ् (4.1.15) इति ङोप् - द्वयो। ननु च पूर्वसूत्रेणैव विहितस्य तस्य इह चादेशार्थानुवृत्तिर्विज्ञायते। प्रयोजनान्तराभावात्, द्वित्रिभ्याम् इति। पञ्चमीनिर्देशः तस्मादित्युत्तरस्य (1.1.67) इति षष्ठन्तं सम्पादयिष्यते, अतोनेनान्तरेणापि तयब्ग्रहणं तयप्स्थानित्वं लभ्यत एव? नैतदस्ति; यद्यनुवृततिस्तयपोऽन्यार्या न स्यात्, ततोऽनुवृत्तिसमथ्र्यात्? तयपः स्थानित्वं विज्ञायेत। तस्य त्वनुवृत्तिरुत्तरार्थिपि भवति। उभादुदात्तो नित्यम् (5.2.44) इत्यव योगविबागेन तयब्विधातव्यः। न चानुवर्तमानः शक्यते विधातुम्। अत उत्तरार्थायामनुवृत्तौ सत्यां तयप्स्थानित्वमयुक्तमिति तयब्ग्रहणं क्रियते॥

Prakriyasarvasvam

आभ्यां तयपोऽयजादेशो वा स्यात् । द्वयम् । द्वितयम् । त्रयं त्रितयम् ॥

Sutra Prayogas

  • नरशिखित्रयी (शिशुपालवधम्): द्वित्रिभ्याम् इति तयपः अयजादेशः।

  • द्वये (शिशुपालवधम्): द्वित्रिभ्याम् इत्यनेन तयपोऽयजादेशः।

  • त्रयम् (भट्टिकाव्यम्): द्वि-त्रिभ्यां तयस्यायज्वा इति तयपोऽयजादेशः।