51105: ऋतोरण् ============= **Padacheda:** ऋतोः | S | 5 | 1 | अण् | S | 1 | 1 | Sutrartha --------- **'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'ऋतु'शब्दात् अण् प्रत्ययः भवति ।** प्रथमासमर्थात् 'ऋतु'शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य ऋतुः प्राप्तः' तस्य निर्देशं कर्तुमण् प्रत्ययः भवति । यथा, ऋतुः प्राप्तः अस्य पुष्पस्य तत् आर्तवम् पुष्पम् (The flower that is about to blossom - इत्यर्थः) । प्रक्रिया इयम् - ऋतु + अण् → आर्तु + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः । ऋकारस्य वृद्धिः आकारः, स च **उरण् रपरः** (1.1.51) इति रपरः] →> आर्तो + अ [**ओर्गुणः** (6.4.146) इति गुणः] → आर्तव [**एचोऽयवायावः** (6.1.78) इति अवादेशः] ज्ञातव्यम् - अस्मिन् सूत्रे 'ऋतु' इत्यनेन शब्दस्वरूपम् गृह्यते, न हि ऋतुवाचकः शब्दः (यथा वसन्त-ग्रीष्मादयः) । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'तदस्य प्राप्तम्' अस्मिन् अर्थे 'उपवस्तृ', 'प्राशितृ' एताभ्यामपि अण्-प्रत्ययः भवति । उपवस्ता (यः उपवासं करोति सः) प्राप्तः अस्य उपवासस्य सः औपवस्त्रः उपवासः (A convoluted way of saying that the 'fast' has obtained its doer). । प्राशिता (यज्ञे देवाय दीयमानः अंशः) प्राप्तः अस्य सः प्राशित्रः यज्ञः । Vasu English Summary -------------------- The affix अण् comes in the sense of 'that has come for it' after the word ऋतु। Vasu English Translation ------------------------ The affix अण् comes in the sense of 'that has come for it' after the word ऋतु। As ऋतुःप्राप्तोऽस्य = आर्त्तवं पुष्पम् (*Guna* by (6.4.146)) "the flower for which the season has arrived". Vart:- So also after the words उपवस्त्र &c. As औपवस्त्रम्, प्राशित्रम् ॥ Kashika ------- तदस्य प्राप्तमित्यनुवर्तते। ऋतुशब्दात् तदिति प्रथमासमर्थाद् अस्येति षष्ठ्यर्थेऽण् प्रत्ययो भवति तदस्य प्राप्तमित्येतस्मिन् विषये। ऋतुः प्राप्तोऽस्य आर्तवं पुष्पम्॥ तदस्य प्रकरण उपवस्त्रादिभ्य उपसंख्यानम्॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम्। प्राशिता प्राप्तोऽस्य प्राशित्रम्॥ Siddhanta Kaumudi ----------------- ऋतुः प्राप्तोऽस्य आर्तवम् ॥ (वार्तिकम्) ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥ Balamanorama ------------ **ऋतोरण्** - ऋतोरण् । प्राप्तमित्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्तादृतोरणित्यर्थः । आर्तवमिति । अणि ओर्गुणः, आदिवृद्धिः । रपरत्वम् । Tattvabodhini ------------- **ऋतोरण्** - आर्तवमिति ।पुष्प॑मित्यादि विशेष्यं बोध्यम् । Padamanjari ----------- तपवस्ता प्राप्तोऽस्तेति। उपवत्साऊपवासस्य कर्ता स प्राप्तोऽस्य औपवस्त्रमूपवासः, प्राशित्रमुब्रह्मभागः ॥ Nyaas ----- वसन्तोऽस्य पुष्पदेरृतुः प्राप्तः, स तस्य जनकत्वात्? प्रयोजको भवतीति **प्रयोजनम्** (5.1.109) इति ठञि प्राप्ते सत्ययमारभ्यते॥ Prakriyasarvasvam ----------------- ऋतुरस्य प्राप्त इत्यार्तवं पुष्पम् । स्वयोग्यतौ प्राप्ते जातमित्यर्थः । 'उपवस्त्रादिभ्योऽप्यण् वाच्यः' । उपवस्ता प्राप्तोऽस्येत्यौपवस्त्र उपवासार्हकालः । उपवास एवौपवस्त्रमित्यन्ये । प्राशिता प्राप्तोऽस्येति प्राशित्रं प्राशनार्थो हविर्भागः । Vartika ------- उपवस्त्रादिभ्यः उपसङ्ख्यानम् । Sutra Prayogas -------------- * **अवधीरितार्तवगुणं** (किरातार्जुनीयम्): `ऋतोरण्` इत्यण्प्रत्ययः। * **सैकतेषु** (भट्टिकाव्यम्): `देशे लुबिलचौ च` इति चकारादण्।