51063: तद् अर्हति

Padacheda: तत् | S | 2 | 1 |

अर्हति | T | | |

Sutrartha

‘अर्हति’ अस्मिन् अर्थे द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति ।

‘अर्हति’ इत्युक्ते ‘लब्धुम् योग्यः भवति’ । ‘अर्हति’ अस्मिन् अर्थे द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. वसनमर्हति सः = वसन + अण् → वासनः । अत्र शतमानविंशतिकसहस्रवसनादण् (5.1.27) इति अण् प्रत्ययः विधीयते । 2. शतमर्हति सः शतिकः शत्यः वा । अत्र शताच्च ठन्यतावशते (5.1.21) इति ठन्, यत् प्रत्ययौ भवतः । 3. द्वे शते अर्हति सः द्विशत्यः द्विशतः वा । अत्र पणपादमाषशतादत् (5.1.34) इति यत् प्रत्ययः भवति, तथा च <!शताच्चेति वक्तव्यम्!> अनेन वार्त्तिकेन तस्य वैकल्प्यमपि जायते ; अतः पक्षे संख्याया अतिशदन्तायाः कन् (5.1.22) इति कन् अपि विधीयते, तस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन लुक् भवति । ] 4. श्वेतच्छत्रमर्हतिः सः श्वैतच्छत्रिकः । आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् (5.1.19) इति ठक् । 5. द्रोणमर्हति सः द्रौणिकः । अत्र असमासे निष्कादिभ्यः (5.1.20) इति ठक् प्रत्ययः भवति ।

Vasu English Summary

The affixes प्राग्वतेष्ठञ् (5.1.18) have also the sense of ‘who deserves that’.

Vasu English Translation

The affixes प्राग्वतेष्ठञ् (5.1.18) have also the sense of ‘who deserves that’. The case in construction here is accusative. Thus श्वेतच्छत्रमर्हति = श्वेतच्छत्रिकः “who deserves the White Umbrella”. So also वास्त्रयुग्मिकः, शत्यः, शतिकः साहस्रः ॥

Kashika

तदिति द्वितीयासमर्थादर्हतीत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः। वास्त्रयुग्मिकः। शत्यः, शतिकः। साहस्रः॥

Siddhanta Kaumudi

लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रर्हति श्वैतच्छत्रिकः ॥

Laghu Siddhanta Kaumudi

लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः॥

Balamanorama

तद् अर्हति - तदर्हति । अर्हतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात् । इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह — लब्धुमिति । औतच्छत्रिक इति । आर्हीयष्ठक् ।

Tattvabodhini

तद् अर्हति - औतच्छत्रिक इति । एवं खारीकाः । शत्यः । शतिकः । साहरुआः । इत्यादीन्युदाहर्तव्यानि ।

Padamanjari

नित्यगद्रहणं प्रत्ययार्थविशेषणामिति। अथ यथा’नित्यं क्रीडाजीविकयो’ इत्यत्र महाविभाषया प्राप्तस्य वाक्यस्य निवृत्यर्थं नित्यग्रहणम्, तथेहापि कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इत्यते च दृश्यते च छेदमर्हतीति। न च वाक्यनिवृत्यर्थमेव नित्यग्रहणं कर्तव्यम्,’छेदादिभ्यः’ इत्येवास्तु, पूर्वेण सिद्धे पुनरारम्भो वाक्यनिवृत्यर्थो भविष्यति। यथा तर्हि’त्रेर्मप्नित्यम्’ इत्यत्र स्वातन्त्र्यनिवृत्यर्थं नित्यग्रहणम्, तथेह कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इष्यते च स्वातत्र्यम्, दृश्यते च छेदादिषु पठितस्य सम्प्रशनशब्दस्य स्वतन्त्रस्य प्रयोगः, विधिनिमन्त्रणादिसुत्रे यथा। तर्ह्येकगोपूर्वादित्यत्र प्रत्ययान्तर्य मतुपो निवृत्यर्थं नित्यग्रहणम्, तदेह कस्मान्न भवति? अप्राप्तत्वात्। न ह्यत्र कस्यचित्प्रत्ययान्तरस्य प्राप्तिः। यथा तर्हि’नित्यं कौटिल्ये गतौ’ इत्यत्रार्थान्तरनिवृत्यर्थं नित्यग्रहणम् - गतिवचनाद्धातोः कौटिल्य एव, न क्रियासमभिहार इति, तथेह कस्मान्न भवति ? इष्टत्वाद्, इष्यते ह्यर्थान्तरेऽपि यथायोगं छेदादिभ्य अर्हीयः प्रत्ययः। तस्माद्यथोक्तमेव प्रयोजनं नित्यग्रहणस्य। छेदं नित्यमर्हतीति। ननु न कश्चित् पदार्थो नित्यं छेदमर्हति, योऽपि वेतसादिश्च्छिन्नश्च्छिन्नः प्ररोहति सोऽपि न सदैवच्छेदनार्हः; प्ररूढस्तु भवति। यस्तार्ह दस्युवंसादिर्नित्यं छेदनार्हः स प्रत्ययार्थः। अपर आह - आभीक्ष्णये नित्यशब्दः, यथा - नित्यप्रहसितादाविति। विराग विरङ्गं चेति। विरागशब्दाः प्रत्ययमुत्पादयति, तत्सन्नियोगेन विरङ्गमादेशमापद्यते - विरागं नित्यमर्हति वैरङ्गिकः ॥

Nyaas

औतच्छत्रिकः, वास्त्रयुग्मिकः इत्यादिषु ठक्। `आर्हात्? (5.1.19) इत्यभिविधौ चायमाकार इति॥

Prakriyasarvasvam

अस्मिन्नर्थे ठञ् ठगाद्याः स्युः । श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः । अभिगममर्हन्, अनुशतिकादित्वाद्, आभिगामिकः । शत्यः । शतिकः । ‘नञ्स्नञौ भवनात्’ (४-१-८७) । स्त्रियमर्हन् स्त्रैणो युवा ॥

Sutra Prayogas

  • सांपरायिकः (रघुवंशम्): तदर्हति इति ठक्प्रत्ययः।