52021: व्रातेन जीवति ==================== **Padacheda:** व्रातेन | S | 3 | 1 | जीवति | T | | | Sutrartha --------- **तृतीयासमर्थात् 'व्रात' शब्दात् 'जीवति' अस्मिन् अर्थे खञ्-प्रत्ययः भवति ।** अस्मिन् सूत्रे प्रयुक्तयोः शब्दयोः अर्थौ एतादृशौ - 1. जीवति = जीविकाम् प्राप्नुवन्ति (earn a living) इत्याशयः । 2. व्रात = शरीरपरिश्रमस्य कर्म 'व्रात' नाम्ना ज्ञायते । अतः 'व्रातेन जीवति' इत्युक्ते सः मनुष्यः यः स्वस्य जीवनार्थम् शरीरपरिश्रमस्य कार्यम् करोति, न हि बुद्धिवैभवस्य । a person who earns his living by doing activities that require intense use of their body (rather than their brain) - इत्याशयः । For example - porters, construction workers, laborers - etc. एतेषाम् निर्देशार्थम् 'व्रात' शब्दात् खञ्-प्रत्ययः भवति । व्रातेन जीवति व्रातीनः भृत्यः । विशेषः - 1. 'व्रात' शब्दस्य अर्थः काशिकायाम् 'नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः' इति दीयते । A group of people who do not have any fixed employment and who seek temporary employments that involve heavy laborious work with their body is known as व्रात । अस्मात् शब्दात् **तस्येदम्** (4.3.120) इत्यनेन अण्-प्रत्ययं कृत्वा 'व्रातानाम् कर्म = व्रात + अण् → व्रात' इत्यनेन कर्मणः निर्देशार्थमपि 'व्रात' शब्दः प्रयुज्यते । अस्यैव प्रयोगः अस्मिन् सूत्रे कृतः अस्ति । 2. यदा मनुष्यः स्वस्य शरीरपरिश्रमस्य साहाय्येन स्वस्य जीविकां प्राप्नोति, तदा एव तस्य निर्देशः 'व्रातीन' शब्देन क्रियते । यदि सः कस्यचन अन्यस्य शरीरपरिश्रमस्य कार्येण जीवति, तर्हि तस्य निर्देशः 'व्रातीन' इत्यनेन न क्रियते । यथा - यदि देवदत्तः विष्णुदत्तस्य शरीरपरिश्रमेण जीवति, तर्हि देवदत्तस्य निर्देशः 'व्रातीनः' इति न भवति । Vasu English Summary -------------------- The affix खञ् comes in the sense of 'who leads this life' or 'who lives by this' after the word व्रात being in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix खञ् comes in the sense of 'who leads this life' or 'who lives by this' after the word व्रात being in the Instrumental -3rd case in construction. The word व्रात means a multitude or mass composed of various castes, who have no fixed employment, and live by violence, or by bodily labor. व्रातेन जीवति = व्रातीनः 'a person who lives by the labour of his body, not of his brain'. Bhashya ------- व्रातेन जीवति (2039) (व्रातपदार्थबोधकभाष्यम्) व्रातेन जीवतीत्युच्यते,किं व्रातं नाम? नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघा व्राताः,तेषां कर्म-व्रातम्। व्रातकर्मणा जीवतीति - व्रातीनः। Kashika ------- निर्देशादेव तृतीया समर्थविभक्तिः। व्रातशब्दात् तृतीयासमर्थाद् जीवतीत्यस्मिन्नर्थे खञ् प्रत्ययो भवति। नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघा व्राताः। उत्सेधः शरीरम्, तदायास्य ये जीवन्ति, त उत्सेधजीविनः, तेषां कर्म व्रातम्। तेन व्रातेन जीवति व्रातीनः। तेषामेव व्रातानामन्यतम उच्यते। यस्त्वन्यस्तदीयेन जीवति, तत्र नेष्यते॥ Siddhanta Kaumudi ----------------- व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥ Balamanorama ------------ **व्रातेन जीवति** - व्रातेन जीवति । व्रातशब्दात्तृतीयान्ताज्जीवतीत्यर्थे खञ्स्यादित्यर्थः । नानाजातीयानामलब्धजीवनद्रव्याणां भरवहनादिकष्टकर्मजीविनां सङ्घो — ब्राआतः । तस्य यज्जीवनार्थं कष्टं कर्म तदिह व्रातमिति भाष्यम् । तादृशसङ्घावाचिनो व्रातशब्दात्तस्येद॑मित्यणि व्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः । तदाह — शरीरायासेनेति । Tattvabodhini ------------- **व्रातेन जीवति** - शरीरायासेनेति । भारवहनादिनेत्यर्थः । यद्यपि व्रातशब्दो लोके सङ्घातवचनः, तथाप्यत्रत्यभाष्यादिग्रन्थपर्यालोचनया अयमेवार्थ इहोचित इति भावः । Padamanjari ----------- व्रातशबह्दो लोके सह्घमात्रवचनः, इह तु न तथेति दर्शयितुं भाष्यग्रन्थं पठति। नानजीतीया इति। अनेन चैकजातीयक्षत्रियादिसह्घनिराकरणम्। अनियतवृतय इति। नियतवृत्यायुधजीविसङ्गनिषेधः। उत्सेधजीविन इत्येतद्व्याचष्टे। उत्सेधः शरीरमिति। उच्छ्रायत्वात्। तदायास्येति। आयासेर्ण्यन्ताल्ल्यप्, तेन सकर्मकत्वम्। अण्यन्तपाठे त्वन्तर्भावितण्यर्थत्वात्सकर्मकत्वं द्रष्टयम्। शरीरायासेन बारवहनादिना जीवन्ति, न तु बुद्धिभावेनेत्यर्थः। व्राता इति। सङ्घवचनोऽयमिह सङ्घिषु प्रयुक्तः। एवंभूतानां यः सङ्घस्तद्व्रातमित्यर्थः। एवमपि तथाभूतेन सङ्घेन ये जीवन्ति तत्र प्राप्नोति,न चेष्यते ? तत्राह - तेषां कर्म व्रातमिति। इदमर्थे छे प्राप्तेऽस्मादेव निपातनादण्। यस्त्वन्य इत्यादि। अनभिधानमत्र हेतुः ॥ Nyaas ----- `नानाजातीयाः` इति। अनेकजातीयाः। `अनियतवृत्तयः` इति। अनियतक्रियाः। `तेषां कर्म व्रातम्` इति। व्रातसाहचर्यात्? तदपि व्रातमित्युच्यते। अथ वा - व्रातानामिदमित्यर्थविवक्षायां छे प्राप्ते, अस्मादेव निपातनादण्? भवति। तत्पुनः कर्म भारवहनादि। `तत्र नेष्यते` इति। कथं पुनरिष्यमाणोऽपि न भवति प्रकृतायां महाविभाषायां व्यवस्थितविभाषात्वात्॥ Prakriyasarvasvam ----------------- अत्र खञ् । भाराद्यैर्जीवतां सङ्घो व्रातस्तत्कर्म खल्विह । व्रातं स्यात् तेन जीवन्तो व्रातीना वाहकादयः ॥ ३१४ ॥ Sutra Prayogas -------------- * **व्रातीन** (भट्टिकाव्यम्): `व्रातेन जीवति` इति खन्।