51100: कर्मवेषाद्यत् ==================== **Padacheda:** कर्म-वेषात् | S | 5 | 1 | यत् | S | 5 | 1 | Sutrartha --------- **तृतीयासमर्थात् 'कर्म'शब्दात् 'वेष'शब्दात् च 'सम्पादिनि' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।** 'सम्पादिनि' इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते 'यः शोभते सः' (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् **सम्पादिनि** (5.1.100) इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्यये प्राप्ते तं बाधित्वा 'कर्म'शब्दात् तथा 'वेष'शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययः भवति । यथा - 1. कर्मेण सम्पादि कर्म्यम् शरीरम् । कर्म कृत्वैव यत् शोभते, न हि आलस्येन, तत् कर्म्यम् शरीरम् । 2. वेषेण सम्पादी वेष्यः नटः । उचितं वेषं धारयित्वा यः शोभते सः वेष्यः नटः (actor) । ज्ञातव्यम् - 'सम्पत्ति' शब्दात् **आवश्यकाधमर्णयोर्णिनिः** (3.3.170) अनेन सूत्रेण 'णिनि' प्रत्ययं कृत्वा 'सम्पादिन्' इति इन्नन्तः शब्दः सिद्ध्यति । Vasu English Summary -------------------- The affix यत् (यं) comes in the sense of 'being fitted with that', after the words 1. कर्म and 2. वेष being in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix यत् (यं) comes in the sense of 'being fitted with that', after the words 1. कर्म and 2. वेष being in the Instrumental -3rd case in construction. This debars *than*. कर्मणा संपद्यते = कर्मण्यं शरीरम्, वेषेण संपद्यते = वेष्यो नटः ॥ For accent see (6.1.213). Kashika ------- कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति संपादिनीत्येतस्मिन् विषये। ठञोऽपवादः। कर्मणा संपद्यते कर्मण्यं शरीरम्। वेषेण संपद्यते वेष्यो नटः॥ Siddhanta Kaumudi ----------------- कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥ Balamanorama ------------ **कर्मवेषाद्यत्** - कर्मवेषाद्यत् । तृतीयान्तात्कर्मन्शब्दात्, वेषशब्दाच्च संपादिन्यर्थे यत्स्यादित्यर्थः । Padamanjari ----------- कर्मृउव्यायामः, वेषःउकृत्रिम आकारः ॥ Nyaas ----- `कण्र्यम्` इति। **ये चाभावकर्मणोः** (6.4.168) इति प्रकृतिभावः॥ Prakriyasarvasvam ----------------- कर्म व्यायामः । तेन सम्पादी कर्मण्यः वेष्यः ॥