51099: सम्पादिनि

Padacheda: सम्पादिनि | S | 7 | 1 |

Sutrartha

‘सम्पादिनि’ (शोभते) अस्मिन् अर्थे तृतीयासमर्थात् ठञ् प्रत्ययः भवति ।

‘सम्पादिनि’ इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते ‘यः शोभते सः’ (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् ‘सम्पादी’ अस्मिन् अर्थे वर्तमानसूत्रेण ठञ् प्रत्ययः भवति । यथा - 1. कर्णवेष्टकाभ्याम् सम्पादि मुखम् = कार्णवेष्टिकम् मुखम् । कर्णयोः आभूषणेन यस्य सौन्दर्यम् वर्धते, तादृशम् मुखम् ‘कार्णवेष्टिकम्’ मुखम् नाम्ना ज्ञायते । 2. नूपुराभ्याम् सम्पादिनौ पादौ = नौपुरिकौ पादौ । यौ पादौ नूपुरयोः शोभेते तौ नौपुरिकौ पादौ । 3. वस्त्रयुगेण सम्पादि शरीरम् = वास्त्रयुगिकम् शरीरम् । यत् शरीरम् द्वयोः वस्त्रयोः सुशोभते, तत् वास्त्रयुगिकम् शरीरम् । ज्ञातव्यम् - ‘सम्पाद’ शब्दात् आवश्यकाधमर्णयोर्णिनिः (3.3.170) अनेन सूत्रेण ‘णिनि’ प्रत्ययं कृत्वा ‘सम्पादिन्’ इति इन्नन्तः शब्दः सिद्ध्यति ।

Vasu English Summary

The affix ठञ् comes after a word in the Instrumental -3rd case in construction in the sense of ‘fitted for that’.

Vasu English Translation

The affix ठञ् comes after a word in the Instrumental -3rd case in construction in the sense of ‘fitted for that’. The word संपत्तिः means ‘suitable, proper, it’. The word संपादिन् is formed by adding णिनि to संपद्, the force of the affix being that of necessity (3.3.170). As कर्णविष्टकाभ्यां संपादि मुखं = कार्णयेष्टकिकं मुखं ‘a face fit for earrings’. वास्त्रयुगिकम् शरीरम् i. e. वस्त्रयुगेन विशेषतः शोभते ॥

Kashika

तेनेत्येव। तृतीयासमर्थात् संपादिन्यभिधेये ठञ् प्रत्ययो भवति। गुणोत्कर्षः संपत्तिः। आवश्यके णिनिः (३.३.१७०)। कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्। वस्त्रयुगेण विशेषतः शोभत इत्यर्थः॥

Siddhanta Kaumudi

ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ॥

Balamanorama

सम्पादिनि - सम्पादिनि । तेनेत्येवेति । संपाद=संपत्तिः, शोभा, अस्यास्तीति-संपादी । तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः ।

Tattvabodhini

सम्पादिनि - संपादिनि । गुणोत्कर्षः — संपत्तिः ।आवश्यके णिनि॑रिति वृत्तकृत् । एवं वस्त्रयुगेन संपादि वास्त्रयुगिकं शरीरमित्यप्युदाहार्यम् । वस्त्रयुगेन अवश्यं शोभत इत्यर्थः ।

Padamanjari

सम्पादिनीत्यत्र सम्पदेरर्थमाह - गुणोत्कर्षः सम्पतिरिति। कर्णवेष्टकमुकर्णाभरणम्। वस्त्रयुगेणेति।’कुमचि च’ इति णत्वम् ॥

Nyaas

गुणोत्कर्षः सम्पत्तिः इति। सम्पादिनीत्यत्र प्रकृतिभागस्यार्थमाचष्टे। पूर्वावस्थाया गुणातिरेको गुणोत्कर्षः। आवश्यके णिनिः इति। अवश्यं सम्पद्यत इति आवश्यकाधमर्णयोर्णिनिः (3.3.170) । विशेषतशोभते इति। शोभनाख्यस्य गुणस्य पूर्वावस्थाया उत्कर्षादतिरिच्यमानत्वात्॥

Prakriyasarvasvam

तेन सम्पादीत्यर्थे ठञ् । शोभाविशेषः सम्पत्तिः । चन्दनेन विशेषतः शोभि चान्दनिकमुरः ॥

Sutra Prayogas

  • चान्दनिकं (भट्टिकाव्यम्): तत्रोभयत्र सम्पादिनि इति ठक्।