52031: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः =============================================== **Padacheda:** नते | S | 7 | 1 | नासिकायाः | S | 6 | 1 | संज्ञायाम् | S | 7 | 1 | टीटच्-नाटच्-भ्रटचः | S | 1 | 3 | Sutrartha --------- **'नता नासिका' अस्मिन् सन्दर्भे संज्ञायाः विषये 'अव' उपसर्गात् 'टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति ।** नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'अव' उपसर्गात् टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति । यथा - (अ) अव + टीटच् = अवटीट । (आ) अव + नाटच् → अवनाट । (इ) अव + भ्रटच् → अवभ्रट । नासिकायाः नतम् (pointedness of the nose) अवटीटम्, अवनाटम्, अवभ्रटम् । एते त्रयः शब्दाः अस्य नतस्य संज्ञारूपेण प्रयुज्यन्ते । स्मर्तव्यम् - 1. या नासिका नता अस्ति, सापि 'अवटीटा' / 'अवनाटा' / 'अवभ्रटा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'अवटीटः' / 'अवनाटः' / 'अवभ्रटः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते । 2. 'टीटच्' अस्मिन् प्रत्यये आदिस्थस्य टकारस्य **चुटू** (1.3.7) इत्यनेन न भवति, यतः अत्र टकारस्य इत्संज्ञायाः किमपि प्रयोजनम् नास्ति । एवं च, **चुटू** (1.3.7) इत्यस्य अनित्यत्वं स्वीकृत्य अप्यत्र इत्संज्ञायाः निषेधः उच्यते । 3. अस्मिन् सूत्रे प्रयुक्तः 'टीटञ्नाटज्भ्रटजः' अयम् प्रयोगः चिन्तनीयः अस्ति । 'टीटच् + नाटच्' इत्यत्र वस्तुतः **स्तोः श्चुना श्चुः** (8.4.40) इत्यनेन नकारस्य श्चुत्वे ञकारे कृते 'टीटच्-ञाटच्' इति प्रयोगः भवेत् । परन्तु अत्र 'टीटञ्नाटच्' इत्यत्र श्चुत्वम् नैव कृतम् दृश्यते ; अपितु चकारस्य ञकारादेशः कृतः दृश्यते ; यः केनाऽपि सूत्रेण न विधीयते (**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इत्यस्य अत्र प्रसक्तिः नास्ति, यतः अत्र 'टीटच्' इत्यस्य पदसंज्ञा न भवति । यद्यप्यत्र अस्य प्रसक्तिः गृह्णीयात्, तथापि श्चुत्वस्य कृते अस्य असिद्धत्त्वमेव स्यात्) । अस्य स्पष्टीकरणम् व्याख्यानेषु न दत्तमस्ति । अतः 'छन्दोवत् सूत्राणि भवन्ति' इत्येव अस्य समाधानम् । Vasu English Summary -------------------- The affixes टीटच् , नाटच् and भ्रटच् come in the sense of 'a hooked nose' after the word अव when the word so formed is a Name. Vasu English Translation ------------------------ The affixes टीटच् , नाटच् and भ्रटच् come in the sense of 'a hooked nose' after the word अव when the word so formed is a Name. Thus नासिकाया नतम् = अवटीटम्, or अवनाटम्, अवभ्रटम् ॥ The word signifies the nose, as well as the person also, as अवटीटा नासिका, अवटीटः पुरुषः ॥ Kashika ------- अवादित्येव। नमनं नतम्। नासिकायाः संबन्धिनि नतेऽभिधेये टीटच् नाटच् भ्रटच् इत्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतम् अवटीटम्। अवनाटम्। अवभ्रटम्। तद्योगाद् नासिकापि, पुरुषोऽपि तथोच्यते, अवटीटः। अवनाटः। अवभ्रट इति॥ Siddhanta Kaumudi ----------------- अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥ Balamanorama ------------ **नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः** - नते नासिकायाः । अवादित्येवेति । अवशब्दान्नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रह्वत्वे' इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमनमिति । प्रह्वत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह — तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः । Tattvabodhini ------------- **नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः** - नतमिति । नपुंसके भाषे क्तः । नमनमिति । नीचैस्त्वमित्यर्थः । अकटीटमिति । नासिकासाधनके नमने वर्तमानादवशब्दात्स्वार्थे प्रत्ययः । कथं तर्हि नासिकायां पुरुषे चाऽवटीटशब्दस्य प्रयोग इत्यत आह -तद्योगादिति । नेर्बिडच् ।नते नासिकायाः संज्ञाया॑मिति वर्तते ।निशब्दान्नासिकाया नतेऽभिधेये बिडज्बिरीसचौ स्तः । निबिडमिति । तद्यागान्निबिडा नासिका, निबिरीसा । कथं तर्हि निबिडाः केशाः॑, निबिडं वस्त्र ॑मिति । उपमानाद्भविष्यति । एतच्च काशिकायां स्पष्टम् । केचित्तु उक्तप्योगानुरोधेनेह सूत्रेनते नासिकायाः॑इति नानुवर्तत इति व्याचक्षते । प्रकृतेरिति । निशब्दस्येत्यर्थः । आदेशौ चेति । प्रत्ययौ, तत्संनियोगेन यखासङ्ख्यमिमावादेशौ च स्त इत्यर्थः ।कप्रत्ययचिकादेशौ च वक्तव्यौ । चिकिनमिति । इनच्प्रत्ययसंनियोगेन चिकादेशः । चिपिटमिति । पिटच्प्रत्ययसंनियोगेनचि॑ इत्यादेशः ।क्लिन्नस्य चिल् — पिल् — लश्चाऽस्य चक्षुषी । क्लिन्नस्येति । चिल् पिल् इत्येतावादेशौ भवतो, लश्च प्रत्ययःअस्य चक्षुषी॑इत्येतस्मिन्नर्थे ।चुल् च । चुल् चेति । चाल्लप्रत्ययः । चुल्ल इति । क्लिन्ने अस्म चक्षुषी इति पूर्वोक्त एव विग्रहः । कथं तर्हिस्युः क्लिन्नाक्षे चुल्लचिल्लपिल्ला क्लिन्नेऽक्ष्णि चाप्यमी॑इत्यमर इति चेत् । अत्राहुः — पुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्येति । अन्ये त्वाहुः — -॒अस्य चक्षुषी॑इत्यत्रअस्ये॑ति न वक्तव्यम् । क्लिन्ने चक्षुषी — चिल्ले पिल्ले । पुरुषे तु मत्वर्थेऽच्, अर्साअदिषुस्वाङ्गाद्धीना॑दिति सूत्रितत्वादिति । Padamanjari ----------- नमनं नतमिति।'नपुंसके भावे क्तः' नीचैस्त्वमित्यर्थः। नासिकायाः सम्बन्धैनीति। सम्बन्धश्च नमने कर्तृत्वेन, सूत्रे तु'नपुंसके भाव उपसंख्यानाम्' इति कर्तरि षष्ठी। यद्वा - शेषविज्ञानात्सिद्धमिति शेषलक्षणैव। अवटीटादिषु नासिकासाधने नमने वर्तमानादुपसर्गात्स्वार्थे प्रत्ययः। कथं तर्हि नासिका पुरुषश्च तथोच्यते ? इत्याह - तद्योगादिति। टीटञष्टकारस्येत्संज्ञभावः'चुटूअ' इत्यत्रैव व्यख्यातः ॥ Nyaas ----- `नमनं नतम्` इति। भावे निष्ठां दर्शयति। `नासिकायाः सम्बन्धिनी` इति। अनेनापि नासिकाया इत्यपि सम्बन्धलक्षमा षष्टी। यदि नासिकायाः सम्बन्धिनि नते वाच्य एते प्रत्ययाः, कथं तदेतेन नासिका पुरुषश्चाभिधीयते? इत्याह - `तद्योगात्` इति॥ Prakriyasarvasvam ----------------- नासिकाया नमने वाच्ये नाम्न्यवादेते स्युः । अवटीटम् अवनाः टम् अवभ्रटं च नासिकानमनम् । तद्योगादवटीटा नासिका, अवटीटः पुरुषः । एवमपकृष्टवस्तुनि दृष्टे मुखनमनात् तदप्यवटीटादिवाच्यम् इति नाथः ॥