52013: अद्यश्वीनाऽवष्टब्धे ========================== **Padacheda:** अद्यश्वीन | S | | | 1 अवष्टब्धे | S | 7 | 1 | Sutrartha --------- **'अद्य श्वः वा विजायते' अस्मिन् अर्थे 'अद्यश्वीन' शब्दः निपात्यते ।** वर्तमानसूत्रेण 'अद्यश्वीन' इति शब्दः निपात्यते । 'अवष्टब्धे (= समीपकाले, in very near future) विजायते (= गर्भं धारयति / जन्म ददाति , becomes pregnant / gives birth)' अस्मिन् अर्थे अस्य शब्दस्य प्रयोगः भवति । अत्र 'अद्य वा श्वो वा विजायते' इति विग्रहवाक्यं स्वीकृत्य तस्मात् ख-प्रत्ययान्तस्य 'अद्यश्वीन'शब्दस्य निपातनम् क्रियते । उदाहरणम् - 'इयम् गौः अद्यश्वीना अस्ति' । इयम् गौः अद्य वा श्वः वा प्रसविष्यति - इति आशयः । स्मर्तव्यम् - 1. केचन पण्डिताः अस्मिन् सूत्रे 'विजायते' इत्यस्य अनुवृत्तिम् न स्वीकुर्वन्ति । अतः तेषाम् मतेन या काऽपि क्रिया 'अद्य वा श्वः वा' भविष्यति, तस्याः निर्देशः 'अद्वश्वीन' इत्यनेन भवितुमर्हति । यथा, अद्यश्वीनम् मरणम् ; अद्यश्वीना परीक्षा ; अद्यश्वीनः वियोगः - आदयः । 2. अस्मिन् सूत्रे 'अवष्टब्ध' इति शब्दः प्रयुज्यते । अयम् शब्दः 'अव + स्तम्भ्' इत्यत्र क्त-प्रत्ययान्तरूपमस्ति । 'निकटम् प्राप्तः / आपन्नः' अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । Vasu English Summary -------------------- The word अद्यश्वीन is anomalous meaning 'a female near delivery'. Vasu English Translation ------------------------ The word अद्यश्वीन is anomalous meaning 'a female near delivery'. The word विजायते is understood here. The word अवष्टब्ध means 'imminent, near'. It is formed by अव + स्तंभ + क्त, the स् being changed to ष् by (8.3.68). Thus अद्य वा श्वो वा विजायते = अद्यश्वीना गौः "a cow likely to give birth to-day or to-morrow". So also अद्यश्वीना वडवा ॥ Some do not read विजायते into the *sutra*, which then means "The word *adyasvina* is irregularly formed meaning imminent". As अद्यश्वीनं मरणं 'imminent death'. अद्यश्वीनो वियोगः 'separation likely to take place to-day or tomorrow'. Kashika ------- विजायत इति वर्तते। अद्यश्वीन इति निपात्यत अवष्टब्धे विजने, आसन्ने प्रसवे। आविदूर्ये हि मूर्धन्यो विधीयते, **अवाच्चालम्बनाविदूर्ययोः** (८.३.६८) इति। अद्य वा श्वो वा विजायते अद्यश्वीना गौः। अद्यश्वीना वडवा। केचित् तु विजायत इति नानुवर्तयन्ति, अवष्टब्धमात्रे निपातनमित्याहुः। अद्यश्वीनं मरणम्। अद्यश्वीनो वियोग इति॥ Siddhanta Kaumudi ----------------- अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥ Balamanorama ------------ **अद्यश्वीनाऽवष्टब्धे** - अद्यआईनाऽवष्टब्धे ।अद्यआईने॑त्यविभक्तको निर्देशः । अवष्टब्धम्ासन्नम् ।अवाच्चालम्बनाविदूर्ययो॑रित्याविदूर्ये स्तन्भेः षत्वविधानात् । अद्य आओ वा विजायत इत्यर्थे अद्य आसिति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यआईना वडवेति । अद्य वा आओ वेति वार्थे निपानात्समासः । खे सति 'अव्ययानां भमात्रे' इति टिलोपः । सूत्रे अद्यआईनेति टाबन्तनिर्देशे तु अद्यआईनो गोसमूहः, अद्यआईनां गोमण्डलमिति न स्यात् । Tattvabodhini ------------- **अद्यश्वीनाऽवष्टब्धे** - अद्य आओ वेति । निपातनाद्वाऽर्थे समासोऽयमिति भावः ।अवाच्चालम्बने॑ति सूत्रेण आविदूर्ये स्तन्भेः षत्वविधानादवष्टब्धशब्द आसन्नपरः ।विजायते॑इति हि वर्तते । स च गर्भविमोचनार्थकः । तदाह -आसन्नप्रसतेत्यर्थ इति । Padamanjari ----------- अवष्टब्ध, विजन - इत्येतयोर्यथाक्रमं विवरणम् - आसन्ने प्रसव इति। कथं पुनरवष्टब्धशब्दस्यासन्नमर्थः ? इत्याह - आविदूर्ये हीति। यद्यप्यालम्बनेऽपि षत्वं विधीयते; तथापि विजनस्यालम्बनत्वासम्भवादाविदूर्यमेवार्थः। किं पुनरत्र निपात्यते ? अद्य वा विश्वो वेति वार्थे समासः खप्रत्ययः, टिलोपस्त्वव्ययत्वादेव सिद्धः। अद्यश्वीना वडवेति। विजायत इत्यस्यानुकूलतया स्त्रीलिङ्गमुदाहृतम्, न पुनः सूत्रे स्त्रीलिङ्गनिर्द्देशः। अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमित्यत्रापीष्ठत्वात्। ????????? ह्रस्वान्तस्याविभिक्तिको निर्देशः। केचित्विति। तेषां यथाभिधानं क्रियाध्याहारः। अवष्टब्धमात्रे इति। भवत्याद्यर्थेऽपीत्यर्थः। अद्यस्वीनं मरणमिति। अद्य वा श्वो वा भविष्यतीत्यत्रार्थे प्रत्ययः ॥ Nyaas ----- `अवष्टब्धे विजन आसन्ने प्रसवे` इति। अत्र पूर्वयोः पदयोरुत्तराभ्यां यथाक्रममर्थाख्यानम्॥ Prakriyasarvasvam ----------------- अवष्टब्धमासन्नम् । आसन्ने विजनने द्योत्ये अद्यश्वीना गौः । आसन्नमात्रेऽपि । अद्यश्वीनः सङ्गमः ॥