52026: तेन वित्तश्चुञ्चुप्चणपौ ============================== **Padacheda:** तेन | S | 3 | 1 | वित्तः | S | 1 | 1 | चुञ्चुप्-चणपौ | S | 1 | 2 | Sutrartha --------- **'वित्तः (ज्ञातः)' अस्मिन् अर्थे तृतीयासमर्थेभ्यः शब्देभ्यः 'चुञ्चुप्' तथा 'चणप्' एतौ प्रत्ययौ भवतः ।** 'वित्तः' इत्युक्ते ज्ञातः / प्रतीतः (famous / wellknown) । **वित्तो भोगप्रत्यययोः** (8.2.58) इत्यनेन अयम् शब्दः निपात्यते । तृतीयासमर्थेभ्यः शब्देभ्यः वित्तः (प्रतीतः / ज्ञातः / प्रसिद्धः) अस्मिन् अर्थे 'चुञ्चुप्' तथा 'चणप्' एतौ प्रत्ययौ भवतः । यथा , विद्यया वित्तः ( विद्यया प्रतीतः / ज्ञातः) विद्याचुञ्चुः पुरुषः ; विद्याचणः पुरुषः वा । स्मर्तव्यम् - 1. 'चुञ्चुप्' तथा 'चुणप्' - उभयत्र चकारस्य इत्संज्ञा प्रयोजनाभावात् न भवति । यद्यपि सामान्यरूपेण चकारस्य इत्संज्ञा **तद्धितस्य** (6.1.164) इत्यनेन समुदायस्य अन्तोदात्तत्वम् कारयितुम् विधीयते, तथाप्यत्र तत् न इष्यते । एवं च, **चुटू** (1.3.7) इति सूत्रमनित्यमस्ति, एतत् अनित्यत्व् अनुसृत्य अप्यत्र इत्संज्ञा न भवति । 2. 'चुञ्चुप्' इत्यत्र चकारोत्तरः उकारः अनुनासिकः नास्ति, अतः तस्य इत्संज्ञा न भवति । अयमुकारः प्रत्ययस्यैव उकारः अस्ति, प्रत्यये च तस्य श्रवणमपि भवति । यथा - विद्या + चुञ्चुप् = विद्याचुञ्चु । अस्य शब्दस्य रूपाणि पुंलिङ्गे 'साधु' शब्दवत् भवन्ति । 3. 'वित्तम्' इति नपुंसकलिङ्गे प्रयुज्यते चेत् तस्य 'धनम्' इति अर्थः भवति । परन्तु अयमर्थः अत्र न इष्यते । अत्र 'वित्तः' इति पुंलिङ्गवाचिनः शब्दस्यैव ग्रहणम् भवति, यस्य अर्थः 'ज्ञातः / प्रतीतः' इत्येव विद्यते । Vasu English Summary -------------------- The affixes चुञ्चुप् (चुञ्चु) and चणप् (चण) come in the sense of 'celebrated through this' after a word in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affixes चुञ्चुप् (चुञ्चु) and चणप् (चण) come in the sense of 'celebrated through this' after a word in the Instrumental -3rd case in construction. The word वित्त means known, illustrious. Thus विद्यया वित्तः = विद्याचुञ्चुः, विद्याचणः, केशचणः ॥ The initial च् in these affixes is not इत् (1.3.7). Kashika ------- तेनेति तृतीयासमर्थाद् वित्त इत्येतस्मिन्नर्थे चुञ्चुप् चणप् इत्येतौ प्रत्ययौ भवतः। वित्तः प्रतीतो ज्ञात इत्यर्थः। विद्यया वित्तो विद्याचुञ्चुः। विद्याचणः॥ Siddhanta Kaumudi ----------------- यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥ Balamanorama ------------ **तेन वित्तश्चुञ्चुप्चणपौ** - तेन वित्तः । तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः=प्रसिद्धः । चस्य नेत्संज्ञेति । उपदेशे आदित्वाऽभावादिति भावः । Tattvabodhini ------------- **तेन वित्तश्चुञ्चुप्चणपौ** - तेन वित्तः । वित्तः=प्रतीतः ।वित्तो भोगप्रत्ययो॑रिति निपातनात्रदाभ्यां निष्ठातो नः॑इति नत्वं न । लुप्तनिर्दिष्ट इति ।चुटुषाः प्रत्ययस्ये॑ति वक्तव्ये पृथग्योगकरणात्चुटू॑ इत्येतदनित्यमिति समाधानान्तरमप्याहुः । Padamanjari ----------- वितः प्रतीत इति।'वितो बोगप्रत्यययोः' इति निपातनात्, चुञाचुप्चणपोश्चकारस्य यथेत्संज्ञा न भवति, तथा'चुटूअ' इत्यत्रैव वृत्तिकारेणोक्तम् ॥ Nyaas ----- `विद्याचुञ्चुः, विद्याचणः` इति। अथ `चुटू` (1.3.7) इति चकारस्येत्संज्ञा कस्मान्न भवति? उक्तोऽस्य हेतुस्तत्रैव - पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थमिति॥ Prakriyasarvasvam ----------------- तेन प्रसिद्ध इत्यर्थ एतौ स्तः । विद्याचुञ्चुः । विद्याचणः ॥ Sutra Prayogas -------------- * **चारचुञ्चुः** (किरातार्जुनीयम्): `तेन वित्तश्चुञ्चुण्चणपौ` इति चुञ्चुप्प्रत्ययः। * **रामोष्ठबिम्बचुम्बनचुञ्चुना** (शिशुपालवधम्): `तेन वित्तश्चुञ्चुप्चणपौ` इति चुञ्चुप्प्रत्ययः। * **मायाचणमस्त्रचुञ्चुः** (भट्टिकाव्यम्): `तेन वित्तञ्चञ्च प्रचणपौ` इति चणप् चुञ्चुप् च।