51063: तद् अर्हति ================= **Padacheda:** तत् | S | 2 | 1 | अर्हति | T | | | Sutrartha --------- **'अर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति ।** 'अर्हति' इत्युक्ते 'लब्धुम् योग्यः भवति' । 'अर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. वसनमर्हति सः = वसन + अण् → वासनः । अत्र **शतमानविंशतिकसहस्रवसनादण्** (5.1.27) इति अण् प्रत्ययः विधीयते । 2. शतमर्हति सः शतिकः शत्यः वा । अत्र **शताच्च ठन्यतावशते** (5.1.21) इति ठन्, यत् प्रत्ययौ भवतः । 3. द्वे शते अर्हति सः द्विशत्यः द्विशतः वा । अत्र **पणपादमाषशतादत्** (5.1.34) इति यत् प्रत्ययः भवति, तथा च अनेन वार्त्तिकेन तस्य वैकल्प्यमपि जायते ; अतः पक्षे **संख्याया अतिशदन्तायाः कन्** (5.1.22) इति कन् अपि विधीयते, तस्य च **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् भवति । ] 4. श्वेतच्छत्रमर्हतिः सः श्वैतच्छत्रिकः । **आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्** (5.1.19) इति ठक् । 5. द्रोणमर्हति सः द्रौणिकः । अत्र **असमासे निष्कादिभ्यः** (5.1.20) इति ठक् प्रत्ययः भवति । Vasu English Summary -------------------- The affixes प्राग्वतेष्ठञ् (5.1.18) have also the sense of 'who deserves that'. Vasu English Translation ------------------------ The affixes प्राग्वतेष्ठञ् (5.1.18) have also the sense of 'who deserves that'. The case in construction here is accusative. Thus श्वेतच्छत्रमर्हति = श्वेतच्छत्रिकः "who deserves the White Umbrella". So also वास्त्रयुग्मिकः, शत्यः, शतिकः साहस्रः ॥ Kashika ------- तदिति द्वितीयासमर्थादर्हतीत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः। वास्त्रयुग्मिकः। शत्यः, शतिकः। साहस्रः॥ Siddhanta Kaumudi ----------------- लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रर्हति श्वैतच्छत्रिकः ॥ Laghu Siddhanta Kaumudi ----------------------- लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः॥ Balamanorama ------------ **तद् अर्हति** - तदर्हति । अर्हतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात् । इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह — लब्धुमिति । औतच्छत्रिक इति । आर्हीयष्ठक् । Tattvabodhini ------------- **तद् अर्हति** - औतच्छत्रिक इति । एवं खारीकाः । शत्यः । शतिकः । साहरुआः । इत्यादीन्युदाहर्तव्यानि । Padamanjari ----------- नित्यगद्रहणं प्रत्ययार्थविशेषणामिति। अथ यथा'नित्यं क्रीडाजीविकयो' इत्यत्र महाविभाषया प्राप्तस्य वाक्यस्य निवृत्यर्थं नित्यग्रहणम्, तथेहापि कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इत्यते च दृश्यते च छेदमर्हतीति। न च वाक्यनिवृत्यर्थमेव नित्यग्रहणं कर्तव्यम्,'छेदादिभ्यः' इत्येवास्तु, पूर्वेण सिद्धे पुनरारम्भो वाक्यनिवृत्यर्थो भविष्यति। यथा तर्हि'त्रेर्मप्नित्यम्' इत्यत्र स्वातन्त्र्यनिवृत्यर्थं नित्यग्रहणम्, तथेह कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इष्यते च स्वातत्र्यम्, दृश्यते च छेदादिषु पठितस्य सम्प्रशनशब्दस्य स्वतन्त्रस्य प्रयोगः, विधिनिमन्त्रणादिसुत्रे यथा। तर्ह्येकगोपूर्वादित्यत्र प्रत्ययान्तर्य मतुपो निवृत्यर्थं नित्यग्रहणम्, तदेह कस्मान्न भवति? अप्राप्तत्वात्। न ह्यत्र कस्यचित्प्रत्ययान्तरस्य प्राप्तिः। यथा तर्हि'नित्यं कौटिल्ये गतौ' इत्यत्रार्थान्तरनिवृत्यर्थं नित्यग्रहणम् - गतिवचनाद्धातोः कौटिल्य एव, न क्रियासमभिहार इति, तथेह कस्मान्न भवति ? इष्टत्वाद्, इष्यते ह्यर्थान्तरेऽपि यथायोगं छेदादिभ्य अर्हीयः प्रत्ययः। तस्माद्यथोक्तमेव प्रयोजनं नित्यग्रहणस्य। छेदं नित्यमर्हतीति। ननु न कश्चित् पदार्थो नित्यं छेदमर्हति, योऽपि वेतसादिश्च्छिन्नश्च्छिन्नः प्ररोहति सोऽपि न सदैवच्छेदनार्हः; प्ररूढस्तु भवति। यस्तार्ह दस्युवंसादिर्नित्यं छेदनार्हः स प्रत्ययार्थः। अपर आह - आभीक्ष्णये नित्यशब्दः, यथा - नित्यप्रहसितादाविति। विराग विरङ्गं चेति। विरागशब्दाः प्रत्ययमुत्पादयति, तत्सन्नियोगेन विरङ्गमादेशमापद्यते - विरागं नित्यमर्हति वैरङ्गिकः ॥ Nyaas ----- `औतच्छत्रिकः, वास्त्रयुग्मिकः` इत्यादिषु ठक्। `आर्हात्? (5.1.19) इत्यभिविधौ चायमाकार इति॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थे ठञ् ठगाद्याः स्युः । श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः । अभिगममर्हन्, अनुशतिकादित्वाद्, आभिगामिकः । शत्यः । शतिकः । 'नञ्स्नञौ भवनात्' (४-१-८७) । स्त्रियमर्हन् स्त्रैणो युवा ॥ Sutra Prayogas -------------- * **सांपरायिकः** (रघुवंशम्): `तदर्हति` इति ठक्प्रत्ययः।