52011: अवारपारात्यन्तानुकामं गामी ================================= **Padacheda:** अवारपार-अत्यन्त-अनुकामम् | S | 2 | 1 | गामी | S | 1 | 1 | Sutrartha --------- **'गामी' इत्यस्मिन् अर्थे 'अवारपार', 'अत्यन्त' तथा 'अनुकाम' एतेभ्यः द्वितीयासमर्थेभ्यः 'ख'-प्रत्ययः भवति ।** 'गामी' इत्युक्ते 'गमिष्यति सः' । 'गम्' धातोः **आवश्यकाधमर्ण्ययोर्णिनिः** (3.3.170) इत्यनेन 'णिनि' प्रत्ययं कृत्वा 'गामिन्' इति प्रातिपदिकम् सिद्ध्यति, तस्य इदम् प्रथमैकवचनम् । अस्मिन् सूत्रे 'गामी' इत्यस्मिन् अर्थे त्रिभ्यः शब्देभ्यः 'ख'प्रत्ययः उच्यते । क्रमेण पश्यामः - 1. 'अवारपार' - 'अवारपार' इत्युक्ते सागरस्य द्वितीयः तटः (other end of ocean). सागरमपि उल्लङ्घ्य यः गमिष्यते , तस्य निर्देशार्थम् 'अवारपार'शब्दात् ख-प्रत्ययः क्रियते । अवारपारम् गामी अवारपारीणः । अस्य शब्दस्य विषये वार्त्तिकमेकम् पाठ्यते - । इत्युक्ते, 'अवार', 'पार', तथा 'पारावार' - एतेभ्यः शब्देभ्यः अपि वर्तमानसूत्रेण ख-प्रत्ययः भवति । अवारं गामी अवारीणः । पारं गामी पारीणः । पारावारं गामी पारावारीणः । 2. 'अत्यन्त' - 'बहु' अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । अत्यन्तम् गामी अत्यन्तीनः । भृशमन्तरम् गच्छति (The one who will travel a huge amount of distance) इत्यर्थः । 3. अनुकाम - 'काममनुसृत्य' (यथेच्छम्, based on the will) इति अस्य शब्दस्य अर्थः । अनुकामम् गच्छति अनुकामीनः । Vasu English Summary -------------------- The affix ख (ईन) comes in the sense of 'who purposes to go' after the words 1. अवारपार 2. अत्यन्त and 3. अनुकाम being in the Accusative -2nd case in construction. Vasu English Translation ------------------------ The affix ख (ईन) comes in the sense of 'who purposes to go' after the words 1. अवारपार 2. अत्यन्त and 3. अनुकाम being in the Accusative -2nd case in construction. The word गामी means 'गमिष्यति', see (3.3.3). The genitive case is prohibited by (2.3.70): the word गामी governing the accusative. Thus अवारपारं गामी = अवारपारीणः ॥ Vart:- So also when the words are reversed. As पारावारीणः ॥ So also when the words are taken separately as, अवारीणः and पारीणः ॥ So also अत्यन्तं गामी = अत्यन्तीनः = भृशं गन्ता ॥ As अनुकामीनः = यथेष्टं गन्ता ॥ Kashika ------- अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यो गामीत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यतीति गामी, **भविष्यति गम्यादयः** (३.३.३) इति। **अकेनोर्भविष्यदाधमर्ण्ययोः** (२.३.७०) इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः॥ विगृहीतादपीष्यते॥ अवारीणः, पारीणः॥ विपरीताच्च॥ पारावारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्तेत्यर्थः। अनुकामं गामी अनुकामीनः। यथेष्टं गन्तेत्यर्थः॥ Siddhanta Kaumudi ----------------- अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥ Balamanorama ------------ **अवारपारात्यन्तानुकामं गामी** - अवारपार । अवारपार, अत्यन्त, अनुकाम — एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः ।आवश्यकाधमण्र्ययोर्णिनि॑रिति णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । 'बहुलमाभीक्ष्ण्ये' इति वा णिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह — अवारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह — भृशं गन्तेति । अनुकाममिति । कामः=इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्यायीभावः । Tattvabodhini ------------- **अवारपारात्यन्तानुकामं गामी** - अवारपार । गामीति ।गमेरिनिः, आङि णिच्चे॑ति बहुलवचनात्केवलादपि णिनिः ।भविष्यति गम्यादयः॑इति भविष्यत्कालता । न्यासकारस्तुआवश्यके णिनिः, सोऽपि भविष्यत्येवे॑त्याह । अवारपारमिति । अकतेनोर्भविष्यदाधमण्र्ययो॑रिति षषाठीप्रतिषेधः । केचित्तुगत्र्थकर्मणी॑ति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम् । तेन कृद्योगषष्ठी न भवतिग्रामं गन्ते॑तिवदिति व्याचख्युः । तदसत् ।अकेनो॑रिति प्रतिषेधे षष्ठीप्रसङ्गस्यैवाऽभावात् । अवारीण इत्यादि ।विगृहीताद्विपरीतादपीष्यते॑इति भावः । अत्यन्तमिति । क्रियाविशेषणम् । अनुकाममिति । काम इच्छा , तस्य सदृशमनुकामम् । कामानुरूपमित्यर्थः ।अव्ययं विभक्ती॑ति यथार्थेऽव्ययीभावः । Padamanjari ----------- गामीति।'गमेरिनिः' , ठाङ् इणिच्चऽ इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ।ल्ते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति।'गत्यर्थकर्मणि' इत्यत्र यदुक्तम् -'द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति - ग्रामं गन्ता' इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति - अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवमनुकाममिति। कामःउइच्छा, तस्य सदृशमनुकाममुकामानुरूपम्,'यथार्थे यदव्ययम्' इति समासः ॥ Nyaas ----- `गामी` इति। `आवश्यकाधमण्र्ययोर्णिनिः` (3.3.170) इत्यावश्यकार्थे णिनिः। भविष्यति चायं काले गामिशब्दो वर्तते, यदाह - `गमिष्यतीति गामी`। सा च भविष्यति वृत्तिः **भविष्यति गम्यादयः** (3.3.3) इति वचनाल्लभ्यते; इत्याह - `भविष्यति` इत्यादि। `अकेनोर्भविष्यदाधमण्र्ययोरिति षष्ठीप्रतिषेधः` इति। तेन द्वितीयासमर्थतोपपद्यत इत्यभिप्रायः। कृद्योगा हि षष्ठी द्वितीयाया अपवादः, तेन षष्ठीप्रतिषेधे हि सति द्वितीययैव भवितव्यम्। `अवारपारम्` इति। अवारस्य पारमिति षष्ठीसमासोऽयम्। वा च षष्ठ्याः पूर्वनिपातो वक्तव्यः। तेन पक्षे पारावारमित्यपि भवति। `विगृहीतादपि` इति। [`भवति`-मुद्रितः पाठः] `विपरीताच्च` इति। कथं पुनरधिकारादेव द्वितीयासमर्थविभक्तौ लब्धायामिहाधिकं द्वितीयोपादानं कृतम्? एतेन तदधिकस्य विधिर्भवतीति सूचितम्। तेन विगृहीताद्विपरीताच्च प्रत्यय उपपद्यते। `अत्यन्तम्` इति। अन्तस्याभावोऽत्ययो वेति। `अव्ययं विभक्ति` (2.1.6) इत्यादिनाऽव्ययीभावः। अथ वा - अन्तमतिक्रान्तमिति `कुगति` (2.2.18) इत्यादिना तत्परुषः। क्रियाविशेषणञ्चैतत्। `भृशं गन्तेत्यर्थः` इति। भृशार्थत्वेन लोकेऽत्यन्तशब्दस्य प्रसिद्धत्वात्। `अनुकामम्` इति। कामसदृशमनुकामम्। कामनुरूपमित्यर्थः। यथार्थेऽव्ययीभावः। इदमपि क्रियाविशेषणमेव॥ Prakriyasarvasvam ----------------- एभ्यस्तद्गामीति खः । अर्वाक् तीरमवारं, परं तीरं पारं तदुभयं गमिष्यन्नवारपारीणः । 'व्यस्ताद् विपर्यस्तादपि' । अवारीणः, पारीणः, पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । यथेष्टं गन्ता अनुकामीनः ॥ Sutra Prayogas -------------- * **पारीण** (भट्टिकाव्यम्): `अवार-पार...` इत्यादिना पारशब्दात् खः। * **आन्त्यन्तीनं** (भट्टिकाव्यम्): `अवारपार` इति अत्यन्तं गामीत्यस्मिन्नर्थे खः।